{अथ सप्तषष्ट्यधिकशततमो ऽध्यायः ॥ }
विश्वास-प्रस्तुतिः
अयुतलक्षकोटिहोमाः
अग्निर् उवाच
श्रीशान्तिविजयाद्यर्थं ग्रहयज्ञं पुनर्वदे ।
ग्रहयज्ञो ऽयुतहोमलक्षकोट्यात्मकस्त्रिधा ॥००१॥
मूलम्

वेदेरैशे ह्य् अग्निकुण्डाद् ग्रहानावाह्य मण्डले ।
सौम्ये गुरुर्बुधश् चैशे शुक्रः पूर्वदले शशी ॥००२॥

आग्नेये दक्षिणे भौमो मध्ये स्याद्भास्करस् तथा ।
शनिराप्ये ऽथ नैरृत्ये राहुः केतुश् च वायवे ॥००३॥

ईशश्चोमा गुहो विष्णुर्ब्रह्मेन्द्रौ यमकालकौ ।
चित्रगुप्तश्चाधिदेवा अग्निरापः क्षितिर्हरिः ॥००४॥

इन्द्र ऐन्द्री देवता च प्रजेशो ऽहिर्विधिः क्रमात् ।
एते प्रत्यधिदेवाश् च गणेशो दुर्गयानिलः ॥००५॥

[[१६२]]
विश्वास-प्रस्तुतिः
अर्कः पलाशः खदिरो ह्य् अपामार्गश् च पिप्पलः ॥००६॥

उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात् ।
मध्वाज्यदधिसम्मिश्रा होतव्याश्चाष्टधा शतम् ॥००७॥

एकाष्टशतुरः कुम्भान् पूर्य पूर्णाहुतिन्तथा ।
वसोर्धारान्ततो दद्याद्दक्षिणाञ्च ततो ददेत् ॥००८॥

यजमानं चतुर्भिस्तैर् अभिषिञ्चेत् समन्त्रकैः ।
सुरास्त्वामभिषिञ्चन्तु ब्रह्मविष्णुमहेश्वराः ॥००९॥

वासुदेवो जगन्नाथस् तथा सङ्कर्षणः प्रभुः ।
प्रद्युम्नश्चानिरुद्धश् च भवन्तु विजयाय ते ॥०१०॥

आखण्डलो ऽग्निर्भगवान् यमो वै नैरृतस् तथा ।
वरुणः पवनश् चैव धनाध्यक्षस् तथा शिवः ॥०११॥

ब्रह्मणा सहितः शेषो दिक्पालाः पान्तु वः सदा ।
कीर्तिर्लक्ष्मीर्धृतिर्मेधा पुष्टिः श्रद्धा क्रिया मतिः ॥०१२॥

बुद्धिर् लज्जा वपुः शान्तिस्तुष्टिः कान्तिश् च मातरः ।
एतास्त्वामभिषिञ्चन्तु धर्मपत्न्याः समागताः ॥०१३॥

आदित्यश् चन्द्रमा भौमो बुधजीवशितार्कजाः ।
ग्रहास्त्वामभिषिञ्चन्तु राहुः केतुश् च तर्पिताः ॥०१४॥

देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मनवो गावो देवमातर एव च ॥०१५॥
मूलम्
देवदानवगन्धर्वा यक्षराक्षसपन्नगाः ।
ऋषयो मनवो गावो देवमातर एव च ॥०१५॥
विश्वास-प्रस्तुतिः
देवपत्न्यो द्रुमा नागा दैत्याश्चाप्सरसाङ्गणाः ।
अस्त्राणि सर्वशास्त्राणि राजानो वाहनानि च ॥०१६॥

औषधानि च रत्नानि कालस्यावयवाश् च ये ।
सरितः सागराः शैलास्तीर्थानि जलदा नदाः ॥०१७॥

[[१६३]]
विश्वास-प्रस्तुतिः
एते त्वामभिषिञ्चन्तु सर्वकामार्थसिद्धये1 ।
अलङ्कृतस्ततो दद्याद्धेमगोन्नभुवादिकं ॥०१८॥

कपिले सर्वदेवानां पूजनीयासि रोहिणि ।
तीर्थदेवमयी यस्मादतःशान्तिं प्रयच्छ मे ॥०१९॥

पुण्यस्त्वं शङ्ख पुण्यानां मङ्गलानाञ्च मङ्गलं ।
विष्णुना विधृतो नित्यमतः शान्तिं प्रयच्छ मे ॥०२०॥

धर्म त्वं वृषरूपेण जगदानन्दकारकः ।
अष्टमूर्तेरधिष्टानमतः शान्तिं प्रयच्छ मे ॥०२१॥

+++(हिरण्य!)+++ हिरण्य-गर्भ–गर्भ-स्थं
हेम-बीजं विभावसोः ।
अनन्त-पुण्य-फल-दम्
अतश् शान्तिं प्रयच्छ मे॥
मूलम्
हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अदश्शान्तिं प्रयच्छ मे॥
हिरण्यगर्भगर्भस्थं
हेमबीजं विभावसोः ।
अनन्तपुण्यफलदम्
अतश्शान्तिं प्रयच्छ मे॥
विश्वास-प्रस्तुतिः
पीतवस्त्रयुगं यस्माद्वासुदेवस्य वल्लभं ।
प्रदानात्तस्य वै विष्णुरतः शान्तिं प्रयच्छ मे ॥०२३॥

विष्णुस्त्वं मत्स्यरूपेण यस्मादमृतसम्भवः ।
चन्द्रार्कवाहनो नित्यमतः शान्तिं प्रयच्छ मे ॥०२४॥

यस्मात्त्वं पृथिवी सर्वा धेनुः केशवसन्निभा ।
सर्वपापहरा नित्यमतः शान्तिं प्रयच्छ मे ॥०२५॥

यस्मादायसकर्माणि तवाधीनानि सर्वदा ।
लाङ्गलाद्यायुधादीनि अतः शान्तिं प्रयच्छ मे ॥०२६॥

यस्मात्त्वं स्सर्वयज्ञानामङ्गत्वेन व्यवस्थितः ।
योनिर्विभावसोर्नित्यमतः शान्तिं प्रयच्छ मे ॥०२७॥

गवामङ्गेषु तिष्ठन्ति भुवनानि चतुर्दश ।
यस्मात्तस्माच्छिवं मे स्यादिह लोके परत्र च ॥०२८॥

:न्
[[१६४]]
विश्वास-प्रस्तुतिः
यस्मादशून्यं शयनं केशवस्य शिवस्य च ।
शय्या ममाप्यशून्यास्तु दत्ता जन्मनि जन्मनि1 ॥०२९॥

यथा रत्नेषु सर्वेषु सर्वे देवाः प्रतिष्ठिताः ।
तथा शान्तिं प्रयच्छन्तु रत्नदानेन मे सुराः ॥०३०॥

यथा भूमिप्रदानस्य कलां नार्हन्ति षोडशीं ।
दानान्यन्यानि मे शान्तिर्भूमिदानाद्भवत्विह ॥०३१॥

ग्रहयज्ञो ऽयुतहोमो दक्षिणाभी रणे जितिः ।
विवाहोत्सवयज्ञेषु प्रतिष्ठादिषु कर्मषु ॥०३२॥

सर्वकामाप्तये लक्षकोटिहोमद्वयं मतं ।
गृहदेशे मण्डपे ऽथ2 अयुते हस्तमात्रकं ॥०३३॥

मेखलायोनिसंयुक्तं कुण्डञ्चत्वार ऋत्विजः ।
स्वयमेको ऽपि वा लक्षे सर्वं दशगुणं हि तत् ॥०३४॥

चतुर्हस्तं द्विहस्तं वा तार्क्षञ्चात्राधिकं यजेत् ।
सामध्वनिशीरस्त्वं वाहनं पमेष्ठिनः ॥०३५॥

विषयापहरो नित्यमतः शान्तिं प्रयच्छ मे ।
पूर्ववत् कुण्डमामन्त्र्य लक्षहोमं समाचरेत् ॥०३६॥

वसोर्धारां ततो दद्याच्छय्याभूषादिकं ददेत् ।
तत्रापि दश चाष्टौ च लक्षहोमे तथर्त्विजः ॥०३७॥

पुत्रान्नराज्यविजयभुक्तिमुक्त्यादि3 चाप्नुयात् ।
दक्षिणाभिः फलेनास्माच्छत्रुघ्नः कोटिहोमकः ॥०३८॥

[[१६५]]
विश्वास-प्रस्तुतिः
चतुर्हस्तं चाष्टहस्तं कुण्डन्द्वादश च द्विजाः ।
पञ्चविंशं षोडशं वा पटे द्वारे चतुष्टयं ॥०३९॥

कोटिहोमी सर्वकामी विष्णुलोकं स गच्छति ।
होमस्तु ग्रहमन्त्रैर् वा गायत्र्या वैष्णवैर् अपि ॥०४०॥

जातवेदोमुखैः शैवैः1 वैदिकैः प्रथितैर् अपि ।
तिलैर् यवैर् घृतैर् अश्वमेधफलादिभाक् ॥०४१॥

विद्वेषणाभिचारेषु त्रिकोणं कुण्डमिष्यते ।
समिधो वामहस्तेन श्येनास्थ्यनलसंयुताः ॥०४२॥

रक्तभूषैर् मुक्तकेशैर् ध्यायद्भिरशिवं रिपोः ।
दुर्मित्रियास्तस्मै सन्तु यो द्वेष्टि हुं फडिति च ॥०४३॥

छिन्द्यात् क्षुरेण प्रतिमां पिष्टरूपं रिपुं हनेत्2 ।
यजेदेकं पीडकं वा यः स कृत्वा दिवं व्रजेत् ॥०४४॥

{इत्य् आग्नेये महपुराणे ऽयुतलक्षकोटिहोमा नाम सप्तषष्ट्यधिकशततमो ऽध्यायः ॥ }