१६६ वर्णधर्माः

{अथ षट्षष्ट्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

वर्णधर्मादिकथनं

पुष्कर उवाच
वेदस्मार्तं प्रवक्ष्यामि धर्मं वै पञ्चधा स्मृतं1
वर्णत्वमेकमाश्रित्य यो ऽधिकारः प्रवर्तते ॥००१॥

मूलम्

:न्

[[१५९]]

विश्वास-प्रस्तुतिः

वर्णधर्ंअः स विज्ञ्येयो यथोपनयनन्त्रिषु ।
यस्त्वाश्रमं समाश्रित्य पदार्थः संविधीयते ॥००२॥

उक्त आश्रमधर्मस्तु भिन्नपिण्डादिको यथा ।
उभयेन निमित्तेन यो विधिः सम्प्रवर्तते ॥००३॥

नैमित्तिकः स विज्ञेयः प्रायश्चित्तविधिर्यथा ।
ब्रह्मचारी गृही चापि वानप्रस्थो यतिर् नृप ॥००४॥

उक्त आश्रमधर्मस्तु धर्मः स्यात् पञ्चधा परः1
षाड्गुण्यस्याभिधाने यो दृष्टार्थः स उदाहृतः ॥००५॥

स त्रेधा मन्त्रयागाद्यदृष्टार्थ इति मानवाः ।
उभयार्थो व्यवहारस्तु दण्डधारणमेव च ॥००६॥

तुल्यार्थानां विकल्पः स्याद् यागमूलः प्रकीर्तितः ।
वेदे तु विहितो धर्मः स्मृतौ तादृश एव च ॥००७॥

अनुवादं स्मृतिः सूते2 कार्यार्थमिति मानवाः ।
गुणार्थः परिसङ्ख्यार्थो वानुवादो विशेषतः3 ॥००८॥

विशेषदृष्ट एवासौ फलार्थ इति मानवाः ।
स्यादष्टचत्वारिंशद्भिः संस्कारैर् ब्रह्मलोकगः ॥००९॥

गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः ।
जातकर्म नामकृतिरन्नप्राशनचूडकं ॥०१०॥

मूलम्

गर्भाधानं पुंसवनं सीमन्तोन्नयनः ततः ।
जातकर्म नामकृतिरन्नप्राशनचूडकं ॥०१०॥

विश्वास-प्रस्तुतिः

संस्कारश्चोपनयनं वेदव्रतचतुष्टयं ।
स्नानं स्वधर्मचारिण्या योगः स्याद्यज्ञपञ्चकं ॥०११॥

[[१६०]]

विश्वास-प्रस्तुतिः

देवयज्ञः पितृयज्ञो मनुष्यभूतयज्ञकौ ।
ब्रह्मयज्ञः सप्तपाकयज्ञसंस्थाः पुरो ऽष्टकाः ॥०१२॥

पार्वणश्राद्धं श्रावण्याग्रहायणी च चैत्र्यपि ।
आश्वयुजी सप्तहविर्यज्ञसंस्थास्ततः स्मृताः ॥०१३॥

अग्न्याधेयमग्निहोत्रं1 दर्शः स्यात् पशुबन्धकः ।
चातुर्मास्याग्रहायेष्टिर्निरूढः पशुबन्धकः ॥०१४॥

सौत्रामणिसप्तसोमसंस्थाग्निष्टोम आदितः ।
अत्यग्निष्टोम उक्थश् च षोडशी वाजपेयकः ॥०१५॥

अतिरात्रास् तथा स्तोम अष्टौ चात्मगुणास्ततः ।
दया क्षमानसूया च अनायासो ऽथ मङ्गलं ॥०१६॥

अकार्पण्यास्पृहाशौचं यस्यैते स परं व्रजेत् ।
प्रचारे मैथुने चैव प्रस्रावे दन्तधावने ॥०१७॥

स्नानभोजनकाले च पट्सु मौनं समाचरेत् ।
पुनर्दानं पृथक्पानमाज्येन यपसा निशि ॥०१८॥

दन्तच्छेदनमुष्णं च सप्त शक्तुषु वर्जयेत् ।
स्नात्वा पुष्पं न गृह्णीयाद् देवायोग्यन्तदीरितं ॥०१९॥

अन्यगोत्रोप्यसम्बद्धः2 प्रेतस्याग्निन्ददाति यः ।
पिण्डञ्चोदकदानञ्च स दशाहं समापयेत् ॥०२०॥

उदकञ्च तृणं भस्म द्वारम्पन्थास्तथैव च ।

:न्

[[१६१]]

विश्वास-प्रस्तुतिः

एभिरन्तरितं कृत्वा पङ्क्तिदोषो न विद्यते ॥०२१॥

पञ्च प्राणाहुतीर्दद्यादनामाङ्गुष्ठयोगतः ॥२२॥

{इत्य् आग्नेये महापुराणे वर्णधर्मादिर्नाम षट्षष्ट्यधिकशततमो ऽध्यायः ॥ }

  1. धर्मं वै परमामृतमिति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. अर्थवादं स्मृतिः सूत इति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. वार्थवादो विशेषत इति ख॥ , छ॥ च ↩︎ ↩︎