{अथ पञ्चषष्त्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
नानाधर्माः
अग्निर् उवाच
ध्येय आत्मा स्थितो यो ऽसौ हृदये दीपवत् प्रभुः ।
अनन्यविषयं कृत्वा मनो बुद्धिस्मृतीन्द्रियं ॥००१॥
मूलम्

श्राद्धन्तु ध्यायिने देयं1 गव्यं दधि घृतं पयः ।
प्रियङ्गवो मसूराश् च वार्ताकुः कोद्रवो न हि ॥००२॥

सैंहिकयो यदा सूर्यं ग्रसते पर्वसन्धिषु ।
हस्तिच्छाया तु सा ज्ञेया श्राद्धदानादिके ऽक्ष्या ॥००३॥

:न्
[[१५६]]
विश्वास-प्रस्तुतिः
पित्रे चैव यदा सोमो हंसे चैव करे स्थिते ।
तिथिर्वैवस्वतो नाम सा छाया कुञ्जरस्य तु ॥००४॥

अग्नौकरणशेषन्तु न दद्याद्वैश्वदेविके ।
अग्न्यभावे तु विप्रस्य हस्ते दद्यात्तु दक्षिणे ॥००५॥

न स्त्री दुष्यति जारेण न विप्रो वेदकर्मणा ।
बलात्कारोपभुक्ता चेद्वैरिहस्तगतापि वा2 ॥००६॥

सन्त्यजेद् दूषितान्नारीमृतुकाले न शुद्ध्यति ।
य आत्मत्र्यतिरेकेण द्वितीयं नात्र पश्यति3 ॥००७॥

ब्रह्मभूतः स एवेह योगी चात्मरतो ऽमलः ।
विषयेन्द्रियसंयोगात् केचिद् योगं वदन्ति वै ॥००८॥

अधर्मो धर्मबुद्ध्या तु गृहीतस्तैर् अपण्डितैः ।
आत्मनो मनसश् चैव संयोगञ्च तथा परे ॥००९॥

वृत्तिहीनं मनः कृत्वा क्षेत्रज्ञं परमात्मनि ।
एकीकृत्य विमुच्येत बन्धाद्योगो ऽयमुत्तमः ॥०१०॥

कुटुम्बैः पञ्चभिर्यामः षष्ठस्तत्र महत्तरः ।
देवासुरमनुष्यैर् वा स जेतुं नैव शक्यते1 ॥०११॥

वहिर्मुखानि सर्वाणि कृत्वा चाभिमुखानि वै ।
मनस्येवेन्द्रियग्रामं मनश्चात्मनि योजयेत् ॥०१२॥

सर्वभावविनिर्मुक्तं क्षेत्रज्ञं ब्रह्मणि न्यसेत् ।
एतज्ज्ञानञ्च ध्यानञ्च शेषो ऽन्यो ग्रन्थविस्तरः4 ॥०१३॥

[[१५७]]
विश्वास-प्रस्तुतिः
यन्नास्ति सर्वलोकस्य तदस्तीति विरुध्यते ।
कथ्यमानं तथान्यस्य हृदये नावतिष्ठते ॥०१४॥

असंवेद्यं हि तद् ब्रह्म2 कुमारी स्त्रीमुखं यथा ।
अयोगी नैव जानाति जात्यन्धो हि घटं यथा ॥०१५॥

सत्र्यसन्तं द्विजं दृष्ट्वा स्थानाच्चलति भास्करः ।
एष मे मण्डलं भित्त्वा परं ब्रह्माधिगच्छति ॥०१६॥

उपवासव्रतञ्चैव स्नानन्तीर्थं फलन्तपः ।
द्विजसम्पादनञ्चैव सम्पन्नन्तस्य तत् फलं ॥०१७॥

एकाक्षरं परं ब्रह्म प्राणायामः परन्तपः ।
सावित्र्यास्तु परं नास्ति पावनं परमं स्मृतः ॥०१८॥

पूर्वं स्त्रियः सुरैर् भुक्ताः सोमगन्धर्ववह्निभिः ।
भुञ्जते मानुषाः पश्चान्नैता दुष्यन्ति केनचित् ॥०१९॥

असवर्णेन यो गर्भः स्त्रीणां योनौ निषिच्यते ।
अशुद्धा तु भवेन्नारी यावत्छल्यं न मुञ्चति ॥०२०॥

निःसृते तु ततः शल्ये रजसा शुद्ध्यते ततः ।
ध्यानेन सदृशन्नास्ति शोधनं पापकर्मणां ॥०२१॥

श्वपाकेष्वपि भुञ्जानो ध्यानेन हि विशुद्ध्यति ।
आत्मा ध्याता मनो ध्यानं ध्येयो विष्णुः फलं हरिः ॥०२२॥

अक्षयाय यतिः श्राद्धे पङ्क्तिपावनपावनः ।
आरूढो नैष्ठिकन्धर्मं यस्तु प्रच्यवते द्विजः ॥०२३॥

[[१५८]]
विश्वास-प्रस्तुतिः
प्रायश्चित्तं न पश्यामि येन शुद्ध्येत्स आत्महा ।
ये च प्रव्रजिताः पत्न्यां या चैषां वीजसन्ततिः ॥०२४॥

विदुरा नाम चण्डाला जायन्ते नात्र संशयः ।
शतिको म्रियते गृध्रः श्वासौ द्वादशिकस् तथा ॥०२५॥

भासो विंशतिवर्षाणि सूकरो दशभिस् तथा ।
अपुष्पो विफलो वृक्षो जायते कण्टकावृतः ॥०२६॥

ततो दावाग्निदग्धस्तु स्थाणुर्भवति सानुगः ।
ततो वर्षशतान्यष्टौ द्वे तिष्ठत्यचेतनः ॥०२७॥

पूर्णे वर्षसहस्रे तु जायते ब्रह्मराक्षसः ।
प्लवेन लभते मोक्षं कुलस्योत्सादनेन वा ॥०२८॥

योगमेव निषेवेतेत नान्यं मन्त्रमघापहं ॥२९॥

{इत्य् आग्नेये महापुराणे नानाधमा नाम पञ्चषष्ट्यधिकशततमो ऽध्यायः ॥ }