१६४ नवग्रहहोमः

{अथ चतुःषष्ट्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नवग्रहहोमः

पुष्कर उवाच
श्रीकामः शान्तिकामो वा ग्रहयज्ञं समारभेत् ।
वृष्ट्यायुःपुष्टिकामो वा तथैवाभिचरन् पुनः ॥००१॥

मूलम्

:न्

[[१५४]]

विश्वास-प्रस्तुतिः

सूर्यः सोमो मङ्गलश् च बुधश्चाथ बृहस्पतिः ।
शुक्रः शनैश् चरो राहुः केतुश्चेति ग्रहाः स्मृताः ॥००२॥

ताम्रकात् स्फटिकाद्रक्तचन्दनात् स्वर्णर्कादुभौ ।
रजतादयसः शीशात् ग्रहाः कार्याः क्रमादिमे ॥००३॥

सुवर्णैर् वायजेल्लिख्य गन्धमण्डलकेषु वा ।
यथावर्णं प्रदेयानि वासांसि कुसुमानि च ॥००४॥

गन्धाश् च वलयश् चैव धूपो देयस्तु गुग्गुलुः ।
कर्तव्या मन्त्रयन्तश् च चरवः प्रतिदैवतं ॥००५॥

आकृष्णेन इमं देवा अग्निर्मूर्धा दिवः ककुत् ।
उद्बुद्ध्यस्वेति च ऋचो यथासङ्ख्यं प्रकीर्तिताः ॥००६॥

वृहस्पते अतियदर्यस्तथैवाल्पात् परिश्रुतः ।
शन्नो देवीस् तथा काण्डात् केतुं कृन्वन्निमास् तथा ॥००७॥

अर्कः पालाशः खदिरो ह्य् अपामार्गोथ1 पिप्पलः ।
उदुम्बरः शमी दुर्वा कुशाश् च समिधः क्रमात् ॥००८॥

एकैकस्यात्राष्टशतमष्टाविंशतिरेव वा ।
होतव्या मधुसर्पिर्भ्यां दध्ना चैव समन्विताः ॥००९॥

गुडौदनं पायसं च हविष्यं क्षीरयष्टिकं ।
दध्योदनं हविः पूपान् मांसं चित्रान्नमेव च ॥०१०॥

दद्याद्ग्रहक्रमदेतद्द्विजेभ्यो भोजनं बुधः ।
शक्तितो वा यथालाभं सत्कृत्य विधिपूर्वकं ॥०११॥

धेनुः शङ्खस् तथानड्वान् हेम वासो हयस् तथा ।

:न्

[[१५५]]

विश्वास-प्रस्तुतिः

कृष्णा गौरायसश्छाग एता वै दक्षिणाः क्रमात् ॥०१२॥

यश् च यस्य यदा दूष्यः1 स तं यत्नेन पूजयेत् ।
ब्रह्मणैषां वरो दत्तः पूजिताः पूजितस्य च ॥०१३॥

ग्रहाधीना नरेन्द्राणा2 मुछ्रयाः पतनानि च ।
भावभावो च जगतस्तस्मात् पूज्यतमा ग्रहाः ॥०१४॥

{इत्य् आग्नेये महापुराणे नवग्रहहोमो नाम चतुःषष्ट्यधिकशततमो ऽध्यायः ॥ }

  1. मनुष्यादीनिति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. आयुः प्रज्ञाधनमिति ज॥ । आयुः प्रजां बलमिति घ॥ ↩︎ ↩︎