{अथ त्रिषष्ठ्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्राद्धकल्पकथनं
पुष्कर उवाच
श्राद्धकल्पं प्रवक्ष्यामि भुक्तिमुक्तिप्रदं शृणु ।
निमन्त्र्य विप्रान् पूर्वेद्युः स्वागतेनापराह्णतः ॥००१॥
मूलम्

प्राच्योपवेशयेत् पीठे युग्मान्दैवे ऽथ पित्रके ।
अयुग्मान् प्राङ्मुखान्दैवे त्रीन् पैत्रे चैकमेव वा ॥००२॥

मातामहानामप्येवन्तन्त्रं वा वैश्यदेविकं ।
प्राणिप्रक्षालनं दत्त्वा विष्टरार्थं कुशानपि ॥००३॥

आवाहयेदनुज्ञातो विश्वे देवास इत्य् ऋचा ।
यवैरन्ववकीर्याथ(?) भाजने सपवित्रके ॥००४॥

शन्नोदेव्या पयः क्षिप्त्वा यवोसीति यवांस् तथा ।
यादिव्या इतिमन्त्रेण हस्ते ह्य् अर्घं विनिक्षिपेत् ॥००५॥

दत्वोदकं गन्धमाल्यं धूपदानं प्रदीपकं ।
अपसव्यं ततः कृत्वा पितॄणामप्रदक्षिणं ॥००६॥

[[१५०]]
विश्वास-प्रस्तुतिः
द्विगुणांस्तु कुशान् कृत्वा ह्य् उशन्तस्त्वेत्यृचा पितॄन् ।
आवाह्य तदनुज्ञातो जपेदायान्तु नस्ततः ॥००७॥

यवार्थास्तु तिलैः कार्याः कुर्यादर्घ्यादि पूर्ववत् ।
दत्त्वार्घ्यं संश्रवान् शेषान् पात्रे कृत्वा विधानतः ॥००८॥

पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ।
अग्नौ करिष्य आदाय पृच्छत्यन्नं घृतप्लुतं ॥००९॥

कुरुष्वेति ह्य् अनुज्ञातो हुत्वाग्नौ पितृयज्ञवत् ।
हुतशेषं प्रदद्यात्तु भाजनेषु समाहितः ॥०१०॥

यथालाभोपपन्नेषु रौप्येषु तु विशेषतः ।
दत्वान्नं पृथिवीपात्रमिति पात्राभिमन्त्रणं ॥०११॥

कृत्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठं निवेशयेत् ।
सव्याहृतिकां गायत्रीं मधुवाता इति त्यचं ॥०१२॥

जप्त्वा यथासुखं वाच्यं भुञ्जीरंस्ते ऽपि वाग्यताः ।
अन्नमिष्टं हविष्यञ्च दद्याज्जप्त्वा पवित्रकं ॥०१३॥

अन्नमादाय तृप्ताः स्थ शेषं चैवान्नमस्य च ।
तदन्नं विकिरेद् भूमौ दद्याच्चापः सकृत् सकृत् ॥०१४॥

सर्वमन्नमुपादाय सतिलं दक्षिणामुखः ।
उच्छिष्टसन्निधौ पिण्डान् प्रदद्यात् पितृयज्ञवत् ॥०१५॥

मातामहानामप्येवं दद्यादाचमनं ततः ।
स्वस्ति वाच्यं ततः कुर्यादक्षय्योदकमेव च ॥०१६॥

दत्वा तु दक्षिणां शक्त्या स्वधाकारमुदाहरेत् ।
वाच्यतामित्यनुज्ञातः स्वपितृभ्यः स्वधोच्यतां1 ॥०१७॥

:न्
[[१५१]]
विश्वास-प्रस्तुतिः
कुर्युरस्तु स्वधेत्युक्ते भूमौ सिञ्चेत्ततो जलं ।
प्रीयन्तामिति वा दैवं विश्वे देवा जलं ददेत् ॥०१८॥

दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च ।
श्रद्धा च नो माव्यगमद्बहुदेयं च नो ।स्त्विति ॥०१९॥

इत्युक्त्वा तु प्रिया वाचः प्रणिपत्य विसर्जयेत् ।
वाजे वाज इति प्रीतपितृपूर्वं विसर्जनं1 ॥०२०॥

यस्मिंस्तु संश्रवाः पूर्वमर्घपात्रे निपातिताः ।
पितृपात्रं तदुत्तानं कृत्वा विप्रान् विसर्जयेत् ॥०२१॥

प्रदक्षिणमनुब्रज्य भक्त्वा तु पितृसेवितं ।
ब्रह्मचारी भवेत्तान्तु रजनीं ब्राह्मणैः सह ॥०२२॥

एवं प्रदक्षिणं कृत्वा वृद्धौ नान्दीमुखान् पितॄन् ।
यजेत दधिकर्कन्धुमिश्रान् पिण्डान् यवैः क्रिया ॥०२३॥

एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं ।
आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥०२४॥
मूलम्
एकोद्दिष्टं दैवहीनमेकार्घैकपवित्रकं ।
आवाहनाग्नौकरणरहितं ह्य् अपसव्यवत् ॥०२४॥
विश्वास-प्रस्तुतिः
उपतिष्ठतामित्यक्षय्यस्थाने पितृविसर्जने ।
अभिरम्यतामिति वदेद् ब्रूयुस्ते ऽभिरताः स्म ह ॥०२५॥

गन्धोदकतिलैर् युक्तं कुर्यात् पात्रचतुष्टयं ।
अर्घार्थपितृपात्रेषु प्रेतपात्रं प्रसेचयेत् ॥०२६॥

ये समाना इति द्वाभ्यां शेषं पूर्ववदाचरेत् ।
एतत् सपिण्डीकरणमेकोद्दिष्टं स्तिया सह2 ॥०२७॥

[[१५२]]
विश्वास-प्रस्तुतिः
तस्याप्यन्नं सोदकुम्भं दद्यात् संवत्सरं द्विजे ॥०२८॥

मृताहनि च कर्तव्यं प्रतिमासन्तु वत्सरं ।
प्रतिसंवत्सरं कार्यं श्राद्धं वै मासिकान्नवत् ॥०२९॥

हविष्यान्नेन वै मासं पायसेन तु वत्सरं ।
मात्स्यहारिणकौरभ्रशाकुनच्छागपार्षतैः1 ॥०३०॥

ऐणरौरववाराहशाशैर् मांसैर् यथाक्रमं ।
मासवृद्ध्याभितृप्यन्ति दत्तैर् एव2 पितामहाः ॥०३१॥

खड्गामिषं महाशल्कं मधुयुक्तान्नमेव च3 ।
लोहामिषं कालशाकं मांसं वार्धीनसस्य च ॥०३२॥

यद्ददाति गयास्थञ्च सर्वमानन्त्यमुच्यते4 ।
तथा वर्षात्रयोदश्यां मघासु च न संशयः ॥०३३॥

कन्यां प्रजां वन्दिनश् च पशून् मुख्यान् सुतानपि ।
घृतं कृषिं च वाणिज्यं द्विशफैकशफं तथा ॥०३४॥

ब्रह्मवर्चस्विनः पुत्रान् स्वर्णरूप्ये सकुप्यके ।
ज्ञातिश्रैष्ठ्यं सर्वकामानाप्नोति श्राद्धदः सदा ॥०३५॥

प्रतिपत्प्रभृतिष्वेतान्वर्जयित्वा चतुर्दशीं ।
शस्त्रेण तु हता ये वै तेषां तत्र प्रदीयते ॥०३६॥

स्वर्गं5 ह्य् अपत्यमोजश् च शौर्यं क्षेत्रं बलं तथा ।
पुत्रश्रैष्ठ्यं ससौभाग्यमपत्यं मुख्यतां सुतान् ॥०३७॥

[[१५३]]
विश्वास-प्रस्तुतिः
प्रवृत्तचक्रतां पुत्रान् वाणिज्यं प्रसुतां तथा ।
अरोगित्वं यशो वीतशोकतां परमाङ्गतिं ॥०३८॥

घनं विद्यां भिषकसिद्धिं रूप्यं गाश्चाप्यजाविकं ।
अश्वानायुश् च विधिवत् यः श्राद्धं सम्प्रयच्छति ॥०३९॥

कृत्तिकादिभरण्यन्ते स कामानाप्नुयादिमान् ।
वसुरुद्रादितिसुताः पितरः श्राद्धदेवताः ॥०४०॥

प्रीणयन्ति मनुष्याणां1 पितॄन् श्राद्धेन तर्पिताः ।
आयुः प्रजां धनं2 विद्यां स्वर्गं मोक्षं सुखानि च ॥०४१॥

प्रयच्छन्ति तथा राज्यं प्रीता नॄणां पितामहाः3 ॥४२॥

{इत्य् आग्नेये महापुराणे श्राद्धकल्पो नाम त्रिषष्ट्यधिकशततमो ऽध्यायः ॥ }