१६२ धर्मशास्त्रं

{अथ द्विषष्ट्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

धर्मशास्त्रकथनं

पुष्कर उवाच
मनुर्विष्णुर्याज्ञवल्को हारीतो ऽत्रिर्यमो ऽङिगिराः ।
वसिष्ठदक्षसंवर्तशातातपपराशराः ॥००१॥

मूलम्

आपस्तम्बोशनोव्यासाः कात्ययनबृहस्पती ।
गोतमः शङ्खलिखितौ धर्ममेते यथाब्रुवन् ॥००२॥

तथा वक्ष्ये समासेन भुक्तिमुक्तिप्रदं शृणु ।
प्रवृत्तञ्च निवृत्तञ्च द्विविधङ्कर्म वैदिकं ॥००३॥

काम्यं कर्म प्रवृत्तं स्यान्निवृत्तं ज्ञानपूर्वकं ।
वेदाभ्यासस्तपो ज्ञानमिन्दियाणाञ्च संयमः ॥००४॥

अहिंसा गुरुसेवा च निःश्रेयसकरं परं ।
सर्वेषामपि चैतेषामत्मज्ञानं परं स्मृतं ॥००५॥

तच्चग्र्यं सर्वविद्यानां प्राप्यते ह्य् अमृतं ततः ।
सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि ॥००६॥

समम्पश्यन्नात्मयाजी स्वाराज्यमधिगच्छति ।
आत्मज्ञाने समे च स्याद्वेदाभ्यासे च यत्नवान् ॥००७॥

एतद्द्विजन्मसामर्थ्यं[^१] ब्राह्मणस्य विशेषतः ।

:न्

[[१४८]]

विश्वास-प्रस्तुतिः

वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन् ॥००८॥

इहैव लोके तिष्ठन् हि ब्रह्मभूयाय कल्प्यते1
स्वाध्यायानामुपाकर्म श्रावण्यां श्रावणेन तु ॥००९॥

हस्ते चौषधिवारे च पञ्चम्यां श्रावणस्य वा ।
पौषमासस्य रोहिण्यामष्टकायामथापि वा ॥०१०॥

जलान्ते छन्दसाङ्कुर्यादुत्सर्गं विधिवद्वहिः ।
त्र्यहं प्रेतेष्वनध्यायः शिष्यर्त्विग्गुरुबन्धुषु ॥०११॥

उपाकर्मणि चोत्सर्गं स्वशाखाश्रोत्रिये तथा2
सन्ध्यागर्जितनिर्घाते भूकम्पोल्कानिपातने ॥०१२॥

समाप्य वेदं ह्य् अनिशमारण्यकमधीत्य च ।
पञ्चदश्यां चतुर्दश्यामष्टम्यां राहुसूतके ॥०१३॥

ऋतुसन्धिषु भुक्त्वा वा श्राद्विकं प्रतिगृह्य च ।
पशुमण्डूकनकुलश्वाहिमार्जारशूकरैः3 ॥०१४॥

कृतेन्तरे त्वहोरात्रं शक्रपाते तथोच्छ्रिये ।
श्वक्रोष्टुगर्धभोलूकमासवाणर्तुनिस्वने ॥०१५॥

अमेध्यशवशूद्रान्त्यश्मशानपतितान्तिके ।
अशुभासु च तारासु विद्युत्स्तनितसम्प्लवे ॥०१६॥

भुत्क्वार्द्रपाणिरम्भोन्तरर्धरात्रे ऽतिमारुते ।
पांशुवर्षे दिशान्दाहे सन्ध्यानीहारभीतिषु ॥०१७॥

धावतः प्राणिबाधे च विशिष्टे गृहमागते ।

:न्

[[१४९]]

विश्वास-प्रस्तुतिः

खरोष्ट्रयानहस्त्यश्वनौकावृक्षादिरोहणे ॥०१८॥

सप्तत्रिंशदनध्यायानेतांस्तात्कालिकान्विदुः ॥१९॥

{इत्य् आग्नेये महापुराणे धर्मशास्त्रं नाम द्विषष्ट्यधिकशततमो ऽध्यायः ॥ }

  1. एतद्द्विजन्मसाग्र्यमिति ख॥ , ङ॥ , झ॥ , ञ॥ , ट॥ च ।
    एतद्द्विजन्मसामग्रीति घ। ↩︎ ↩︎

  2. स्वशाखाश्रोत्रिये मृते इति घ॥ , झ॥ , ञ॥ , ट च ↩︎ ↩︎

  3. शशमार्जारशूकरैर् इति ङ॥ ↩︎ ↩︎