{अथैकषष्ट्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
यतिधर्मः
पुष्कर उवाच
यतिर्धर्मं प्रवक्ष्यामि ज्ञानमोक्षादिदर्शकं ।
चतुर्धमायुषो भागं प्राप्य सङ्गात् परिवर्जयेत्1 ॥००१॥
मूलम्

यदह्नि विरजेद्धीरस्तदह्नि2 च परिव्रजेत् ।
प्रजापत्यां निरूप्येष्टिं सर्वदेवसदक्षिणां ॥००२॥

:न्
[[१४४]]
विश्वास-प्रस्तुतिः
एक एव चरेन्नित्यं ग्रासमन्नाथमाश्रयेत् ॥००३॥

उपेक्षको ऽसिञ्चयिको मुनिर्ज्ञानसमन्वितः ।
कपालं वृक्षमूलञ्च3 कुचेलमसहायाता ॥००४॥

समता चैव सर्वस्मिन्नेतन्मुक्तस्य4 लक्षणं ।
नाभिनन्देन मरणं नाभिनन्देत जीवनं5 ॥००५॥
विश्वास-प्रस्तुतिः
कालमेव प्रतीक्षेत निदेशं भृतको यथा ।
दृष्टिपूतं न्यसेत्पादं वस्त्रपूतं जलं पिवेत् ॥००६॥

सत्यपूतां वदेद्वाचं मनःपूतं समाचरेत् ।
अलावुदारुपत्राणि मृण्मयं वैष्णवं यतेः ॥००७॥

विधूमे न्यस्तमुषले व्यङ्गारे भुक्तवज्जने ।
वृत्ते शरावसम्पाते भिक्षां नित्यं यतिश् चरेत् ॥००८॥

मधूकरमसङ्क्लिप्तं प्राक्प्रणीतमयाचितं ।
तात्कालिकञ्चोपपन्नं भैक्षं पञ्चविधं स्मृतं ॥००९॥

पाणिपात्री भवेद्वापि पात्रे पात्रात् समाचरेत् ।
अवेक्षेत गतिं नॄणां कर्मदोषसमुद्भवां ॥०१०॥

शुद्धभावश् चरेद्भर्मं यत्र तत्राश्रमे रतः ।
समः सर्वेषु भूतेषु न लिङ्गं धर्मकारणं ॥०११॥

फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ।
न नामग्रहणादेव तस्य वारि प्रसीदति ॥०१२॥
मूलम्
फलं कतकवृक्षस्य यद्यप्यम्बुप्रसादकं ।
न नामग्रहणादेव तस्य वारि प्रसीदति ॥०१२॥
:न्
[[१४५]]
विश्वास-प्रस्तुतिः
अजिह्मः पण्डकः पङ्गुरन्धो बधिर एव च ।
सद्भिश् च मुच्यते मद्भिरज्ञानात् संसृतो द्विजः ॥०१३॥

अह्नि रात्र्याञ्च यान् जन्तून् हिनस्त्यज्ञानतो यतिः ।
तेषां स्नात्वा विशुद्ध्यर्थं प्राणायामान् षडाचरेत्3 ॥०१४॥

अस्थिस्थूणं स्नायुयुतं मांसशोणितलेपनं ।
चर्मावनद्धं दुर्गन्धं पूर्णं मूत्रपुरीषयोः ॥०१५॥

जराशोकसमाविष्टं रोगायतनमातुरं ।
रजस्वलमनित्यञ्च भूतावासमिमन्त्यजेत् ॥०१६॥

धृतिः क्षमा दमो ऽस्तेयं4 शौचमिन्द्रियनिग्रहः ।
ह्रीर्विद्या सत्यमक्रोधो दशकं धर्मलक्षणं ॥०१७॥

चतुर्विधं भैक्षवस्तु कुटीरकवहूदके ।
हंसः परमहंसश् च यो यः पश्चात् स उत्तमः ॥०१८॥

एकदण्डी त्रिदण्डी वा5 योगी मुच्यते बन्धनात् ।
अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ ॥०१९॥

यमाः पञ्चाथ नियमाः शौचं सन्तोषणन्तपः ।
स्वाध्यायेश्वरपूजा च पद्मकाद्यासनं यतेः1 ॥०२०॥

प्राणायामस्तु द्विविधः स गर्भो ऽगर्भ एव च ।
जपध्यानयुतो गर्भो विपरीतस्त्वगर्भकः ॥०२१॥

प्रत्येकं त्रिविधं सोपि पूरकुम्भकरेचकैः ।
पूरणात् पूरको वायोर् निश् चलत्वाच्च कुम्भकः ॥०२२॥

[[१४६]]
विश्वास-प्रस्तुतिः
रेचनाद्रेचकः प्रोक्तो मात्राभेदेन च त्रिधा ।
द्वादशात्तु चतुर्विंशः षट्त्रिंशन्मात्रिको ऽपरः ॥०२३॥

तालो लघ्वक्षरो मात्रा प्रणवादि चरेच्छनैः ।
प्रत्याहारो जापकानां ध्यानमीश्वरचिन्तनं ॥०२४॥

मनोधृतिर्धारणा स्यात् समाधिर्ब्रह्मणि स्थितिः ।
अयमात्मा परं ब्रह्म सत्यं ज्ञानमनन्तकं ॥०२५॥

विज्ञानमानन्दं ब्रह्म तत्त्वमस्य।अहमस्मि तत् ।
परम् ब्रह्म ज्योतिरात्मा वासुदेवो विमुक्त ॐ ॥०२६॥

देहेन्द्रियमनोबुद्धिप्राणाहङ्कारवर्जितं ।
जाग्रत्स्वप्नसुसुप्त्यादिमुक्तं3 ब्रह्म तुरोयकं ॥०२७॥

नित्यशुद्धबुद्धयुक्तसत्यमानन्दमद्वयं4 ।
अहं ब्रह्म परं ज्योतिरक्षरं सर्वगं हरिः ॥०२८॥

सो ऽसावादित्यपुरुषः सो ऽसावहमखण्ड ॐ ।
सर्वारम्भपरित्यागी समदुःखसुखं क्षमी ॥०२९॥

भावशुद्धश् च ब्रह्माण्डं भित्त्वा ब्रह्म भवेन्नरः ।
आषढ्यां पौर्णमास्याञ्च चातुर्मास्यं व्रतञ्चरेत् ॥०३०॥

ततो ज्रजेत् नवम्यादौ ह्य् ऋतुसन्धिषु वापयेत् ।
प्रायश्चित्तं यतीनाञ्च ध्यानं वायुयमस् तथा ॥०३१॥

{इत्य् आग्नेये महापुराणे यतिर्धर्मा नामैकषष्ट्यधिकशततमो ऽध्यायः ॥ }
:न्
[[१४७]]