१६० वानप्रस्थाश्रमः

{अथ षष्ट्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

वानप्रस्थाश्रमः

पुष्कर उवाच
वानप्रस्थयतीनाञ्च1 धर्मं वक्ष्ये ऽधुना शृणु ।
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥००१॥

मूलम्

वानप्रस्थाश्रमः

पुष्कर उवाच
वानप्रस्थयतीनाञ्च1 धर्मं वक्ष्ये ऽधुना शृणु ।
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥००१॥

विश्वास-प्रस्तुतिः

वने वासः पयोमूलनीवारफलवृत्तिता ।
प्रतिग्रहनिवृत्तिश् च त्रिःस्नानं ब्रह्मचारिता ॥००२॥

मूलम्

वने वासः पयोमूलनीवारफलवृत्तिता ।
प्रतिग्रहनिवृत्तिश् च त्रिःस्नानं ब्रह्मचारिता ॥००२॥

देवातिथीनां पूजा च धर्मो ऽयं वनवासिनः ।

:न्

[[१४३]]

विश्वास-प्रस्तुतिः

गृही ह्य् अपत्यापत्यञ्च दृष्ट्वारण्यं2 समाश्रयेत् ॥००३॥

मूलम्

गृही ह्य् अपत्यापत्यञ्च दृष्ट्वारण्यं2 समाश्रयेत् ॥००३॥

विश्वास-प्रस्तुतिः

तृतीयमायुषो भागमेकाकी वा सभार्यकः ।
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः ॥००४॥

मूलम्

तृतीयमायुषो भागमेकाकी वा सभार्यकः ।
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः ॥००४॥

विश्वास-प्रस्तुतिः

आर्द्रवासाश् च हेमन्ते तपश्चोग्रञ्चरेद्बली1
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः[^३] ॥००५॥

मूलम्

आर्द्रवासाश् च हेमन्ते तपश्चोग्रञ्चरेद्बली1
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः[^३] ॥००५॥

{इत्य् आग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमो ऽध्यायः ॥ }


  1. यतीनान्तु इति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. औषधादीति क॥ ↩︎ ↩︎