{अथ षष्ट्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वानप्रस्थाश्रमः
पुष्कर उवाच
वानप्रस्थयतीनाञ्च1 धर्मं वक्ष्ये ऽधुना शृणु ।
जटित्वमग्निहोत्रित्वं भूशय्याजिनधारणं ॥००१॥
मूलम्

वने वासः पयोमूलनीवारफलवृत्तिता ।
प्रतिग्रहनिवृत्तिश् च त्रिःस्नानं ब्रह्मचारिता ॥००२॥

:न्
[[१४३]]
विश्वास-प्रस्तुतिः
गृही ह्य् अपत्यापत्यञ्च दृष्ट्वारण्यं2 समाश्रयेत् ॥००३॥

तृतीयमायुषो भागमेकाकी वा सभार्यकः ।
ग्रीष्मे पञ्चतपा नित्यं वर्षास्वभ्राविकाशिकः ॥००४॥

आर्द्रवासाश् च हेमन्ते तपश्चोग्रञ्चरेद्बली1 ।
अपरावृत्तिमास्थाय व्रजेद्दिशमजिह्मगः[^३] ॥००५॥

{इत्य् आग्नेये महापुराणे वानप्रस्थाश्रमो नाम षष्ट्यधिकशततमो ऽध्यायः ॥ }