१५९ असंस्कृतादिशौचं

{अथैकोनषष्ट्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

असंस्कृतादिशौचं

पुष्कर उवाच
संस्कृतस्यासंस्कृतस्य स्वर्गो मोक्षो हरिम्मृतेः ।
अस्थ्नाङ्गङ्गाम्भसि क्षेपात् प्रेतस्याभ्युदयो भवेत् ॥००१॥

मूलम्

:न्

[[१४१]]

विश्वास-प्रस्तुतिः

गङ्गातोये नरस्यास्थि यावत्तावद्दिवि स्थतिः ।
आत्मनस्त्यागिनां नास्ति पतितानां तथा क्रिया ॥००२॥

तेषामपि तथा गाङ्गे तोये ऽस्थ्नां पतनं हितं ।
तेषां दत्तं जलं चान्नं गगने तत् प्रलीयते ॥००३॥

अनुग्रहेण महता प्रेतस्य पतितस्य च ।
नारायणबलिः कार्यस्तेनानुग्रहमश्नुते ॥००४॥

अक्षयः पुण्डरीकाक्षस्तत्र दत्तं न नश्यति ।
पतनात्रायते यस्मात् तस्मात् पात्रं जनार्दनः ॥००५॥

पततां भुक्तिमुक्त्यादिप्रद एको हरिर्ध्रुवं ।
दृष्ट्वा लोकान् म्रियमाणान् सहायं धर्ममाचरेत् ॥००६॥

मृतो ऽपि बान्धवः शक्तो नानुगन्तुं नरं मृतं ।
जायावर्जं हि सर्वस्य याम्यः पन्था विभिद्यते1 ॥००७॥

धर्म एको2 व्रजत्येनं यत्र क्वचन गामिनं ।
श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकं ॥००८॥

न हि प्रतीक्षते मृत्युः कृतः वास्य न वा कृतं ।
क्षेत्रापणगृहासक्तमन्यत्रगतमानसं ॥००९॥

वृकीवीरणमासाद्य मृत्युरादाय गच्छति ।
न कालस्य प्रियः कश्चिद् द्वेष्यश्चास्य न विद्यते ॥०१०॥

आयुष्ये कर्मणि क्षीणे प्रसह्य हरिते जनं ।
नाप्राप्तकालो म्रियते बिद्धः शरशतैर् अपि ॥०११॥

कुशाग्रेणापि संस्पृष्टः प्राप्तकालो न जीवति ।

:न्

[[१४२]]

विश्वास-प्रस्तुतिः

औषधानि1 न मन्त्राद्यास्त्रायन्ते मृत्युनान्वितं ॥०१२॥

वत्सवत् प्राकृतं कर्म कर्तारं विन्दति ध्रुवं ।
अव्यक्तादि व्यक्तमध्यमव्यक्तनिधनं जगत् ॥०१३॥

कौमारादि यथा देहे तथा देहान्तरागमः ।
नवमन्यद्यथा वस्त्रं गृह्णात्येवं शरीरिकं ॥०१४॥

देही नित्यमबध्यो ऽयं यतः शोकं ततस्त्यजेत् ॥१५॥

{इत्य् आद्याग्नेये महापुराणे शौचं नामैकोनष्ट्यधिकतशततमो ऽध्यायः ॥ }

  1. आपात इति ख॥ , छ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  2. अननेप्येवमेवं स्यादित्यादिः, भोक्तुरेकमहोन्यथेत्यन्तः
    पाठः घ॥ , झ॥ , ञ॥ पुस्तकत्रयेषु नास्ति ↩︎ ↩︎