{अथाष्टपञ्चाशदधिकशततमो ऽध्यायः}
स्रावाद्यशौचं
पुष्कर उवाच
स्रावाशौचं प्रवक्ष्यामि मन्वादिमुनिसम्मतं ।
:न्
[[१३४]]
विश्वास-प्रस्तुतिः
रात्रिभिर्मासतुल्याभिर्गर्भस्रावे त्र्यहेण या ॥००१॥
मूलम्

चातुर्मासिकपातान्ते दशाहं पञ्चमासतः ।
राजन्ये च चतूरात्रं वैश्ये पञ्चाहमेव च ॥००२॥

अष्टाहेन तु शूद्रस्य द्वादशाहादतः परं ।
स्त्रीणां विशुद्धिरुदिता1 स्नानमात्रेण वै पितुः ॥००३॥

न स्नानं हि सपिण्डे स्यात्त्रिरात्रं सप्तमाष्टयोः ।
सद्यः शौचं सपिण्डानामादन्तजननात्तथा ॥००४॥

आचूडादेकरात्रं स्यादाव्रताच्च त्रिरात्रकं ।
दशरात्रं भवेदस्मान्मातापित्रोस्त्रिरात्रकं ॥००५॥

अजातदन्ते तु मृते कृतचूडे ऽर्भके तथा ।
प्रेते न्यूने त्रिभिर्वर्षैर् मृते शुद्धिस्तु नैशिल्की ॥००६॥

द्व्यहेण क्षत्रिये शुद्धिस्त्रिभिर्वैश्ये मृते तथा ।
शुद्धिः शूद्रे पञ्चभिः स्यात् प्राग्विवाहद् द्विषट्त्वहः2 ॥००७॥

यत्र त्रिरात्रं विप्राणामशौचं सम्प्रदृश्यते ।
तत्र शूद्रे द्वादशाहः षण्णव क्षत्रवैशय्योः ॥००८॥

द्व्यब्दे नैवाग्निसंस्कारो मृते तन्निखनेद् भुवि ।
न चोदकक्रिया तस्य नाम्नि चापि कृते सति ॥००९॥

जातदन्तस्य वा कार्या स्यादुपनयनाद्दश ।
एकाहाच्छुद्ध्यते विप्रो यो ऽग्निवेदसमन्वितः ॥०१०॥

हीने हीनतरे चैव त्र्यहश् चतुरहस् तथा ।
पञ्चाहेनाग्निहीनस्तु दशाहाद्ब्राह्मणव्रुवः ॥०११॥

[[१३५]]
विश्वास-प्रस्तुतिः
क्षत्रियो नवसप्ताहच्छुद्ध्येद्विप्रो गुणैर् युतः ।
दशाहात् सगुणो वैश्यो विंशाहाच्छूद्र एव च ॥०१२॥

दशाहाच्छुद्ध्यते विप्रो द्वादशाहेन भूमिपः ।
वैश्यः पञ्चदशाहेन शूद्रो मासेन शुद्ध्यति ॥०१३॥

गुणोत्कर्षे दशाहाप्तौ त्र्यहमेकाहकं त्र्यहे ।
एकाहाप्तौ सद्यः शौचं सर्वत्रैवं समूहयेत् ॥०१४॥

दासान्तेवासिभृतकाः शिष्याश् चैवात्र वासिनः ।
स्वामितुल्यमशौचं स्यान्मृते पृथक् पृथग्भवेत् ॥०१५॥

मरणादेव कर्तव्यं संयोगो यस्य नाग्निभिः ।
दाहादूर्ध्वमशौचं स्याद्यस्य वैतानिको विधिः ॥०१६॥

सर्वेषामेव वर्णानान्त्रिभागात् स्पर्शनम्भवेत् ।
त्रिचतुःपञ्चदशभिः स्पृश्यवर्णाः क्रमेण तु ॥०१७॥

चतुर्थे पञ्चमे चैव सप्तमे नवमे तथा ।
अस्थिसञ्चयनं कार्यं वर्णानामनुपूर्वशः ॥०१८॥

अहस्त्वदत्तकन्यासु प्रदत्तासु त्र्यहं भवेत् ।
पक्षिणी संस्कृतास्वेव स्वस्रादिषु विधीयते ॥०१९॥

पितृगोत्रं कुमारीणां व्यूढानां भर्तृगोत्रता ।
जलप्रदानं पित्रे च उद्वाहे चोभयत्र तु ॥०२०॥

दशाहोपरि पित्रोश् च दुहितुर्मरणे त्र्यहं ।
सद्यः शौचं सपिण्डानां पूर्वं चूडाकृतेर्द्विज ॥०२१॥

एकाहतो ह्य् आविविहादूर्ध्वं हस्तोदकात् त्र्यहं ।
पक्षिणी भ्रातृपुत्रस्य सपिण्डानां च सद्यतः ॥०२२॥

[[१३६]]
विश्वास-प्रस्तुतिः
षद्भिस्त्रिभिरहैकेन क्षत्रविट्शूद्रयोनिषु ॥०२३॥

एतज्ज्ञेयं सपिण्डानां वक्ष्ये चानौरसादिषु ।
अनौरसेषु पुत्रेषु भार्यास्वन्यगतासु च ॥०२४॥

परपूर्वासु च स्त्रीषु त्रिरात्राच्छुद्धिरिष्यते ।
वृथासङ्करजातानां प्रव्रज्यासु च तिष्ठतां ॥०२५॥

आत्मनस्त्यागिनाञ्चैव निवर्तेतोदकक्रिया ।
मात्रैकया द्विपितरौ भ्रतरावन्यगामिनौ ॥०२६॥

एकाहः सूतके तत्र मृतके तु द्व्यहो भवेत्1 ।
सपिण्डानामशौचं हि समानोदकतां वदे ॥०२७॥

बाले देशान्तरस्थे च पृथक्पिण्डे च संस्थिते ।
सवासा जलमाप्लुत्य सद्य एव विशुद्ध्यति ॥०२८॥

दशाहेन सपिण्डास्तु शुद्ध्यन्ति प्रेतसूतके ।
त्रिरात्रेण सुकुल्यास्तु स्नानात्2 शुद्ध्यन्ति गोत्रिणः ॥०२९॥

सपिण्डता तु पुरुषे सप्तमे विनिवर्तते ।
समानोदकभावस्तु निवर्तेताचतुर्दशात् ॥०३०॥

जन्मनामस्मृते वैतत् तत्परं गोत्रमुच्यते ।
विगतन्तु विदेशस्थं शृणुयाद्यो ह्य् अनिर्दशं ॥०३१॥

यच्छेषं दशरात्रस्य तावदेवाशुचिर्भवेत् ।
अतिक्रान्ते दशाहे तु त्रिरात्रमशुचिर्भवेत् ॥०३२॥

[[१३७]]
विश्वास-प्रस्तुतिः
मातुले पक्षिणो रात्रिः शिष्यत्विग्बान्धवेषु च ॥०३३॥

मृटे जामातरि प्रेते दैहित्रे भगिनीसुते1 ।
श्यालके तत्सुते चैव स्नानमात्रं विधीयते ॥०३४॥

मातामह्यां तथाचार्ये मृते मातामहे त्र्यहं ।
दुर्भिक्षे राष्ट्रसम्पाते आगतायां तथापदि ॥०३५॥

उपसर्गमृतानाञ्च दाहे ब्रह्मविदान्तथा ।
सत्रिव्रति2 ब्रह्मत्तारिसङ्ग्रामे देशविप्लवे ॥०३६॥

दाने यज्ञे विवाहे च सद्यः शौचं विधीयते ।
विप्रगोनृपहन्तॄणामनुक्तं चात्मघातिनां ॥०३७॥

असाध्यव्याधियुक्तस्य स्वाध्याये चाक्षमस्य च ।
प्रायश्चित्तमनुज्ञातमग्नितोयप्रवेशनं ॥०३८॥

अपमानात्तथा3 क्रोधात् स्नेहात्परिभवाद्भयात् ।
उद्बध्य म्रियते नारी पुरुषो वा कथञ्चन ॥०३९॥

आत्मघाती चैकलक्षं वसेत्स नरके शुचौ ।
वृद्धः श्रौतस्मृतेर्लुप्तः परित्यजति यस्त्वसून् ॥०४०॥

त्रिरात्रं तत्र शाशौचं द्वितीये चास्थिसञ्चयं ।
तृतीये तूदकं कार्यं चतुर्थे श्राद्धमाचरेत् ॥०४१॥

विद्युदग्निहतानाञ्च त्र्यहं शुद्धिः सपिण्डिके4 ।
पाषण्डाश्रिता भर्तृघ्न्यो नाशौचोदकगाः स्त्रियः ॥०४२॥

[[१३८]]
विश्वास-प्रस्तुतिः
अतीतेब्दे प्रकुर्वीत प्रेतकार्यं यथाविधि ॥०४३॥

यः कश्चित्तु हरेत् प्रेतमसपिण्डं कथञ्चन ।
स्नात्वा स्चेलः स्पृष्ट्वाग्निं घृतं प्राश्य विशुद्ध्यति ॥०४४॥

यद्यन्नमत्ति तेषान्तु दशाहेनैव शुद्ध्यति ।
अनदन्नन्नमह्न्येव न वै तस्मिन् गृहे वसेत् ॥०४५॥

अनाथं व्राह्मणं प्रेतं ये वहन्ति द्विजातयः ।
पदे पदे यज्ञफलं शुद्धिः स्यात् स्नानमात्रतः ॥०४६॥

प्रेतीभूतं द्विजः शूद्रमनुगच्छंस्त्र्यहाच्छुचिः ।
मृतस्य बान्धवैः सार्धं कृत्वा च परिदेवनं ॥०४७॥

वर्जयेत्तदहोरात्रं दानश्राद्धादि कामतः1 ।
शूद्रायाः प्रसवो गेहे शूद्रस्य मरणं तथा ॥०४८॥

भाण्डानि तु परित्यज्य त्र्यहाद्भूलेपतः शुचिः ।
न विप्रं स्वेषु तिष्ठत्सु मृतं शूद्रेण नाययेत् ॥०४९॥

नयेत् प्रेतं स्नापितञ्च पूजितं कुसुमैर् दहेत् ।
नग्नदेहं दहेन् नैव किञ्चिद्देहं परित्यजेत् ॥०५०॥

गोत्रजस्तु गृहीत्वा तु चितां चारोपयेत्तदा ।
आहिताग्निर्यथान्यायं दग्धव्यस्तिभिरग्निभिः ॥०५१॥

अनाहिताग्निरेकेन लौकिकेनापरस् तथा ।
अस्मात् त्वमभिजातो ऽसि त्वदयं जायतां पुनः ॥०५२॥

असौ स्वर्गाय लोकाय सुखाग्निं प्रददेत्सुतः ।
सकृत्प्रसिञ्चन्त्युदकं नामगोत्रेण बान्धवाः ॥०५३॥

[[१३९]]
विश्वास-प्रस्तुतिः
एवं मातामहाचार्यप्रेतानाञ्चोदकक्रिया ।
काम्योदकं सखिप्रेतस्वस्रीयश्वश्रुरर्त्विजां ॥०५४॥

अपो नः शोशुचिदयं दशाहञ्च सुतो ऽर्पयेत् ।
ब्राह्मणे दशपिण्डाः स्युः क्षत्रिये द्वादश स्मृताः ॥०५५॥

वैश्ये पञ्चदश प्रोक्ताः शूद्रे त्रिंशत् प्रकीर्तिता ।
पुत्रो वा पुत्रिकान्यो वा पिण्डं दद्याच्च पुत्रवत् ॥०५६॥

विदिश्य निम्बपत्राणि नियतो द्वारि वेश्मनः ।
आचम्य चाग्निमुदकं गोमयं गौरसर्षपान् ॥०५७॥

प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः ।
अक्षरलवणान्नः स्युर् निर्मांसा भूमिशायिनः ॥०५८॥

क्रीतलब्धाशनाः स्नाता आदिकर्ता दशाहकृत् ।
अभावे ब्रह्मचारी तु कुर्यात्पिण्डोदकादिकं ॥०५९॥

यथेदं शावमाशौचं सपिण्डेषु विधीयते ।
जननेप्येवं स्यान्निपुणां शुद्धिमिच्छतां ॥०६०॥

सर्वेषां शावमाशौचं मातापित्रोश् च सूतकं ।
सूतकं मातुरेव स्यादुपस्पृश्य पिता शुचिः ॥०६१॥

पुत्रजन्मदिने श्राद्धं कर्तव्यमिति निश्चितं ।
तदहस्तत्प्रदानार्थं गोहिरण्यादिवाससां ॥०६२॥

मरणं मरणेनैव सूतकं सूतकेन तु ।
उभयोरपि यत् पूर्वं तेनाशौचेन शुद्ध्यति ॥०६३॥

सूतके मृतकं चेत्स्यान् मृतके त्वथ सूतकं ।
तत्राधिकृत्य मृतकं शौचं कुर्यान्न सूतकं ॥०६४॥

[[१४०]]
विश्वास-प्रस्तुतिः
असमानं द्वितीयेन धर्मराजवचो यथा ॥०६५॥
मूलम्
असमानं द्वितीयेन धर्मराजवचो यथा ॥०६५॥
विश्वास-प्रस्तुतिः
शावान्तः शाव आयाते1 पूर्वाशौचेन शुद्ध्यति ।
गुरुणा लघु बाध्येत लघुना नैव तद्गुरु ॥०६६॥

मृतके सूतके वापि रात्रिमध्ये ऽन्यदापतेत् ।
तच्छेषेणैव सुद्ध्येरन् रात्रिशेषे द्व्यहाधिकात् ॥०६७॥

प्रभाते यद्यशौचं स्याच्छुद्धेरंश् च त्रिभिर्दिनैः ।
उभयत्र दशाहानि कुलस्यान्नं न भुज्यते ॥०६८॥

दानादि निनिवर्तेत कुलस्यान्नं न भुज्यते ।
अज्ञाते पातकं नाद्ये भोक्तुरेकमहो ऽन्यथा2 ॥०६९॥

{इत्य् आग्नेये महापुराणे स्रावाद्यशौचं नाम अष्टपञ्चाशदधिकशततमो ऽध्यायः ॥ }