१५७ शावाशौचादिः

{अथ सप्तपञ्चाशदधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

शावाशौचादिः

पुष्कर उवाच
प्रेतशुद्धिं प्रवक्ष्यामि सूतिकाशुध्हिमेव च ।
दशाहं शावमाशौचं सपिण्देषु विधीयते ॥००१॥

मूलम्

जनने च तथा शुद्धिर्ब्राह्मणानां भृगूत्तम ।
द्वादशाहेन राजन्यः पक्षाद्वैश्यो ऽथ मासतः ॥००२॥

शूद्रो ऽनुलोमतो दासे स्वामितुल्यन्त्वशौचकं ।
षट्भिस्त्रिभिरथैकेन क्षत्रविट्शूद्रयोनिषु ॥००३॥

ब्राह्मणः शुद्धिमाप्नोति क्षत्रियस्तु तथैव च ।
विट्शूद्रयोनेः शुद्धिः स्यात् क्रमात् परशुरामक ॥००४॥

षड्रात्रेण त्रिरात्रेण षड्भिः शूद्रे तथा विशः ।

[[१३०]]

विश्वास-प्रस्तुतिः

आदन्तजननात् सद्य आचूडान्नैशिकी श्रुतिः1 ॥००५॥

त्रिरात्रमाव्रतादेशाद्दशरात्रमतः परं ।
ऊनत्रैवार्षिके शूद्रे पञ्चाहाच्छुद्धिरिष्यते ॥००६॥

द्वादशाहेने शुद्धिः स्यादतीते वत्सरत्रये ।
गतैः संवत्सरैः षड्भिः शुद्धिर्मासेन कीर्तिता ॥००७॥

स्त्रीणामकृतचूडानां विशुद्धिर् नैशिकी स्मृता ।
तथा च कृतचुडानां त्र्यहाच्छुद्ध्यन्ति बान्धवाः ॥००८॥

विवाहितासु नाशौचं पितृपक्षे विधीयते ।
पितुर्गृहे प्रसूतानां विशुद्धिर् नैशिकी स्मृता ॥००९॥

सूतिका दशरात्रेण शुद्धिमाप्नोति नान्यथा ।
विवाहिता हि चेत् कन्या म्रियते पितृवेश्मनि ॥०१०॥

तस्यास्त्रिरात्राच्छुद्ध्यन्ति बान्धवा नात्र संशयः ।
समानं लब्धशौचन्तु प्रथमेन समापयेत् ॥०११॥

असमानं द्वितीयेन धर्मराजवचो यथा ।
देशान्तरस्थः श्रुत्वा तु कुल्याणां मरणोद्भवौ ॥०१२॥

यच्छेषं दशरात्रस्य तावदेवशुचिर्भवेत् ।
अतीते दशरात्रे तु त्रिरात्रमशुचिर्भवेत् ॥०१३॥

तथा संवत्सरे ऽतीते स्नात एव विशुद्ध्यति ।
मातामहे तथातीते आचार्ये च तथा मृते ॥०१४॥

रात्रिभिर्मासतुल्याभिर्गर्भस्रावे विशोधनं ।
सपिण्दे ब्राह्मणे वर्णाः सर्व एवाविशेषतः ॥०१५॥

:न्

[[१३१]]

विश्वास-प्रस्तुतिः

दशरात्रेण शुद्ध्यन्ति द्वादशाहेन भूमिपः ।
वैश्याः पञ्चदशाहेन शूद्रा मासेन भार्गव ॥०१६॥

उच्छिष्टसन्निधावेकं तथा पिण्डं निवेदयेत् ।
कीर्तयेच्च तथा तस्य नमगोत्रे समाहितः ॥०१७॥

भुक्तवत्सु द्विजेन्द्रेषु पूजितेषु धनेन च1
विसृष्टाक्षततोयेषु गोत्रनामानुकीर्तनैः ॥०१८॥

चतुरङ्गुलविस्तारं तत्खातन्तावदन्तरं ।
वितस्तिदीर्घं कर्तव्यं विकर्षूणां तथा त्रयं ॥०१९॥

विकर्षूणां समीपे च ज्वालयेज् ज्वलनत्रयं ।
सोमाय वह्नये राम यमाय च समासतः ॥०२०॥

जुहुयादाहुतीः सम्यक् सर्वत्रैव चतुस्त्रयः ।
पिण्डनिर्वपणं कुर्यात् प्राग्वदेव पृथक् पृथक् ॥०२१॥

अन्नेन दध्ना मधुना तथा मांसेन पूरयेत् ।
मध्ये चेदधिमासः स्यात् कुर्यादभ्यधिकन्तु तत् ॥०२२॥

अथवा द्वादशाहेन सर्वमेतत् समापयेत् ।
संवत्सरस्य मध्ये च यदि स्यादधिमासकः ॥०२३॥

तदा द्वादशके श्राद्धे कार्यं तदधिकं भवेत् ।
संवत्सरे समाप्ते तु श्राद्धं श्राद्धवदाचरेत् ॥०२४॥

प्रेताय तत ऊर्धवं च तस्यैव पुरुषत्रये ।
पिण्डान् विनिर्वपेत्तद्वच्चतुरस्तु समाहितः ॥०२५॥

सम्पूज्य दत्वा पृथिवी समाना इति चाप्यथ ।

:न्

[[१३२]]

विश्वास-प्रस्तुतिः

योजयेत् प्रेतपिण्डं तु पिण्डेष्वन्येषु भार्गव ॥०२६॥

प्रेतपात्रं च पात्रेषु तथैव विनियोजयेत् ।
पृथक् पृथक् प्रकर्तव्यं कर्मैतत् कर्मपात्रके ॥०२७॥

मन्त्रवर्जमिदं कर्म शूद्रस्य तु विधीयते ।
सपिण्डीकरणं स्त्रीणां कार्यमेवं तदा भवेत्1 ॥०२८॥

श्राद्धं कुर्याच्च प्रत्यब्दं प्रेते कुम्भान्नमब्दकं ।
गङ्गायाः सिकता धारा यथा वर्षति वासवे ॥०२९॥

शक्या गणयितुं लोके नत्वतीताः पितामहाः ।
काले सततगे स्थैर्यं नास्ति तस्मात् क्रियां चरेत् ॥०३०॥

देवत्वे यातनास्थाने प्रेतः श्राद्धं कृतं लभेत् ।
नोपकुर्यान्नरः शोचन् प्रेतस्यात्मन एव वा ॥०३१॥

भृग्वग्निपाशकाम्भोभिर्मृतानामात्मघातिनां ।
पतितानां च नाशौचं विद्युच्छस्त्रहताश् च ये ॥०३२॥

यतिब्रतिब्रह्मचारिनृपकारुकदीक्षिताः ।
राजाज्ञाकारिणो2 ये च स्नायाद्वै प्रेतगाम्यपि ॥०३३॥

मैथुने कटधूमे च सद्यः स्नानं विधीयते ।
द्विजं न निर्हरेत्3 प्रेतं शूद्रेण तु कथञ्चन ॥०३४॥

न च शूद्रं द्विजेनापि तयोर्दोषो हि जायते4
अनाथविप्रप्रेतस्य वहनात् स्वरगलोकभाक् ॥०३५॥

[[१३३]]

विश्वास-प्रस्तुतिः

सङ्ग्रामे जयमाप्नोति प्रेते ऽनाथे च काष्ठदः ।
सङ्कल्प्य बान्धवं प्रेतमपसव्येन तां चितिं ॥०३६॥

परिक्रम्य ततः स्नानं कुर्युः सर्वे सवाससः ।
प्रेताय च तथा दद्युस्त्रींस्त्रींश् चैवोदकाञ्जलीन् ॥०३७॥

द्वार्यश्मनि पदं दत्वा प्रविशेयुस् तथा गृहं ।
अक्षतान्निक्षिपेद्वह्नौ निम्बपत्रं विदश्य च ॥०३८॥

पृथक् शयीरन् भूमौ च क्रीतलब्धाशनो भवेत् ।
एकः पिण्दो दशाहे तु श्मश्रुकर्मकरः शुचिः ॥०३९॥

सिद्धार्थकैस्तिलैर् विद्वान् मज्जेद्वासोपरं दधत्1
अजातदन्ते तनये शिशौ गर्भस्रुते तथा ॥०४०॥

कार्यो नैवाग्निसंस्कारो नैव चास्योदकक्रिया ।
चतुर्थे च दिनेकार्यस् तथास्थ्नां चैव सञ्चयः ॥०४१॥

अस्थिसञ्चयनादूर्ध्वमङ्गस्पर्शो विधीयते ॥४२॥

{इत्य् आग्नेये महापुराणे शावाशौचं नाम सप्तपञ्चाशदाधिकशततमो ऽध्यायः ॥ }

  1. आचडान्नैशिकी तथेति ट॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. राजाज्ञाकारका इति ट॥ ↩︎ ↩︎

  3. न निर्दहेदिति ख॥ ↩︎ ↩︎

  4. तयोर्दोषो ऽभिजायते इति ङ॥ ↩︎ ↩︎