{अथ षट्पञ्चाशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
द्रव्यचुद्धिः
पुष्कर उवाच
द्रव्यशुद्धिं प्रवक्ष्यामि पुनःपाकेन मृण्मयं ।
शुद्ध्येन् मूत्रपुरीषाद्यैः स्पृष्टाम्रं सुवर्णकं ॥००१॥
मूलम्

आवर्तितञ्चान्यथा तु वारिणाम्ल्लेन ताम्रकं ।
क्षारेण कांस्यलोहानां मुक्तादेः क्षालनेन तु ॥००२॥

अब्जानां1 चैव भाण्डानां सर्वस्याश्ममयस्य च ।
शाकरज्जुमूलफलवैदलानां तथैव च ॥००३॥

मार्जनाद्यज्ञपात्राणां पाणिना यज्ञकर्मणि ।
उष्णाम्बुना सस्नेहानां शुद्धिः सम्मार्जनाद्गृहे ॥००४॥

:न्
[[१२८]]
विश्वास-प्रस्तुतिः
शोधनान्म्रक्षणाद्वस्त्रे1 मृत्तिकाद्भिर्विशोधनं ।
बहुवस्त्रे प्रोक्षणाच्च दारवाणाञ्च तक्षणात् ॥००५॥

प्रोक्षणात् संहतानान्तु द्रवाणाञ्च तथोत्प्लवात् ।
शयनासनयानानां शूर्पस्य शकटस्य च ॥००६॥

शुद्धिः सम्प्रोक्षणाज् ज्ञेया पलालेन्धनयोस् तथा ।
शुद्धार्थकानाङ्कल्केन शृङ्गदन्तमयस्य च ॥००७॥

गोबालैः पलपात्राणामस्थ्नां स्याच्छृङ्गवत्तथा ।
निर्यासानां गुडानाञ्च लवणानां च शोषणात् ॥००८॥

कुशुम्भकुसुमानाञ्च ऊर्णाकार्पासयोस् तथा ।
शुद्धन्नदीगतं तोयं पुण्यन्तद्वत् प्रसारितं ॥००९॥

मुखवर्जञ्च गौः शुद्धा शुद्धमश्वाजयोर्मुखं ।
नारीणाञ्चैव वत्सानां शकुनीनां शुनो मुखं ॥०१०॥

मुखैः प्रस्रवणे वृत्ते मृगयायां सदा शुचि ।
भुक्त्वा क्षुत्वा तथा सुप्त्वा पीत्वा चाम्भो विगाह्य च ॥०११॥

रथ्यामाक्रम्य चाचामेद्वासो विपरिधाय च ।
मार्जारश् चङ्क्रमाच्छुद्धश् चतुर्य्थे ऽह्नि रजस्वला ॥०१२॥

स्नाता स्त्री पञ्चमे योग्या दैवे पित्र्ये च कर्मणि ।
पञ्चापाने दशैकस्मिन्नुभयोः सप्त मृत्तिकाः ॥०१३॥

एकां लिङ्गे मृदं दद्यात् करयोस्त्रिद्विमृत्तिकाः ।
ब्रह्मचारिवनस्थानां यतीनाञ्च चतुर्गुणं ॥०१४॥

[[१२९]]
विश्वास-प्रस्तुतिः
शुद्धिः पर्युक्ष्य तोयेन मृगलोम्नां प्रकीर्तिता ॥०१५॥

{इत्य् आग्नेये महापुराणे द्रव्यशुद्धिर्नाम षट्पञ्चाशदधिकशततमो ऽध्यायः ॥ }