{अथ पञ्चपञ्चाशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
आचारः
पुष्कर उवाच
ब्राह्मे मुहूर्ते चोत्थाय विष्ण्वादीन् दैवतान् स्मरेत् ।
उभे मूत्रपुरीषे तु दिवा कुर्यादुदङ्मुखः ॥००१॥
मूलम्

रातौ च दक्षिणे कुर्यादुभे सन्ध्ये यथा दिवा ।
न मार्गादौ जले वीप्यां सतृणायां सदाचरेत् ॥००२॥

[[१२४]]
विश्वास-प्रस्तुतिः
शौचं कृत्वा मृदाचम्य भक्षयेद्दन्तधावनं ।
नित्यं नैमित्तिकं काम्यं क्रियाङ्गं मलकर्षणं ॥००३॥

क्रियास्नानं तथा षष्ठं षोढास्नानं प्रकीर्तितं ।
अस्नातस्याफलं कर्म प्रातःस्नानं चरेत्ततः ॥००४॥

भूमिष्ठमुद्धृतात् पुण्यं ततः प्रस्रवणोदकं ।
ततो ऽपि सारसं पुण्यं तस्मान्नादेयमुच्यते ॥००५॥

तीर्थतोयं ततः पुण्यं गाङ्गं पुण्यन्तु सर्वतः ।
संशोधितमलः पूर्वं निमग्नश् च जलाशये ॥००६॥

उपस्पृश्य ततः कुर्यादम्भसः परिमार्जनं ।
हिरण्यवर्णास्तिसृभिः शन्नो देवीति चाप्यथ ॥००७॥

आपोहिष्ठेति तिसृभिरिदमापस्तथैव च ।
ततो जलाशये मग्नः कुर्यादन्तर्जलं जपं ॥००८॥

तत्राघमर्षणं सूक्तं द्रुपदां वा तथा जपेत् ।
युञ्जते मन इत्य् एवं सूक्तं सूक्तं वाप्यथ पौरुषं ॥००९॥

गायत्रीं तु विशेषेण अघमर्षणसूक्तके ।
देवता भाववृत्तस्तु ऋषिश् चैवाघमर्षणः ॥०१०॥

छन्दश्चानुष्टुभं तस्य भाववृत्तो हरिः स्मृतः ।
आपीडमानः शाटीं तु देवतापितृतर्पणं1 ॥०११॥

पौरुषेण तु सूक्तेन ददेच्चैवोदकाञ्जलिं ।
ततो ऽग्निहवनं2 कुर्याद्दानं दत्वा3 तु शक्तितः ॥०१२॥
:न्
[[१२५]]
विश्वास-प्रस्तुतिः
ततः समभिगच्छेत योगाक्षेमार्थमीश्वरं ।
आसनं शयनं यानं जायापत्यङ्कमण्डलुः ॥०१३॥
मूलम्
ततः समभिगच्छेत योगाक्षेमार्थमीश्वरं ।
आसनं शयनं यानं जायापत्यङ्कमण्डलुः ॥०१३॥
विश्वास-प्रस्तुतिः
आत्मनः शुचिरेतानि परेषां न शुचिर्भवेत् ।
भाराक्रान्तस्य गुर्विण्याः पन्था देयो गुरुष्वपि ॥०१४॥

न पश्येच्चार्कमुद्यन्तन्नास्तं यान्तं न चाम्भसि ।
नेक्षेन्नग्नां स्त्रियं कूपं शूनास्थानमघौघिनं ॥०१५॥

कार्पासाथि तया भस्म नाक्रामेद् यच्च कुत्सितं ।
अन्तःपुरं वित्तिगृहं परदौत्यं ब्रजेन्न हि1 ॥०१६॥

नारोहेद्विषमान्नावन्न वृक्षं न च पर्वतं ।
अर्थायतनशास्त्रेषु तथैव स्यात् कुतूहली ॥०१७॥

लोष्टमर्दो तृणच्छेदी नखखादी विनश्यति ।
मुखादिवादनं नेहेद् विना दीपं न रात्रिगः2 ॥०१८॥

नाद्वारेण विशेद्वेश्म न च वक्त्रं विरागयेत् ।
कथाभङ्गं न कुर्वीत न च वासोविपर्ययं ॥०१९॥

भद्रं भद्रमिति ब्रूयान्नानिष्टं कीर्तयेत् क्वचित् ।
पालाशमासनं वर्ज्यं देवादिच्छायया3 व्रजेत् ॥०२०॥

न मध्ये पूज्ययोर्यायात् नोच्छिष्टस्तारकादिदृक् ।
नद्यान्नान्यां नदीं ब्रूयान्न कण्डूयेद् द्विहस्तकं ॥०२१॥

असन्तर्प्य पितॄन् देवान्नदीपारञ्च न व्रजेत् ।
मलादिप्रक्षिपेन्नाप्सु4 न नग्नः स्नानमाचरेत् ॥०२२॥

[[१२६]]
विश्वास-प्रस्तुतिः
ततः समभिगच्छेत योगक्षेमार्थमीश्वरं ।
स्रजन्नात्मनाप्पनयेत् खरादिकरजस्त्यजेत् ॥०२३॥

हीनान्नावहसेत् गच्छेन्नादेशे नियसेच्च तैः ।
वैद्यराजनदीहीने म्लेच्छस्त्रीबहुनायके ॥०२४॥

रजस्वलादिपतितैर् न भाषेत केशवं स्मरेत् ।
नासंवृतमुखः कुर्याद्धासं1 जृम्भां तथा
क्षुतं ॥०२५॥

प्रभोरप्यवमनं खद्गोपयेद्वचनं बुधः ।
इन्द्रियाणां नानुकूली वेदरोधं न कारयेत् ॥०२६॥

नोपेक्षितव्यो व्याधिः स्याद्रिपुरल्पो ऽपि2 भार्गव ।
रथ्यातिगः सदाचामेत्3 विभृयान्नाग्निवारिणी ॥०२७॥

न हुङ्कुर्याच्छिवं पूज्यं पादं पादेन नाक्रमेत् ।
प्रत्यक्षं वा परोक्षं वा कस्य चिन्नाप्रियं वदेत् ॥०२८॥

वेदशास्त्रनरेन्द्रर्षिदेवनिन्दां विवर्जयेत् ।
स्त्रीणामीर्षा4 न कर्तव्या त्रिश्वासन्तासु वर्जयेत् ॥०२९॥

धर्मश्रुतिं देवरतिं5 कुर्याद्धर्मादि नित्यशः6 ।
सोमस्य पूजां जन्मर्क्षे विप्रदेवादिपूजनं ॥०३०॥

[[१२७]]
विश्वास-प्रस्तुतिः
षष्ठीचतुर्दश्यष्टम्यामभ्यङ्गं वर्जयेत्तथा ।
दूराद्गृहान् मूत्रविष्ठे नोत्तमैवैरमाचरेत् ॥०३१॥

{इत्य् आग्नेये महापुराणे आचाराध्यायो नाम पञ्चपञ्चाशदधिकशततमो ऽध्यायः ॥ }