{अथ चतुःपञ्चाशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
विवाहः
पुष्कर उवाच
विप्रश् चतस्रो विन्देत भार्यास्तिस्रस्तु भूमिपः ।
द्वे च वैश्यो यथाकामं भार्यैकामपि चान्त्यजः ॥००१॥
मूलम्

धर्मकार्याणि सर्वाणि न कार्याण्यसवर्णया ।
पाणिर्ग्राह्यः सवर्णासु गृह्णीयात् क्सत्रिया शरं ॥००२॥

वैश्या प्रतीदमादद्याद्दशां वै चान्त्यजा तथा ।
सकृत् कन्या प्रदातव्या हरंस्तां चौरदण्डभाक् ॥००३॥

अपत्यविक्रयासक्ते निष्कृतिर् न विधीयते ।
कन्यादानं शचीयोगो1 विवाहो ऽथ चतुर्थिका ॥००४॥

:न्
१ सतीयोग इति ख॥ , छ॥ च
[[१२२]]
विश्वास-प्रस्तुतिः
विवाहमेतत् कथितं नामकर्मचतुष्टयं ।
नष्टे मृते प्रव्रजिते क्लीवे च पतिते पतौ ॥००५॥

पञ्चस्वापत्सु नारीणां पतिरन्यो विधीयते ।
मृते तु देवरे देयात् तदभावे यथेच्छया ॥००६॥

पूर्वात्रितयमाग्नेयं वायव्यं चोत्तरात्रयं ।
रोहिणौ चेति चरणे भगणः शस्यते सदा ॥००७॥

नैकगोत्रान्तु वरयेन्नैकार्षेयाञ्च भार्गव ।
पितृतः सप्तमादूर्ध्वं मातृतः पञ्चमात्तथा ॥००८॥

आहूय दानं ब्राह्मः स्यात् कुलशीलयुताय तु ।
पुरुषांस्तारयेत्तज्जो नित्यं कन्यप्रदानतः ॥००९॥

तथा गोमिथुनादानाद्विवाहस्त्वार्ष उच्यते ।
प्रार्थिता दीयते यस्य प्राजापत्यः स धर्मकृत् ॥०१०॥

शुल्केन चासुरो मन्दो गान्धर्वो वरणान्मिथः ।
राक्षसो युद्धहरणात् पैशाचः कन्यकाच्छलात् ॥०११॥

वैवाहिके ऽह्नि1 कुर्वीत कुम्भकारमृदा शुचीं ।
जलाशये तु तां पूज्य वाद्याद्यैः2 स्त्रीं गृहत्रयेत् ॥०१२॥

प्रशुप्ते केशवे नैव विवाहः कार्य एव हि ।
पोषे चैत्रे कुजदिने रिक्ताविष्टितथो न च ॥०१३॥

न शुक्रजीवे ऽस्तमिते न शशाङ्के ग्रहार्दिते ।
अर्कार्कभौमयुक्ते भे व्यतीपातहते न हि ॥०१४॥

[[१२३]]
विश्वास-प्रस्तुतिः
उत्तरात्रितयं मूलं मैत्रं पौष्णं विवाहभं ॥०१५॥

मानुषाख्यस् तथा लग्नो मानुषाख्यांशकः शुभः ।
तृतीये च तथा षष्ठे दशमैकादशे ऽष्टमे ॥०१६॥

अर्कार्किचन्दतनयाः प्रशस्ता न कुजो ऽष्टमः ।
सप्तान्त्याष्टमवर्गेषु शेषाः शस्ता ग्रहोत्तमाः ॥०१७॥

तेषामपि तथा मध्यात् षष्ठः शुक्रो न शस्यते ।
वैवाहिके भे कर्तव्या तथैव च चतुर्थिका ॥०१८॥

न दातव्या ग्रहास्तत्र चतुराद्यास्तथैकगाः ।
पर्ववर्जं स्त्रियं गच्छेत् सत्या दत्ता सदा रतिः ॥०१९॥

{इत्य् आग्नेये महापुराणे विवाहो नाम सतुःपञ्चाशदधिकशततमो ऽध्यायः ॥ }