{अथ त्रिपञ्चाशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
ब्रह्मचर्याश्रमधर्मः
पुष्कर उवाच
धर्ममाश्रमिणां वक्ष्ये भुक्तिमुक्तिप्रदं शृणु ।
षोडशर्तुनिशा स्त्रीणामाद्यस्तिस्रस्तु गर्हिताः ॥००१॥
मूलम्

व्रजेद्युग्मासु पुत्रार्थी कर्माधानिकमिष्यते ।
गर्भस्य स्पष्टताज्ञाने सवनं स्पन्दनात् पुरा ॥००२॥

षष्ठे ऽष्टमे वा सीमन्तं पुत्रीयं नामभं शुभं ।
अच्छिन्ननाड्यां कर्तव्यं जातकर्म विचक्षणैः ॥००३॥

अशौचे तु व्यतिक्रान्ते नामकर्म विधीयते ।
शर्मान्तं ब्राह्मस्योक्तं वर्मान्तं क्षत्रियस्य तु ॥००४॥

[[१२०]]
विश्वास-प्रस्तुतिः
शर्मान्तं ब्रह्मणस्योक्तं वर्मान्तं क्षत्रियस्य च ॥००५॥

गुप्तदासात्मकं नाम प्रशस्तं वैश्यशूद्रयोः ।
बालं निवेदयेद्भर्त्रे तव पुत्रो ऽयमित्युत ॥००६॥

यथाकुलन्तु चूडाकृद् ब्राह्मणस्योपनायनं ।
गर्भाष्टमे ऽष्टमे वाब्दे गर्भादेकादशे नृपे ॥००७॥

गर्भात्तु द्वादशे वैश्ये षोडशाब्दादितो न हि ।
मुञ्जानां वल्कलानान्तु क्रमान्मौज्ज्याः प्रकीर्तिताः ॥००८॥

मार्गवैयाध्रवास्तानि चर्माणि व्रतचारिणां ।
पर्णपिप्पलविल्वानां क्रमाद्दण्डाः प्रकीर्तिताः ॥००९॥

केशदेशललाटास्यतुल्याः प्रोक्ताः क्रमेण तु ।
अवक्राः सत्वचः सर्वे नाविप्लुष्टास्तु दण्डकाः ॥०१०॥

वासोपवीते कार्पासक्षौमोर्णानां यथाक्रमं ।
आदिमध्यावसानेषु भवच्छब्दोपलक्षितं ॥०११॥

प्रथमं तत्र भ्हिक्षेत यत्र भिक्षा ध्रुवं भवेत् ।
स्त्रीणाममन्त्रतस्तानि विवाहस्तु समन्त्रकः ॥०१२॥

उपनीय गुरुः शिष्यं सिक्षयेच्छौचमादितः ।
आचारमग्निकार्यं च सन्ध्योपासनमेव च ॥०१३॥

आयुष्यं प्राङ्मुखो भुङ्क्ते यशस्यं दक्षिणामुखः ।
श्रियं प्रत्यङ्मुखी भुङ्क्ते ऋतं भुङ्क्ते उदङ्मुखः ॥०१४॥

सायं प्रातश् च जुहुयान् नामेध्यं व्यस्तहस्तकं ।
मधु माम्स जनैः सार्धं गीतं नृत्यञ्च वै त्यजेत्1 ॥०१५॥

:न्
[[१२१]]
विश्वास-प्रस्तुतिः
हिंसाम्परापवादं च अश्लीलं च विशेषतः ।
दण्डादि धारयेन्नष्टमप्सु क्षिप्त्वान्यधारणं ॥०१६॥

{इत्य् आग्नेये महापुराणे ब्रह्मचर्याश्रमो नाम त्रिपञ्चाशदधिकशततमो ऽध्यायः ॥ }