{अथ द्विपञ्चाशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
गृहस्थवृत्तिः
पुष्कर उवाच
आजीवंस्तु यथोक्तेन ब्राह्मणः स्वेन कर्मणा ।
क्षत्रविट्शूद्रधर्मेण जीवेन्नैव तु शूद्रजात् ॥००१॥
मूलम्

कृषिबाणिज्यगोरक्ष्यं कुशीदञ्च द्विजश् चरेत् ।
गोरसं गुडलवणलाक्षामांसानि वर्जयेत् ॥००२॥

:न्
[[११९]]
विश्वास-प्रस्तुतिः
भूमिं भित्वौषधीश्छित्वा हुत्वा कोटपिपीलिकान् ।
पुनन्ति खलु यज्ञेन कर्षका देवपूजनात् ॥००३॥

हलमष्टगवं धर्म्यं षड्गवं जीवितार्थिनां ।
चर्तुर्गवं नृशंसानां द्विगवं धर्मघातिनां ॥००४॥

ऋतामृताभ्यां जीवेत मृतेन प्रमृतेन वा ।
सत्यानृताभ्यामपिवा न स्ववृत्त्या कदा च न ॥००५॥

{इत्य् आग्नेये महापुराणे गृहस्थवृत्तयो नाम व्रिपञ्चाशदधिकशततमो ऽध्यायः ॥ }