{अथैकपञ्चाशदधिकशततनो ऽध्यायः}
विश्वास-प्रस्तुतिः
वर्णेतरधर्माः
अग्निर् उवाच
मन्वादयो भुक्तिमुक्तिधर्मांश्चीर्त्वाप्नुवन्ति यान् ।
प्रोचे परशुरामाय वरुणोक्तन्तु पुष्करः ॥००१॥
मूलम्

पुष्कर उवाच
वर्णाश्रमेतराणान्ते धर्मान्वक्ष्यामि सर्वदान् ।
मन्वादिभिर् निगदितान् वासुदेवादितुष्टिदान् ॥००२॥

[[११७]]
विश्वास-प्रस्तुतिः
अहिंसा सत्यवचनन्दया भूतेष्वनुग्रहः ।
तीर्थानुसरणं दानं ब्रह्मचर्यम्मत्सरः ॥००३॥

देवद्विजातिशुश्रूषा गुरूणाञ्च भृगूत्तम ।
श्रवणं सर्वधर्माणां पितॄणां पूजनं तथा ॥००४॥

भक्तिश् च नृपतौ नित्यं तथा सच्छास्त्रनेत्रता ।
आनृशंष्यन्तितिक्षा च तथा चास्तिक्यमेव च ॥००५॥

वर्णाश्रमाणां सामान्यं धर्माधर्मं[^१] समीरितं ।
यजनं याजनं दानं वेदाद्यध्यापनक्रिया ॥००६॥

प्रतिग्रहञ्चाध्ययनं विप्रकर्माणि निर्दिशेत् ।
दानमध्ययनञ्चैव यजनञ्च यथाविधिः ॥००७॥

क्षत्रियस्य सवैश्यस्य कर्मेदं परिकीर्तितं ।
क्षत्रियस्य विशेषेण पालनं दुष्टनिग्रहः ॥००८॥

कृषिगोरक्ष्यवाणिज्यं वैश्यस्य परिकीर्तितं ।
शूद्रस्य द्विजशुश्रूषा सर्वशिल्पानि वाप्यथ ॥००९॥

मौञ्जीबन्धनतो जन्म विप्रादेश् च द्वितीयकं ।
आनुलोम्येन वर्णानां जातिर्मातृसमा स्मृता ॥०१०॥

चण्डालो ब्राह्मणीपुत्रः शूद्राच्च प्रतिलोमतः ।
सूतस्तु क्षत्रियाज्जातो वैश्याद्वै देवलस् तथा ॥०११॥

पुक्कसः क्षत्रियापुत्रः शूद्रात् स्यात् प्रतिलोमजः ।
मागधः स्यात्तथा वैश्याच्छूद्रादयोगवो भवेत् ॥०१२॥

:न्
१ धर्मरूपमिति ग॥ , घ॥ , ङ॥ , ञ॥ च
[[११८]]
विश्वास-प्रस्तुतिः
विवाहः सदृशैस्तेषां नोत्तमैर् नाधमैस् तथा ॥०१३॥

चण्डालकर्म निर्दिष्टं बध्यानां घातनं तथा ।
स्त्रीजीवन्तु तद्रक्षाप्रोक्तं[^१] वैदेहकस्य च ॥०१४॥

सूतानामश्वसारथ्यं पुक्कसानाञ्च व्याधता ।
स्तुतिक्रिया माघ्धानां तथा चायोगशस्य च ॥०१५॥

रङ्गावतरणं प्रोक्तं तथा शिल्पैश् च जीवनं ।
वहिर्ग्रामनिवासश् च मृतचेलस्य धारणं ॥०१६॥

न संस्पर्शस्तथैवान्यैश् चण्डालस्य विधीयते ।
ब्राह्मणार्थे गवार्थे वा देहत्यागो ऽत्र यः कृतः ॥०१७॥

स्त्रीबालाद्युपपतो वा वाह्याणां सिद्धिकारणं ।
सङ्करे जातयो ज्ञेयाः पितुर्मातुश् च कर्मतः ॥०१८॥

{इत्य् आग्नेये महापुराणे वर्णान्तरधर्मा नामैकपञ्चाशदधिकशततमो ऽध्यायः ॥ }