{अथ पञ्चाशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
मन्वन्तराणि
अग्निर् उवाच
मन्वन्तराणि वक्ष्यामि आद्याः स्वायम्भुवो मनुः ।
अग्नीध्राद्यास्तस्य सुता यमो नाम तदा सुराः ॥००१॥
मूलम्

और्वाद्याश् च सप्तर्षय इन्द्रश् चैव शतक्रतुः ।
पारावताः सतुषिता देवाः स्वारोचिषे ऽन्तरे ॥००२॥

विपश्चित्तत्र देवेन्द्र ऊर्जस्तम्भादयो द्विजाः ।
चैत्रकिम्पुरुषाः पुत्रास्तृतीयश्चोत्तोतमो मनुः ॥००३॥

सुशान्तिरिन्द्रो देवाश् च सुधामाद्या वशिष्ठजाः ।
सप्तर्षयो ऽजाद्याः पुत्राश् चतुर्थस्तामसी मनुः ॥००४॥

[[११४]]
विश्वास-प्रस्तुतिः
स्वरूपाद्याः सुरगणाः शिखिरिन्द्रः सुरेश्वरः ।
ज्योतिर्धामादयो विप्रा नव ख्यातिमुखाः सुताः ॥००५॥

रैवते वितथश्चेन्द्रो अमिताभास् तथा सुराः ।
हिरण्यरोमाद्या मुनयो1 बलबन्धादयः सुताः ॥००६॥

मनोजवश्चाक्षुषे ऽथ इन्द्रः स्वात्यादयः सुराः ।
सुमेधाद्या महर्षयः पुरुप्रभृतयः सुताः ॥००७॥

विवस्वतः सुतो विप्रः श्राद्धदेवो मनुस्ततः ।
आदित्यवसुरुद्राद्या देवा इन्द्रः पुरन्दरः ॥००८॥

वशिष्ठः काश्यपो ऽथात्रिर्जमदग्निः सगोतमः ।
विश्वामित्रभरद्वाजौ मुनयः सप्त साम्प्रतं ॥००९॥

इक्ष्वाकुप्रमुखाः पुत्रा अंशेन हरिराभवत् ।
स्वायम्भुवे मानसो ऽभूदजितस्तदनन्तरे ॥०१०॥

सत्यो हरिर्देवदरो वैकुण्ठो वामनः क्रमात् ।
छायाजः सूर्यपुत्रस्तु भविता चाष्टमो मनुः ॥०११॥

पूर्वस्य च सवर्णो ऽसौ सावर्णिर्भविताष्टमः ।
सुतपाद्या देवगणा दीप्तिमद्द्रौणिकादयः ॥०१२॥

मुनयो बलिरिन्द्रश् च विरजप्रमुखाः सुताः ।
नवमो दक्षसावर्णिः पाराद्याश् च तदा सुराः2 ॥०१३॥

इन्द्रश् चैवाद्भुतस्तेषां सवनाद्या द्विजोत्तमाः ।
धृतकेत्वादयः पुत्रा ब्रह्मसावर्णिरित्यतः ॥०१४॥

:न्
[[११५]]
विश्वास-प्रस्तुतिः
हविष्याद्याश् च मुनयः सुक्षेत्राद्याश् च तत्सुताः ॥०१५॥

धर्मसावर्णिकश्चाथ विहङ्गाद्यास्तदा सुराः ।
गणेशश्चेन्द्रो नश् चराद्या मुनयः पुत्रकामयोः ॥०१६॥

सर्वत्रगाद्या रुद्राख्यः सावर्णिभविता मनुः ।
ऋतधामा सुरेन्द्रश् च हरिताद्याश् च देवताः ॥०१७॥

तपस्याद्याः सप्तर्षयः सुता वैदेववन्मुखाः ।
मनुस्त्रयोदशो रौच्यः सूत्रामाणादयः सुराः ॥०१८॥

इन्द्रो दिवस्पतिस्तेषां दानवादिविमर्दनः ।
निर्मोहाद्याः सप्तर्षयश्चित्रसेनादयः सुताः ॥०१९॥

मनुश् चतुर्दशो भौत्यः शुचिरिन्द्रो भविष्यति ।
चाक्षुषाद्याः सुरगणा अग्निबाह्णादयो द्विजाः ॥०२०॥

चतुर्दशस्य भौत्यस्य पुत्रा ऊरुमुखा मनोः ।
प्रयर्तयन्ति देवांश् च भुवि सप्तर्षयो दिवः ॥०२१॥

देवा यज्ञभुजस्ते तु भूः पुत्रैः परिपाल्यते ।
ब्रह्मणो दिवसे ब्रह्मन्मनवस्तु चतुर्दश ॥०२२॥

मन्वाद्याश् च हरिर्वेदं द्वापरान्ते विभेद सः ।
आद्यो वेदश् चतुष्पादः शतसाहस्रसम्मितः ॥०२३॥

एकश्चासीद् यजुर्वेदस्तं चतुर्धा व्यकल्पयत् ।
आध्वर्यवं यजुर्भिस्तु ऋग्भिर्होत्रं तथा मुनिः ॥०२४॥

औद्गात्रं सामभिओश् चक्रे ब्रह्मत्वञ्चाप्यथर्वभिः ।
प्रथमं व्यासशिष्यस्तु पैलो ह्य् ऋग्वेदपारगः ॥०२५॥

इन्द्रः प्रमतये प्रादाद्वास्कलाय च संहितां ।
बौध्यादिभ्यो ददौ सोपि चतुर्धा निजसंहितां ॥०२६॥

[[११६]]
विश्वास-प्रस्तुतिः
यजुर्वेदतरोः शाखाः सप्तविंशन्महामतिः ।
वैशम्पायननामासौ व्यासशिष्यश् चकार वै ॥०२७॥

काण्वा वाजसनेयाद्या याज्ञवल्क्यादिभिः स्मृताः ।
सामवेदतरोः शाखा व्यासशिष्यः सजैमिनिः ॥०२८॥

सुमन्तुश् च सुकर्मा च एकैकां संहितां ततः ।
गृह्णते च सुकर्माख्यः सहस्रं संहितां गुरुः ॥०२९॥

सुमन्तुश्चाथर्वतरुं व्यासशिष्यो विभेद तं ।
शिष्यानध्यापयामास पैप्यलादान् सहस्रशः ॥०३०॥

पुराणसंहितां चक्रे सुतो व्यासप्रसादतः ॥३१॥

{इत्य् आग्नेये महापुराणे मन्वन्तराणि नाम पञ्चाशदधिकशततमो ऽध्यायः ॥ }