१४९ अयुतलक्षकोटिहोमाः

{अथोनपञ्चाशदधिकशततमो ऽध्यायः ॥}

विश्वास-प्रस्तुतिः

लक्षकोटिहोमः

ईश्वर उवाच
होमाद्रणादौ विजयो राज्याप्तिर्विघ्ननाशनं ।
कृच्छ्रेण शुद्धिमुत्पाद्य प्राणायामशतेन च ॥००१॥

मूलम्

:न्

[[११२]]

विश्वास-प्रस्तुतिः

अन्तर्जले च गायत्रीं जप्त्वा षोडशधाचरेत् ।
प्राणायामांश् च पूर्वाह्णे जुहुयात् पावके हविः ॥००२॥

भैक्ष्ययावकभक्षी च फलमूलाशनो ऽपि वा ।
क्षीरशक्तुघृताहार एकमाहारमाश्रयेत् ॥००३॥

यावत्समाप्तिर्भवति लक्षहोमस्य पार्वति ।
दक्षिणा लक्षहोमान्ते गावो वस्त्राणि काञ्चनं ॥००४॥

सर्वोत्पातसमुत्पत्तौ पञ्चभिर्दशभिर्द्विजैः ।
नास्ति लोके स उत्पातो यो ह्य् अनेन न शाम्यति ॥००५॥

मङ्गल्यं परमं नास्ति यदस्मादतिरिच्यते ।
कोटिहोमन्तु यो राजा कारयेत् पूर्ववद्द्विजैः ॥००६॥

न तस्य शत्रवः सङ्ख्ये जातु तिष्ठन्ति कर्हिचित् ।
न तस्य मारको देशे व्याधिर्वा जायते क्वचित् ॥००७॥

अतिवृष्टिरनावृष्टिर्मूषकाः शलभाः शुकाः ।
राक्षसाद्याश् च शाम्यन्ति सर्वे च रिपवो रणे ॥००८॥

कोटिहोमे तु वरयेद्ब्राह्मणान्विंशतिं तथा ।
शतञ्चाथ सहस्रं वा यथेष्टाम्भूतिमाप्नुयात् ॥००९॥

कोटिहोमन्तु यः कुर्याद् द्विजो भूपो ऽथवा च विट् ।
यदिच्छेत् प्राप्नुयात्तत्तत् सशरीरो दिवं व्रजेत् ॥०१०॥

गायत्र्या ग्रहमन्त्रैर् वा कुष्माण्डीजातवेदसैः ।
ऐन्द्रवारुणवायव्ययाम्याग्नेयैश् च वैष्णवैः ॥०११॥

शाक्तेयैश् च शाम्भवैः सौरैर् मन्त्रैर् होमार्चनात्ततः ।
अयुतेनाल्पसिद्धिः स्याल्लक्षहोमो ऽखिलार्तिनुत् ॥०१२॥

सर्वपीडादिनशाय कोटिहोमो ऽखिलार्थदः ।

[[११३]]

विश्वास-प्रस्तुतिः

यवव्रीहितिलक्षीरघृतकुशप्रमातिकाः ॥०१३॥

मूलम्

यवव्रीहितिलक्षीरघृतकुशप्रमातिकाः ॥०१३॥

विश्वास-प्रस्तुतिः

पङ्कजोशीरविल्वाम्रदला होमे प्रकीर्तिताः ।
अष्टहस्तप्रमाणेन कोटिहोमेषु खातकं ॥०१४॥

तस्मादर्धप्रमाणेन लक्षहोमे विधीयते ।
होमो ऽयुतेन लक्षेण कोद्याज्याद्यैः प्रकीर्तितः ॥०१५॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे अयुतलक्षकोटिहोमो नामोनपञ्चाशदधिकशततमो ऽध्यायः ॥ }