१४८ सङ्ग्रामविजयपूजा

{अथ अष्टचत्वारिंशदधिकशततमो ऽध्यायः}

सङ्ग्रमविजयपूजा

ईश्वर उवाच । ॐ डे ख ख्यां सूर्याय सङ्ग्रामविजयाय
नमः । ह्रां ह्रों ह्रूं ह्रें ह्रौं ह्रः

विश्वास-प्रस्तुतिः

षडङ्गानि तु सूर्यस्य सङ्ग्रामे जयदस्य हि ।

ॐ हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ॐ
ह्रों क्रें
प्रभूतं विमलं सारसाराध्यं परमं मुखं ॥००१॥

मूलम्

षडङ्गानि तु सूर्यस्य सङ्ग्रामे जयदस्य हि ।

ॐ हं खं खशोक्लाय स्वाहा । स्पूं ह्रूं हुं क्रूं ॐ
ह्रों क्रें
प्रभूतं विमलं सारसाराध्यं परमं मुखं ॥००१॥

विश्वास-प्रस्तुतिः

धर्मज्ञानञ्च वैराग्यमैश्वर्याद्यष्टकं यजेत् ।
अनन्तासनं सिंहासनं पद्मासनमतः परं ॥००२॥

मूलम्

धर्मज्ञानञ्च वैराग्यमैश्वर्याद्यष्टकं यजेत् ।
अनन्तासनं सिंहासनं पद्मासनमतः परं ॥००२॥

[[१११]]

विश्वास-प्रस्तुतिः

कर्णिकाकेशरण्येव सूर्यसोमाग्निमण्डलं ।
दीप्ता सूक्ष्मा[^१] जया भद्रा विभूतिर्विमला तथा ॥००३॥

मूलम्

कर्णिकाकेशरण्येव सूर्यसोमाग्निमण्डलं ।
दीप्ता सूक्ष्मा[^१] जया भद्रा विभूतिर्विमला तथा ॥००३॥

विश्वास-प्रस्तुतिः

अमोघा विद्युता पूज्या नवमी सर्वतोमुखी ।
सत्त्वं रजस्तमश् चैव प्रकृतिं पुरुषं तथा ॥००४॥

मूलम्

अमोघा विद्युता पूज्या नवमी सर्वतोमुखी ।
सत्त्वं रजस्तमश् चैव प्रकृतिं पुरुषं तथा ॥००४॥

विश्वास-प्रस्तुतिः

आत्मानञ्चान्तरात्मानं परमात्मानमर्चयेत् ।
सर्वे विन्दुसमायुक्ता मायानिलसमन्विताः ॥००५॥

मूलम्

आत्मानञ्चान्तरात्मानं परमात्मानमर्चयेत् ।
सर्वे विन्दुसमायुक्ता मायानिलसमन्विताः ॥००५॥

विश्वास-प्रस्तुतिः

उषा प्रभा च सन्ध्या च साया माया बलान्विता ।
विन्दुविष्णुसमायुक्ता[^२] द्वारपालास् तथाष्टकं ॥००६॥

मूलम्

उषा प्रभा च सन्ध्या च साया माया बलान्विता ।
विन्दुविष्णुसमायुक्ता[^२] द्वारपालास् तथाष्टकं ॥००६॥

विश्वास-प्रस्तुतिः

सूर्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः ।
पूजया जपहोमाद्यैर् युद्धादौ विजयो भवेत् ॥००७॥

मूलम्

सूर्यं चण्डं प्रचण्डञ्च पूजयेद्गन्धकादिभिः ।
पूजया जपहोमाद्यैर् युद्धादौ विजयो भवेत् ॥००७॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे सङ्ग्रामविजयपूजा नाम अष्टचत्वारिंशदधिकशततमो ऽध्यायः ॥ }