{अथ षट्चत्वारिंशदधिकशततमो ऽध्यायः}
अष्टाष्टकदेव्यः
ईश्वर उवाच
त्रिखण्डीं सम्प्रवक्षामि ब्रह्मविष्णुमहेश्वरीं ।
:न्
[[१०५]]
ॐ नमो भगवते रुद्राय नमः । नमश्चामुण्डे
नमश्चाकाशमातॄणां
सर्वकामार्थसाधनीनामजरामरीणां
सर्वत्राप्रतिहतगतीनां स्वरूपरूपपरिवर्तिनीनां
सर्वसत्त्ववशीकरणोत्सादनीन्मूलनसमस्तकर्मप्रवृत्तानां
सर्वमातृगुह्यं हृदयं परमसिद्धं परकर्मच्छेदनं
परमसिद्धिकरम्मातॄणां वचनं शुभं
ब्रह्मखण्डपदे रुद्रैर् एकविंशाधिकं शतं ॥००१॥
तद्यथा, ॐ नमश्चामुण्डे ब्रह्माणि अघोरे अमोघे वरदे विच्चे
स्वाहा । ॐ नमःचामुण्डे माहेश्वरि अघोरे अमोघे वरदे विच्चे
स्वाहा । ॐ नमश्चामुण्डे कौमारि अघोरे अमोघे वरदे विच्चे
स्वाहा ।ॐ नमश्चामुण्डे वैष्णवि अघोरे अमोघे वरदे विच्चे
स्वाहा । ॐ नमश्चामुण्डे वाराहि अघोरे अमोघे वरदे विच्चे स्वाहा । ॐ नमश्चामुण्डे इन्द्राणि अघोरे अमोघे वरदे विच्चे स्वाहा । ॐ
नमश्चामुण्डे चण्डि अगोरे अमोघे वरदे विच्चे स्वाहा । ॐ
नमश्चामुण्डे ईशानि अघोरे अमोघे वरदे विच्चे स्वाहा1
यथाक्षरपदानां हि विष्णुखण्डन्द्वितीयकं ।
ॐ नमश्चामुण्डे ऊर्ध्वकेशि ज्वलितशिखरे2 विद्युज्जिह्वे
तारकाक्षि पिण्गलभ्रुवे विकृतदंष्ट्रे क्रुद्धे ॐ
मांसशोणितसुरासवप्रिये हस २ ॐ नृत्य २ ॐ विजृम्भय २ ॐ
मायत्रैलोक्यरूपसहस्रपरिवर्तिनीनां ॐ बन्ध २ ॐ कुट्ट २ चिरि
:न्
[[१०६]]
मारिणि २ सञ्जीवनि २ हेरि २ गेरि २ घेरि २ ॐ मुरि २ ॐ नमो
मातृगणाय नमो नमो विच्चे
एकत्रिंशत्पदं शम्भोः शतमन्त्रैकसप्ततिः ॥००२॥
हे घौं पञ्चप्रणवाद्यन्तां त्रिखण्डीञ्च जपेद् यजेत् ।
हे घौं श्रीकुब्जिकाहृदयं पदसन्धौ तु योजयेत् ॥००३॥
अकुन्तादित्रिमध्यस्थं कुलादेश् च त्रिमध्यगं ।
मध्यमादि त्रिमध्यस्थं पिण्डं पादे त्रिमध्यगं ॥००४॥
त्रयार्धमात्रासंयुक्तं प्रणवाद्यं शिखाशिवां ।
ॐ क्ष्रौं शिखाभैरवाय नमः । स्खीं स्खौं स्खें
सवीजत्र्यक्षरः
ह्रां ह्रीं ह्रैं निर्वीजन्त्र्यर्णं द्वात्रिंशद्वर्णकम्परं ॥००५॥
क्षादयश् च ककारान्ता अकुला च कुलक्रमात् ।
शशिनी भानुनी चैव पावनी शिव इत्य् अतः ॥००६॥
गान्धरी णश् च पिण्डाक्षी चपला गजजिह्विका ।
म मृषा भयसारा स्यान्मध्यमा फो ऽजराय च ॥००७॥
कुमारो कालरात्री न सङ्कटा द ध कालिका ।
फ शिवा भवघोरा ण ट वीभत्सा त विद्युता ॥००८॥
ठ विश्वम्भरा शंशिन्या ढ ज्वालामालया तथा ।
कराली दुर्जया रङ्गी वामा ज्येष्ठा च रौद्र्यपि ॥००९॥
ख काली क कुलालम्वी अनुलोमा द पिण्डिनी ।
आ वेदिनी इ रूपी वै शान्तिर्मूर्तिः कलाकुला ॥०१०॥
ऋ खड्गिनी उ बलिता ऌ कुला ॡ तथा यदि ।
सुभगा वेदनादिन्या कराली अं च मध्यमा ॥०११॥
[[१०७]]
अः अपेतरया पीठे पूज्याश् च कक्तयः क्रमात् ।
स्खां स्खीं स्खौं महाभैरवाय नमः ।०१२।
अक्षोद्या ह्य् ऋक्षकर्णी च राक्षसी क्षपणक्षया ॥०१२॥
पिङ्गाक्षी चाक्षया क्षेमा ब्रह्माण्यष्टकसंस्थिताः ।
इला लीलावती नीला लङ्गा लङ्केश्वरी तथा ॥०१३॥
लालसा विमला माला1 माहेश्वर्य।अष्टके स्थिताः ।
हुताशना विशालाक्षी ह्रूङ्कारी वडवामुखी ॥०१४॥
हाहारवा तथा क्रूरा क्रोधा बाला खरानना ।
कौमार्या देहसम्भूताः पूजिताः सर्वसिद्धिदाः ॥०१५॥
स्सर्वज्ञा तरला तारा ऋग्वेदा च हयानना ।
सारासारस्वयङ्ग्राहा शाश्वती2 वैष्णवीकुले ॥०१६॥
तालुजिह्वा च रक्ताक्षी विद्युज्जिह्वा करङ्किणी ।
मेघनादा प्रचण्डोग्रा कालकर्णी कलिप्रिया ॥०१७॥
वाराहीकुलसम्भूताः पूजनीया जयार्थिना ।
चम्पा चम्पावती चैव प्रचम्पा ज्वलितानना ॥०१८॥
पिशाची पिचुवक्त्रा च लोलुपा ऐन्द्रीसम्भवाः ।
पावनी याचनी चैव वामनी दमनी तथा ॥०१९॥
विन्दुवेला वृहत्कुक्षी विद्युता विश्वरूपिणी ।
चामुण्डाकुलसम्भूता मण्डले पूजिता जये ॥०२०॥
यमजिह्वा जयन्ती च दुर्जया च यमान्तिका3 ।
:न्
[[१०८]]
विडाली रेवती चैव जया च विजया तथा ॥०२१॥
महालक्ष्मीकुले जाता अष्टाष्टकमुदाहृतं ॥२२॥
{इत्य् आग्नेये महापुराणे अष्टाष्टकादिर्नाम षट्चत्वारिंशदधिकशततमो ऽध्यायः ॥ }