{अथ पञ्चचत्वारिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
मालिनीनानामन्त्राः
ईश्वर उवाच
नानामन्त्रान् प्रवक्ष्यामि षोढान्यासपुरःसरम् ।
न्यासस्त्रिधा तु षोढा स्युः शाक्तशाम्भवयामलाः ॥००१॥
मूलम्

शाम्भवे शब्दराशिः षट्षोडशग्रन्थिरूपवान्1 ।
त्रिविद्या तद्ग्रहो न्यासस्त्रितत्त्वात्माभिधानकः ॥००२॥

चतुर्थो वनमालायाः श्लोकद्वादशरूपवान् ।
पञ्चमो रत्नपञ्चात्मा नवात्मा षष्ठ ईरितः ॥००३॥

:न्
[[१०२]]
विश्वास-प्रस्तुतिः
अधोर्यष्टकरूपो ऽन्यो द्वादशाङ्गश् चतुर्थकः ।
पञ्चमस्तु षडङ्गः स्याच्छक्तिश्चान्यास्त्रचण्डिका1 ।
क्रीं ह्रौं क्लीं श्रीं क्रूं फट् त्रयं स्यात्तुर्याख्यं
सर्वसाधकं2 ॥००५॥

मालिन्या नादिकान्तं स्यात् नादिनी च शिखा स्मृता ।
अग्रसेनी3 शिरसि स्यात् शिरोमालानिवृत्तिः शः ॥००६॥

ट शान्तिश् च शिरो भूयाच् चामुण्डा च त्रिनेत्रगा ।
ढ प्रियदृष्टिर्द्विनेत्रे च नासागा गुह्यशक्तिनी ॥००७॥

न नारायणी द्विकर्णे च दक्षकर्णे त मोहनौ ।
ज प्रज्ञा वामकर्नस्था वक्त्रे च वज्रिणी स्मृता ॥००८॥

क कराली दक्षदंष्ट्रा वामांसा ख कपालिनी ।
ग शिवा ऊर्ध्वदंष्ट्रा स्याद् घ घोरा वामदंष्ट्रिका ॥००९॥

उ शिखा दन्तविन्यासा ई माया जिह्वया स्मृता ।
अ स्यान्नागेश्वरी वाचि व कण्ठे शिखिवाहिनी ॥०१०॥

भ भीषणी दक्षस्कन्धे वायुवेगा म वामके ।
डनामा दक्षबाहौ तु ढ वामे च विनायका ॥०११॥

प पूर्णिमा द्विहस्ते तु ओकाराद्यङ्गुलीयके ।
अं दर्शनी वामाङ्गुल्य अः स्यात्सञ्जीवनी करे ॥०१२॥

ट कपालिनी कपालं शूलदण्डे त दीपनी ।
त्रिशूले ज जयन्ती स्याद्वृद्धिर्यः साधनी4 स्मृता ॥०१३॥

[[१०३]]
विश्वास-प्रस्तुतिः
जीवे श परमाख्या स्याद् ह प्राणे चाम्बिका स्मृता ।
दक्षस्तने छ शरीरा न वामे पूतना स्तने ॥०१४॥

अ स्तनक्षीरा आ मोटो लम्बोदर्युदरे च थ ।
नाभौ संहारिका क्ष स्यान् महाकाली नितम्बम ॥०१५॥

गुह्ये स कुसुममाला ष शुक्रे शुक्रदेविका ।
उरुद्वये त तारास्याह ज्ञाना दक्षजानुनि ॥०१६॥

वामे स्यादौ क्रियाशक्तिरो गायत्री च जङ्घगा ।
ओ सावित्री वामजङ्घा दक्षे दो दोहनी पदे ॥०१७॥

फ फेत्कारी वामपादे नवात्मा मालिनी मनुः ।
अ श्रीकण्ठः शिखायां स्यादावक्त्रे स्यादनन्तकः ॥०१८॥

इ सूक्ष्मो दक्षनेत्रे स्यादी त्रिमूर्तिस्तु वामके ।
उ दक्षकर्णे ऽमरौश ऊ कर्णेर्घांशको ऽपरे ॥०१९॥

ऋ भाषभूतिर्नासाग्रे वामनासा तिथीश ऋ ।
ऌ स्थाणुर्दक्षगण्डे स्याद्वामगण्डे हरश् च ॡ ॥०२०॥

कटीशो दन्तपङ्क्तावे भूतीशश्चोर्ध्वदन्त ऐ ।
सद्योजात ओ अधरे ऊर्ध्वौष्ठे ऽनुग्रहीश औ ॥०२१॥

अं क्रूरो घाटकायां स्यादः महासेनजिह्वया ।
क क्रोधीशो दक्षस्कन्धे खश् चण्डीशश् च बाहुषु ॥०२२॥

पञ्चान्तकः कूर्परे गो घ शिखी दक्षकङ्गणे ।
ङ एकपादश्चाङ्गुल्यो तामस्कन्धे च कूर्मकः ॥०२३॥

छ एकनेत्रो बाहौ स्याच्चतुर्वक्त्रो ज कूर्परे ।
झ राजसः कङ्कणगः ञः सर्वकामदो ऽङ्गुली ॥०२४॥

[[१०४]]
विश्वास-प्रस्तुतिः
ड दारुको दक्षजानौ जङ्घा ढो ऽर्धजलेश्वरः ॥०२५॥

ण उमाकान्तको ऽङ्गुल्यस्त आषाढो नितम्बके ।
थ दण्डी वाम ऊरौ स्याद्द भिदो वामजानुनि ॥०२६॥

ध मीनो वामजङ्घायान्न मेषश् चरणाङ्गुली ।
प लोहितो दक्षकुक्षौ फ शिखी वामकुक्षिगः ॥०२७॥

ब गलण्डः पृष्ठवंशे भो नाभौ च द्विरण्डकः ।
म महाकालो हृदये य वाणीशस्त्वविस्मृतः1 ॥०२८॥

र रक्ते स्याद्भुजङ्गे शो ल पिनाकी च मांसके ।
व खड्गीशः स्वात्मनि स्याद्वकश्चाथिनि शः स्मृतः ॥०२९॥

ष श्वेतश् चैव मज्जायां स भृगुः शुक्रधातुके ।
प्राणे हो नकुलीशः स्यात् क्ष संवर्तश् च कोषगः ॥०३०॥

रुद्रशक्तीः प्रपूज्य ह्रींवीजेनाखिलमाप्नुयात् ॥३१॥

{इत्य् आग्नेये महापुराणे मालिनीमन्त्रादिन्यासो नाम पञ्चचत्वारिंशदधिकशततमो ऽध्यायः ॥ }