{अथ चतुश् चत्वारिंशदधिकशततमो ऽध्यायः कुब्जिकापूजा }
ईश्वर उवाच
श्रीमतीं कुब्जिकां वक्ष्ये धर्मार्थादिजयप्रदां ।
पूजयेन्मूलमन्त्रेण परिवारयुतेन वा ॥००१॥
ॐ ऐं ह्रौं श्रीं खैं ह्रें हसक्षमलचवयम्भगवति
अम्बिके ह्रां ह्रीं क्ष्रीं क्षौं क्ष्रूं क्रीं कुब्जिके
ह्रां ॐ ङञनणमे अघोरमुखि व्रां छ्रां
:न्
[[९७]]
छीं किलि २ क्षौं विच्चे ख्यों श्रीं क्रों ॐ ह्रों ऐं
वज्रकुब्जिनि1 स्त्रीं त्रैलोक्यकर्षिणि ह्रीं कामाङ्गद्राविणि
ह्रीं स्त्रीं महाक्षोभकारिणि ऐं ह्रीं क्ष्रीं ऐं
ह्रों श्रीं फें क्षौं नमो भगवति क्ष्रौं कुब्जिके ह्रों
ह्रों क्रैं ङञणनमे अघोरमुखि छ्राञ्छां विच्चे ॐ किलि
कृत्वा कराङ्गन्यासञ्च सन्ध्यावन्दनमाचरेत् ।
वामा ज्येष्ठा तथा रौद्रीं सन्ध्यात्रयमनुक्रमात् ॥००२॥
कुलवागीशि विद्महे महाकालीति धीमहि । तन्नः कौली
प्रचोदयात्
मन्त्राः पञ्च प्रणवाद्याः पादुकां पूजयामि च ।
मध्ये नाम चतुर्थ्यन्तं द्विनवात्मकवीजकाः ॥००३॥
नमोन्ता वाथ षष्ट्या तु सर्वे ज्ञेया वदामि तान् ।
कौलीशनाथः सुकला जन्मतः कुब्जिका ततः ॥००४॥
श्रीकण्ठनाथः कौलेशो गगनानन्दनाथकः ।
चटुला देवी मैत्रीशी कराली तूर्णनाथकः ॥००५॥
अतलदेवी श्रीचन्द्रा देवीत्यन्तास्ततस्त्विमे ।
भगात्मपुङ्गणदेवमोहनीं पादुकां यजेत् ॥००६॥
अतीतभुवनानन्दरत्नाढ्यां पादुकां यजेत् ।
ब्रह्मज्ञानाथ कमला परमा विद्यया सह ॥००७॥
विद्यादेवीगुरुशुद्धिस्त्रिशुद्धिं प्रवदामि ते ।
गगनश् चटुली चात्मा पद्मानन्दो मणिः कला ॥००८॥
:न्
[[९८]]
कमलो माणिक्यकण्ठो गगनः कुमुदस्ततः ।
श्रीपद्मो भैरवानन्दो देवः कमल इत्य् अतः ॥००९॥
शिवो भवो ऽथ कृष्णश् च नवसिद्धाश् च षोडश ।
चन्द्रपूरो ऽथ गुल्मश् च शुभः कामो ऽतिमुक्तकः1 ॥०१०॥
कण्ठो वीरः2 प्रयोगो ऽथ कुशलो देवभोगकः ।
विश्वदेवः खड्गदेवो रुद्रो धातासिरेव च ॥०११॥
मुद्रास्फीटी वंशपूरो भोजः षोडश सिद्धकाः ।
समयान्यस्तु देहस्तु षोढान्यासेन यन्त्रितः ॥०१२॥
प्रक्षिप्य मण्डले पुष्पं मण्डलान्यथ पूजयेत् ।
अनन्तञ्च महान्तञ्च सर्वदा शिवपादुकां ॥०१३॥
महाव्याप्तिश् च शून्यञ्च पञ्चतत्त्वात्ममण्डलं ।
श्रीकण्ठनाथपादुकां शङ्करानन्तकौ यजेत् ॥०१४॥
सदाशिवः पिङ्गलश् च भृग्वानन्दश् च नाथकः ।
लाङ्गूलानन्दसंवर्तौ मण्डलस्थानके यजेत् ॥०१५॥
नैरृत्ये श्रीमहकालः पिनाकी च महेन्द्रकः ।
खड्गो भुजङ्गो वाणश् च अघासिः शब्दको वशः ॥०१६॥
आज्ञारूपो नन्दरूपो बलिन्दत्वा क्रमं यजेत् ।
ह्रीं खं खं हूं सौं वटुकाय अरु २ अर्घं पुष्पं
धूपं दीपङ्गन्धं बलिं पूजां गृह्ण २ नमस्तुभ्यं ।
ॐ ह्रां ह्रीं ह्रूं क्षें क्षेत्रपालाय अवतर २
महाकपिलजटाभार भास्वरत्रिनेत्रज्वालामुख एह्येहि
गन्ह्दपुष्पबलिपूजां गृह्ण २ खः खः ॐ कः ॐ
लः ॐ महाडामराधिपतये3 स्वाहा
:न्
[[९९]]
बलिशेषे ऽथ यजेत् ह्रीं ह्रूं हां श्रीं वै त्रिकूटकं ॥०१७॥
वामे च दक्षिणे ह्य् अग्रे याम्ये निशानाथपादुकाः ।
दक्षे तमोरिनाथस्य हग्रे कालानलस्य च ॥०१८॥
उड्डियाणं जालन्धरं पूर्णं वै कामरुपकं ।
गगनानन्ददेवञ्च स्वर्गानन्दं सवर्गकं1 ॥०१९॥
परमानन्ददेवञ्च2 सत्यानन्दस्य पादुकां3 ।
नागानन्दञ्च वर्गाख्यमुक्तान्ते रत्नपञ्चकं ॥०२०॥
सौम्ये शिवे यजेत् षट्कं सुरनाथस्य पादुकां ।
श्रीमत्समयकोटीशं विद्याकोटीश्वरं यजेत् ॥०२१॥
कोटीशं विन्दुकोटीशं सिद्धकोटीश्वरन्तथा ।
सिद्धचतुष्कमाग्नेय्यां अमरीशेश्वरं यजेत् ॥०२२॥
चक्रीशनाथं कुरुङ्गेशं वृत्रेशञ्चन्द्रनाथकं4 ।
यजेद्गन्धादिभिश् चैतान् याम्ये विमलपञ्चकं ॥०२३॥
यजेदनादिविमलं सर्वज्ञविमलं ततः ।
यजेद्योगीशविमलं सिद्धाख्यं समयाख्यकं ॥०२४॥
नैऋत्ये चतुरो देवान्5 जयेत् कन्दर्पनाथकं ।
पूर्वाः शक्तीश् च सर्वाश् च6 कुब्जिकापादुकां यजेत् ॥०२५॥
:न्
[[१००]]
नवातङ्केन मन्त्रेण पञ्चप्रणवकेन वा ।
सहस्राक्षमनवद्यं विष्णुं शिवं सदा यजेत्1 ॥०२६॥
पूर्वाच्छिवान्तं ब्रह्मादि ब्रह्माणी च महेश्वरी ।
कौमारी वैष्णवी चैव वाराही शक्रशक्तिका ॥०२७॥
चामुण्डा च महालक्ष्मीः पूर्वादीशान्तमर्चयेत् ।
डाकिनी राकिनी पूज्या लाकिनी काकिनी तथा ॥०२८॥
शाकिनी याकिनी पूज्या वायव्यादुग्रषट्षु च ।
यजेद् ध्यात्वा ततो देवीं द्वात्रिंशद्वर्णकात्मकां ॥०२९॥
पञ्चप्रणवकेनापि ह्रीं कारेणाथवा यजेत् ।
नीलोत्पलदलश्यामा षड्वक्त्रा2 षट्प्रकारिका ॥०३०॥
चिच्छक्तिक्तिरष्टादशाख्या बाहुद्वादशसंयुता ।
सिंहासनसुखासीना प्रेतपद्मोपरिस्थिता ॥०३१॥
कुलकोटिसहस्राढ्या कर्कोटो मेखलास्थितः ।
तक्षकेणोपरिष्टाच्च गले हारश् च वासुकिः ॥०३२॥
कुलिकः कर्णयोर्यस्याः कूर्मः कुण्डलमण्डलह्ः ।
भ्रुवोः पद्मो मकापद्मो वामे नागः कपालकः ॥०३३॥
अक्षसूत्रञ्च खट्वाङ्गं शङ्कं पुस्तञ्च दक्षिणे ।
त्रिशूलन्तदर्पणं खड्गं रत्नमालाङ्कुशन्धनुः3 ॥०३४॥
श्वेतमूर्ध्वमुखन्देव्या ऊर्ध्वश्वेतन्तथापरं ।
पूर्वास्यं पाण्डरं क्रोधि दक्षिणं कृष्णवर्णकं ॥०३५॥
:न्
[[१०१]]
हिमकुन्देन्दभं सौम्यं ब्रह्मा पादतले स्थितः ।
विष्णुस्तु जघने रुद्रो हृदि कण्ठे तथेश्वरः ॥०३६॥
सदाशिवो ललाटे स्याच्छिवस्तस्योर्ध्वतः स्थितः ।
आघूर्णिता कुब्जिकैवन्ध्येया पूजादिकर्मसु ॥०३७॥
{इत्य् आग्नेये महापुराणे युद्धजयार्णवे कुब्जिकापूजा नाम चतुश् चत्वारिंशदधिकशततमो ऽध्यायः ॥ }