{अथ त्रिचत्वारिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
कुब्जिकापूजा
ईश्वर उवाच
कुब्जिकाक्रमपूजाञ्च1 वक्ष्ये सर्वार्थसाधनीं ।
यया जिताः सुरा देवैः शस्त्राद्यैर् आज्यसंयुतैः ॥००१॥
मूलम्

:न्
[[९५]]
विश्वास-प्रस्तुतिः
मायाबीजं च गुह्याङ्गे षट्कमस्त्रं करे न्यसेत् ।
काली कालीति हृदयं दुष्टचाण्डालिका शिरः ॥००२॥

ह्रौं स्फें ह स ख क छ ड ॐ कारो भैरवः शिखा ।
भेलखी कवचं दूती नेत्राख्या रक्तचण्डिका ॥००३॥

ततो गुह्यक्रुञ्जिकास्त्रं मण्डले स्थानके यजेत् ।
अग्नौ कूर्चशिरो रुद्रे नैरृत्ये ऽथ शिखानिले ॥००४॥

कवचम्मध्यतो नेत्रं अस्त्रन्दिक्षु च मण्डले ।
द्वात्रिंशता कर्णिकायां स्रों
हसक्षमलनववषडसचात्ममन्त्रवीजकं ॥००५॥

ब्रह्माणी चैव माहेशो कौमारी वैष्णवी तथा ।
वाराही चैव माहेन्द्री चामुण्डा चण्डिकेन्द्रकात् ॥००६॥

यजेद्रवलकसहान् शिवेन्दाग्नियमे ऽद्निपे ।
जले तु कुसुममालामद्रिकाणां च पञ्चकं ॥००७॥

जालन्धरं पूर्णगिरिं कामरूपं क्रमाद्यजेत् ।
मरुदेशाग्निनैरृत्ये मध्ये वै वज्रकुब्जिकां ॥००८॥

अनादिविमलः पूज्यः सर्वज्ञविमलस्तुतः ।
प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः ॥००९॥
मूलम्
अनादिविमलः पूज्यः सर्वज्ञविमलस्तुतः ।
प्रसिद्धविमलश्चाथ संयोगविमलस्तुतः ॥००९॥
विश्वास-प्रस्तुतिः
समयाख्यो ऽथ विमल एतद्विमलपञ्चकं ।
मरुदीशाननैरृत्ये वह्नौ चोत्तरशृङ्गके ॥०१०॥

कुब्जार्थं खिङ्खिनी षष्ठा सोपन्ना सुस्थिरा तथा ।
रत्नसुन्दरी चैशाने शृङ्गे चाष्टादिनाथकाः ॥०११॥

मित्र ओडीशषष्ठ्याख्यौ वर्षा अग्न्यम्बुपे ऽनिले ।
भवेद्गगनरत्नं स्याच्चाप्ये कवचरत्नकं ॥०१२॥

[[९६]]
विश्वास-प्रस्तुतिः
ब्रुं मर्त्यः पञ्चनामाख्यो1 मरुदीशानवह्निगः ।
याम्याग्नेये पञ्चरत्नं ज्येष्ठा रौद्री तथान्तिका ॥०१३॥

तिस्रो ह्य् आसां महावृद्धाः पञ्चप्रणवतो ऽखिलाः ।
सप्तविंशत्यष्टविंशभेदात् सम्पूजनं द्विधा ॥०१४॥

ॐ ऐं गूं क्रमगणपतिं प्रणवं वटुकं यजेत् ।
चतुरस्रे मण्डले च दक्षिणे गणपं यजेत् ॥०१५॥

वामे च वटुकं कोणे गुरून् सोडशनाथकान् ।
वायव्यादौ चाष्ट दश प्रतिषट्कोणके ततः ॥०१६॥

ब्रह्माद्याश्चाष्ट परितस्तन्मध्ये च नवात्मकः ।
कुब्जिका कुलटा चैव क्रमपूजा तु सर्वदा ॥०१७॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे कुब्जिकाक्रमपूजा नाम त्रिचत्वारिंशदधिकशततमो ऽध्यायः ॥ }