१४२ युद्धजयार्णवीयमन्त्रौषधादयः

{अथ द्विचत्वारिंशदधिकशततमो ऽध्यायः}

मन्त्रोषधादिः

ईश्वर उवाच
मन्त्रौषधानि चक्राणि1 वक्ष्ये सर्वप्रदानि च ।
चौरनाम्नो वर्णगुणो द्विघ्नो मात्राश् चतुर्गुणाः ॥००१॥
नाम्ना हृते भवेच्छेषद्यौरो ऽथ जातकं वदे ।
प्रश्ने ये विषमा वर्णास्ते गर्भे पुत्रजन्मदाः ॥००२॥
नामवर्णैः समैः काणो वामे ऽक्ष्णि विषमैः पुनः ।
दक्षिणाक्षि भवेत् काणं स्त्रीपुन्नामाक्षरस्य च ॥००३॥
मात्रावर्णाश् चतुर्निघना वर्णपिण्डे गुणे कृते ।
समे स्त्री विषमे ना स्याद्विशेषे च2 मृतिः स्त्रियाः ॥००४॥
प्रथमं रूपशून्ये ऽथ प्रथमं म्रियते पुमान् ।
प्रश्नं सूक्ष्माक्षरैर् गृह्य द्रव्यैर् भागे ऽखिले मतम् ॥००५॥
शनिचक्रं प्रवक्ष्यामि तस्य दृष्टिं परित्यजेत् ।
राशिस्थः सप्तमे दृष्टिश् चतुर्दशशतेर्धिका ॥००६॥
एकद्व्यष्टद्वादशमः पाददृष्टिश् च तं त्यजेत् ।
दिनाधिपः प्रहरभाक् शेषा यामार्धभागिनः3 ॥००७॥

:न्

[[९३]]

शनिभागन्त्यजेद्युद्धे दिनराहुं वदामि ते ।
रवौ पूर्वे ऽनिले मन्दे गुरौ याम्ये ऽनले भृगौ ॥००८॥
अग्नौ कुजे भवेत् सोम्ये स्थिते राहुर्बुधे सदा ।
फणिराहुस्तु प्रहरमैशे वह्नौ च राक्षसे ॥००९॥
वायौ संवेष्टयित्वा च शत्रुं हन्तीशसन्मुखं ।
तिथिराहुं प्रवक्ष्यामि पूर्णिमाग्नेयगोचरे ॥०१०॥
अमावास्या वायवे च राहुः सम्मुखशत्रुहा ।
काद्या जान्ताः सम्मुखे स्युः साद्या दान्ताश् च दक्षिणे ॥०११॥
अक्ले त्यजेत् कुजगणान् धाद्या मान्ताश् च पूर्वतः ।
याद्या हान्ता उत्तरे स्युस्तिथिदृष्टिं विवर्जयेत् ॥०१२॥
पूर्वाश् च दक्षिणास्तिस्रो रेखा वै मूलभेदके ।
सूर्यराश्यादि संलिख्य दृष्टौ हानिर्जयो ऽन्यथा ॥०१३॥
विष्टिराहुं प्रवक्ष्यामि अष्टौ रेखास्तु पातयेत् ।
शिवाद्यमं यमाद्वायुं वायोरिन्द्रं ततो ऽम्बुपं ॥०१४॥
नैरृताच्च नयेच्चन्द्रं चन्द्रादग्निं ततो जले ।
जलादीशे चरेद्राहुर्विष्ट्या सह महाबलः ॥०१५॥
ऐशान्यां च तृतीयादौ सप्तम्यादौ च याम्यके ।
एवं कृष्णे सिते पक्षे वायौ राहुश् च हन्त्यरीन् ॥०१६॥
इन्द्रादीन् भैरवादींश् च ब्रह्माण्यादीन् ग्रहादिकान् ।
अष्टाष्टकञ्च पूर्वादौ याम्यादौ वातयोगिनीं ॥०१७॥
यान्दिशं वहते वायुस्तत्रस्थो घातयेदरीन् ।
दृढीकरणमाख्यास्ये कण्ठे बाह्वादिधारिता ॥०१८॥
पुष्योद्धृता काण्डलक्ष्यं वारयेत् शरपुङ्खिका ।

[[९४]]

तथा पराजिता पाठा द्वाभ्यां खड्गं निवारयेत् ॥०१९॥

ॐ नमो भगवति वज्रशृङ्खले हन २ ॐ भक्ष २ ॐ खाद ॐ
अरे रक्तं पिब कपालेन रक्ताक्षि रक्तपटे भस्माङ्गि
भस्मलिप्तशरीरे वज्रायुधे वज्राकारनिचिते पूर्वां दिशं बन्ध २
ॐ दक्षिणां दिशम्बन्ध २ ॐ पश्चिमां दिशम्बन्ध २
उत्तरां दिशम्बन्ध २ नागान् बन्ध २ नागपत्नीर्बन्ध २ ॐ असुरान्
बन्ध २ ॐ यक्षराक्षसपिशाचान् बन्ध २ ॐ
प्रेतभूतगन्धर्वादयो ये केचिदुपद्रवास्तेभ्यो रक्ष २ ॐ ऊर्धवं
रक्ष २ अधा रक्ष २ ॐ क्षुरिक बन्ध २ ॐ ज्वल महाबले घटि २
ॐ मोटि २ सटावलिवज्जाग्निवज्रप्राकारे हुं फट् ह्रीं ह्रूं
श्रीं फट् ह्रीं हः फूं फें फः सर्वग्रहेभ्यः
सर्वव्याधिभ्यः सर्वदुष्टोपद्रवेभ्यो ह्रीं अशेषेभ्यो रक्ष

ग्रहज्वरादिभूतेषु सर्वकर्मसु योजयेत् ॥२०॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे मन्त्रौषधादिर्नाम हि चत्वारिंशदधिकशततमो ऽध्यायः ॥ }


  1. मन्त्रौषधादिचक्राणीति घ॥ , ञ॥ च ↩︎

  2. विशेषेणेति ख॥ ↩︎

  3. यामार्धभोगिन इति क॥ , ग॥ , ङ॥ , ज॥ च ↩︎