{अथैकचत्वारिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
षट्त्रिंशत्पदकज्ञानं
ईश्वर उवाच
षट्त्रिंशत्पदसंस्थानामोषधीनां वदे फलं ।
अमरीकरणं नृणां ब्रह्मरुद्रेन्द्रसेवितं ॥००१॥
मूलम्

हरीतक्यक्ष्यधात्राश् च मरीचम्पिप्पलीशिफा ।
वह्निः शुण्ठी पिप्पली च गुडूचीवचनिम्बकाः1 ॥००२॥

वासकः शतमूली च सैन्धवं सिन्धुवारकं ।
कण्टकारी गोक्षुरका विल्वम्पौनर्नवं बला ॥००३॥

एरण्डमुण्डी रुचको भृङ्गः क्षारो ऽथ पर्पटः ।
धन्याको जीरकश् चैव शतपुष्यी जवानिका ॥००४॥

विडङ्गः खदिरश् चैव कृतमालो हरिद्रया ।
वचा सिद्धार्थ एतानि षट्त्रिंशत्पदगानि हि ॥००५॥

क्रमादेकादिसञ्ज्ञानि ह्य् औपधानि महान्ति हि ।
सर्वरोगहराणि स्युरमरीकरणानि च ॥००६॥

बलीपलितभेत्तॄणि2 सर्वकोष्ठगतानि तु ।
एषां चूर्णञ्च वटिका रसेन परिभाविता ॥००७॥

:न्
[[९१]]
विश्वास-प्रस्तुतिः
मधुतो धृततो वापि घृतन्तैलमथापि वा ॥००८॥
मूलम्
मधुतो धृततो वापि घृतन्तैलमथापि वा ॥००८॥
विश्वास-प्रस्तुतिः
सर्वात्मनोपयुक्तं हि मृतसञ्जीवनम्भवेत् ।
कर्षार्धं कर्षमेकं वा पलार्धं पलमेककं ॥००९॥

यथेष्टाचारनिरतो1 जीवेद्वर्षशतत्रयं ।
मृतसञ्जीवनीकल्पे योगो नास्मात् परो ऽस्ति हि ॥०१०॥

प्रथमान्नवकाद्योगात् सर्वरोगैः प्रमुच्यते ।
द्वितीयाच्च तृतीयाच्च चतुर्थान्मुच्यते रुजः ॥०११॥

एवं षट्काच्च प्रथमाद् द्वितीयाच्च तृतीयतः ।
चतुर्थात्पञ्चमात् षष्ठात्तथा नवचतुष्कतः ॥०१२॥

एकदित्रिचतुःपञ्चषट्सप्ताष्टमतो ऽनिलात् ।
अग्निभास्करषड्विंशसप्तविंशैश् च पित्ततः ॥०१३॥

वाणर्तुशैलवसुभिस्तिथिभिर्मुच्यते कफात् ।
वेदाग्निभिर्बाणगुणैः षद्गुणैः स्याद्वशे धृते ॥०१४॥

ग्रहादिग्रहणान्तैश् च सर्वैर् एव विमुच्यते ।
एकद्वित्रिरसैः शैलैर् वसुग्रहशिवैः क्रमात् ॥०१५॥

द्वात्रिंशत्तिथिसूर्यैश् च नात्र कार्या विचारणा ।
षट्त्रिंशत्पदकज्ञानं न देयं यस्य कस्य चित् ॥०१६॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे षट्त्रिंशत्पदकज्ञानं नाम एकचत्वारिंशदधिकशततमो } ऽध्यायः ॥
:न्
[[९२]]