{अथ चत्वारिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
वश्यादियोगाः
ईश्वर उवाच
वश्यादियोगान् वक्ष्यामि लिखेद् द्व्यष्टपदे त्विमान् ।
भृङ्गराजः सहदेवी1 मयूरस्य शिखा तथा ॥००१॥
मूलम्

पुत्रञ्जीवकृतञ्जली ह्य् अधःपुष्पा रुदन्तिका ।
कुमारी रुद्रजटा2 स्याद्विष्णुक्रान्ता शितो ऽर्ककः ॥००२॥

लज्जालुका मोहलता कृष्णधुस्तूरसञ्ज्ञिता3 ।
गोरक्षः कर्कटो चैव मेषशृङ्गी स्नुही तथा ॥००३॥

ऋत्विजो १६ वह्नये ३ नागाः ८ पक्षौ २ मुनि ३ मनू १४ शिवः ११ ।
वसवो ८ दिक् १० रसा ६ वेदा ४ ग्रह ९ र्तु६रवि १२ चन्द्रमाः १ ॥००४॥

तिथयश् च १५ क्रमाद्भागा ओषधीनां प्रदक्षिणं ।
प्रथमेन चतुष्केण धूपश्चोद्वर्तनं परं ॥००५॥

तृतीयेनाञ्जनं कुर्यात् स्नानं कुर्याच्चतुष्कतः ।
भृङ्गराजानुलोमाच्च चतुर्धा लेपनं स्मृतं ॥००६॥

मुनयो दक्षणे पार्श्वे युगाद्याश्चोत्तराः स्मृताः ।
भुजगाः पादसंस्थाश् च ईश्वरा मूर्ध्नि संस्थिताः ॥००७॥

मध्येन सार्कशशिभिर्धूपः स्यात् सर्वकार्यके ।
एतैर् विलिप्तदेहस्तु त्रिदशैर् अपि पूज्यते4 ॥००८॥

:न्
[[८९]]
विश्वास-प्रस्तुतिः
धूपस्तु षोडशाद्यस्तु गृहाद्युद्वर्तने स्मृतः ।
युगाद्याश्चाञ्जने प्रोक्ता वाणाद्याः स्नानकर्मणि ॥००९॥

रुद्राद्या भक्षणे प्रोक्ताः पक्षाद्याः पानके स्मृताः ।
ऋत्विग्वेदर्तुनयनैस्तिलकं लोकमोहनं ॥०१०॥

सूर्यत्रिदशपक्षैश् च शैलैः स्त्री लेपतो वशा ।
चन्द्रेन्द्रफणिरुद्रैश् च योनिलेपाद्वशाः स्त्रियः ॥०११॥

तिथिदिग्युगवाणैश् च गुटिका तु वशङ्करी ।
भक्ष्ये भोज्ये तथा पाने दातव्या गुटिका वशे ॥०१२॥

ऋत्विग्ग्रहाक्षिशैलैश् च शस्त्रस्तम्भे मुखे धृता ।
शैलेन्द्रवेदरन्ध्रैश् च अङ्गलेपाज्जले वसेत् ॥०१३॥

वाणाक्षिमनुरुद्रैश् च गुटिका क्षुत्तृषादिनुत् ।
त्रिषोडशदिशावाणैर् लेपात् स्त्री दुर्भगा शुभा ॥०१४॥

त्रिदशाक्षिदिशानेत्रैर् लेपात् क्रीडेच्च पत्रगैः ।
त्रिदशाक्षेशभुजगैर् लेपात् स्त्री सूयते सुखं ॥०१५॥

सप्तदिङ्मुनिरन्ध्रैश् च द्यूतजिह्वस्त्रलेपतः ।
त्रिदशाक्ष्यब्धिमुनिभिर्ध्वजलेपात्1 रतौ सुतः ॥०१६॥

ग्रहाब्धिसर्प्यत्रिदशैर् गुटिका स्याद् वशङ्करी ।
ऋत्विक्पदस्थितौषध्याः प्रभावः प्रतिपादितः ॥०१७॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे षोडशपदका नाम चत्वारिंशदधिकशततमो ऽध्यायः ॥ }
:न्
[[९०]]