{अथोनचत्वारिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
षष्टिसंवत्सराः
ईश्वर उवाच
षष्ट्यब्दानां प्रवक्ष्यामि शुभाशुभमतः शृणु ।
प्रभवे यज्ञकर्माणि विभवे सुखिनो जनाः ॥००१॥
मूलम्

शुक्ले च सर्वशस्यानि प्रमोदेन प्रमोदिताः ।
प्रजापतौ प्रवृद्धिः स्यादङ्गिरा भोगवर्धनः ॥००२॥

श्रीमुखे वर्धते लोको भावे भावः प्रवर्धते ।
पूरणो पूरते शक्रो धाता सर्वौषधीकरः ॥००३॥

ईश्वरः क्षेम आरोग्यबहुधान्यसुभिक्षदः ।
प्रमाथी मध्यवर्षस्तु विक्रमे शस्यसम्पदः ॥००४॥

[[८७]]
विश्वास-प्रस्तुतिः
स्वर्भानुः क्षेममारोग्यं तारणे जलदाः शुभाः ॥००५॥

पार्थिवे शस्यसम्पत्तिरतिवृष्टिस् तथा जयः ।
सर्वजित्युत्तमा वृष्टिः सर्वधारी सुभिक्षदः ॥००६॥

विरोधी जलदान् हन्ति विकृतश् च भयङ्करः ।
खरे भवेत् पुमान् वीरो नन्दने नन्दते प्रजा ॥००७॥

विषयः शत्रुहन्ता च शत्रुरोगादि मर्दयेत् ।
ज्वरार्तो मन्मथे लोको दुष्करे दुष्करा प्रजाः ॥००८॥

दुर्मुखे दुर्मुखो लोको1 हेमलम्बे न सम्पदः ।
संवत्सरो महादेवि विलम्बस्तु सुभिक्षदः ॥००९॥

विकारी शत्रुकोपाय विजये सर्वदा क्वचित् ।
प्लवे प्लवन्ति तोयानि शोभने शुभकृत्प्रजा ॥०१०॥

राक्षसे निष्ठुरो लोको विविधन्धान्यमानने ।
सुवृष्टिः पिङ्गले क्वापि काले ह्य् उक्तो धनक्षयः ॥०११॥

सिद्धार्थे सिद्ध्यते सर्वं रौद्रे रौद्रं प्रवर्तते ।
दुर्मतौ मध्यमा वृष्टिर्दुन्दुभिः क्षेमधान्यकृत् ॥०१२॥

स्रवन्ते रुधिरोद्गारी रक्ताक्षः क्रोधने जयः ।
क्षये क्षीणधनो लोकः2 षष्टिसंवत्सराणि तु ॥०१३॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे षष्टिसंवत्सराणि नाम ऊनचत्वारिंशदधिकशततमो ऽध्यायः ॥ }
:न्
[[८८]]