{अथाष्टत्रिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
षट्कर्माणि
ईश्वर उवाच
षट्कर्माणि प्रवक्ष्यामि सर्वमन्त्रेषु तच्छृणु ।
आदौ साध्यं लिखेत् पूर्वं चान्ते मन्त्रसमन्वितं ॥००१॥
मूलम्

पल्लवः स तु विज्ञेयो महोच्चाटकरः परः ।
आदौ मन्त्रः ततः साध्यो मध्ये साध्यः पुनर्मनुः ॥००२॥

योगाख्यः सम्प्रदायो ऽयङ्कुलोत्सादेषु योजयेत् ।
आदौ मन्त्रपदन्दद्यान्मध्ये साध्यं नियोजयेत् ॥००३॥

[[८५]]
विश्वास-प्रस्तुतिः
रोधकः सम्प्रदायस्तु स्तम्भनादिषु योजयेत् ॥००४॥

अधोर्ध्वं याम्यवामे तु1 मध्ये साध्यन्तु योजयेत् ।
सम्पुटः सतु विज्ञेयो वश्याकर्षेषु योजयेत् ॥००५॥

मन्त्राक्षरं यदा साध्यं प्रथितञ्चाक्षराक्षरं ।
प्रथमः सम्प्रदायः स्यादाकृष्टिवशकारकः ॥००६॥

मन्त्राक्षरद्वयं लिख्य एकं साध्यक्षरं पुनः ।
विदर्भः सतु विज्ञेयो वश्याकाकर्षेषु योजयेत् ॥००७॥

आकर्षणाद् यत् कर्म वसन्ते चैव कारयेत् ।
तापज्वरे तथा वश्ये स्वाहा चाकर्षणे शुभं ॥००८॥

नमस्कारपदञ्चैव शान्तिवृद्धौ प्रयोजयेत् ।
पौष्टिकेषु वषट्कारमाकर्षे वशकर्मणि ॥००९॥

विद्वेषोच्चाटने मृत्यौ फट् स्यात् खण्डीकृतौ शुभे ।
लाभादौ मन्त्रदीक्षादौ वषट्कारस्तु सिद्धिदः ॥०१०॥

यमो ऽसि यमाराजो ऽसि कालरूपो ऽसि धर्मराट् ।
मयादत्तमिमं शत्रुमचिरेण निपातय ॥०११॥

निपातयामि यत्नेन निवृत्तो भव साधक ।
संहृष्टमनसा2 ब्रूयाद्देशिको ऽरिप्रसूदनः ॥०१२॥

पद्मे शुक्ले यमं प्रार्च्य होमादेतत् प्रसिद्ध्यति ।
आत्मानम्भैरवं ध्यात्वा ततो मध्ये कुलेश्वरीं ॥०१३॥

:न्
[[८६]]
विश्वास-प्रस्तुतिः
दुर्गे दुर्गे रक्षणीति दुर्गां प्रार्च्यारिहा भवेत् ॥०१४॥

जप्त्वा हसक्षमलवरयुम्भैरवीं घातयेदरिं ॥१५॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे षट्कर्माणि नामाष्टत्रिंशदधिकशततमो ऽध्यायः ॥ }