{अथ सप्तत्रिंशदधिकशततमो ऽध्यायः}
महामारीविद्या
ईश्वर उवाच
महामारीं प्रवक्ष्यामि विद्यां शत्रुविमर्दिनीं ।
:न्
[[८२]]
ॐ ह्रीं महामारि रक्ताक्षि कृष्णवर्णे
यमस्याज्ञाकरिणि सर्वभूतसंहारकारिणि अमुकं हन २ ॐ दह
ॐ मारि हृदयाय नमः । ॐ महामारि शिरसे स्वाहा । ॐ
कालरात्रि शिखायै वौषट् । ॐ कृष्णवर्णे खः कवचाय
विश्वास-प्रस्तुतिः
हुं । ॐ तारकाक्षि विद्युज्जिह्वे सर्वसत्त्वभयङ्करि रक्ष २
सर्वकार्येषु ह्रं त्रिनेत्राय चषट् । ॐ महामारि
सर्वभूतदमानि महाकालि अस्त्राय हुं फट्
एष न्यासी महादेवि कर्तव्यः साधकेन तु ॥००१॥
मूलम्

शवादिवस्त्रमादाय चतुरस्रन्त्रिहस्तकं ।
कृष्णवर्णां त्रिवक्त्राञ्च चतुर्बाहुं समालिखेत् ॥००२॥

पटे विचित्रवर्णैश् च धनुः शूलञ्च कर्तृकां1 ।
खट्वाङ्गन्धारयन्तीं च कृष्णाभं पूर्वमाननं ॥००३॥

तस्य दृष्टिनिपातेन भक्षयेदग्रतो नरं ।
द्वितीयं याम्यभागे तु रक्तजिह्वं भयानकं ॥००४॥

लेलिहानं करालं च दंष्ट्रोत्कटभयानकं ।
तस्य दृष्टिनिपातेन भक्ष्यमाणं हयादिकं ॥००५॥

तृतीयं च सुखं देव्याः श्वेतवर्णं गजादिनुत् ।
गन्धपुष्पादिमध्वाज्यैः पश्चिमाभिमुखं यजेत् ॥००६॥

[[८३]]
विश्वास-प्रस्तुतिः
मन्त्रस्मृतेरक्षिरोगशिरोरोगादि नश्यति ।
वश्याः स्युर्यक्षरक्षाश् च नाशमायान्ति शत्रवः ॥००७॥

समिधो निम्बवृक्षस्य ह्य् अजारक्तविमिश्रिताः ।
मारयेत् क्रोधसंयुक्तो होमादेव न संशयः ॥००८॥

परसैन्यमुखो भूत्वा सप्ताहं जुहुयाद्यदि ।
व्याधिभिर्गृह्यते सैन्यम्भङ्गो भवति वैरिणः ॥००९॥

समिधो ऽष्टसहस्रन्तु यस्य नाम्ना तु होमयेत् ।
अचिरान् म्रियते सोपि ब्रह्मणा यदि रक्षितः ॥०१०॥

उन्मत्तसमिधो रक्तविषयुक्तसहस्रकं ।
दिनत्रयं ससैन्यश् च नाशमायाति वै रिपुः ॥०११॥

राजिकालवर्णैर् होमाद्भङ्गो ऽरेः स्याद् दिनत्रयात् ।
खररक्तसमायुक्तहोमादुच्चाटयेद्रिपुं ॥०१२॥

काकरक्तसमायोगाद्धोमादुत्सादनं ह्य् अरेः ।
बधाय कुरुते सर्वं यत् किञ्चिन्मनसेप्सितं ॥०१३॥

अथ सङ्ग्रामसमये गजारूढस्तु साधकः ।
कुमारीद्वयसंयुक्तो मन्त्रसन्नद्धविग्रहः ॥०१४॥

दूरशङ्खादिवाद्यनि विद्यया ह्य् आभिमन्त्रयेत् ।
महामायापटं गृह्य उच्छेत्तव्यं रणाजिरे ॥०१५॥

परसैन्यमुखो भूत्वा दर्शयेत्तं महापटं ।
कुमारीर्भोजयेत्तत्र पश्चात्पिण्डीञ्च भ्रामयेत् ॥०१६॥

साधकश्चिन्तयेत्सैन्यम्पाषाणमिव निश् चलं ।
निरुत्साहं विभग्नञ्च मुह्यमानञ्च भावयेत् ॥०१७॥

[[८४]]
विश्वास-प्रस्तुतिः
त्रैलोक्यविजया माया दुर्गैवं भैरवी तथा ॥०१८॥

कुब्जिका भैरवो रुद्रो नारसिंहपटादिना ॥१९॥

{इत्य् आग्नेये महाओपुराणे युद्धजयार्णवे महामारी नाम सप्तत्रिंशदधिकशततमो ऽध्यायः ॥ }