१३६ युद्धजयार्णवीयनक्षत्रचक्रं

{अथ षट्त्रिंशदधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नक्षत्रचक्रं

ईश्वर उवाच
अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् ।
अश्विन्यादौ लिखेच्चक्रं त्रिनाडीपरिभूषितं ॥००१॥

मूलम्

नक्षत्रचक्रं

ईश्वर उवाच
अथ चक्रं प्रवक्ष्यामि यात्रादौ च फलप्रदम् ।
अश्विन्यादौ लिखेच्चक्रं त्रिनाडीपरिभूषितं ॥००१॥

विश्वास-प्रस्तुतिः

अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी ।
हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात् ॥००२॥

मूलम्

अश्विन्यार्द्रादिभिः पूर्वा ततश्चोत्तरफल्गुनी ।
हस्ता ज्येष्ठा तथा मूलं वारुणं चाप्यजैकपात् ॥००२॥

:न्

[[८१]]

विश्वास-प्रस्तुतिः

नाडीयं प्रथमा चान्या याम्यं मृगशिरस् तथा ।
पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं ॥००३॥

मूलम्

नाडीयं प्रथमा चान्या याम्यं मृगशिरस् तथा ।
पुष्यं भाग्यन्तथा चित्रा मैत्रञ्चाप्यं च वासवं ॥००३॥

विश्वास-प्रस्तुतिः

अहिर्व्रध्रं तृतीयाथ कृत्तिका रोहिणी ह्य् अहिः ।
चित्रा स्वाती विशाखा च श्रवणा रेवती च भं ॥००४॥

मूलम्

अहिर्व्रध्रं तृतीयाथ कृत्तिका रोहिणी ह्य् अहिः ।
चित्रा स्वाती विशाखा च श्रवणा रेवती च भं ॥००४॥

विश्वास-प्रस्तुतिः

नाडीत्रितयसञ्जुष्टग्रहाज् ज्ञेयं शुभाशुभं ।
चक्रम्फणीश्वरन्तत्तु1 त्रिनाडीपरिभूषितं ॥००५॥

मूलम्

नाडीत्रितयसञ्जुष्टग्रहाज् ज्ञेयं शुभाशुभं ।
चक्रम्फणीश्वरन्तत्तु1 त्रिनाडीपरिभूषितं ॥००५॥

विश्वास-प्रस्तुतिः

रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं ।
देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः ॥००६॥

मूलम्

रविभौमार्कराहुस्थमशुभं स्याच्छुभं परं ।
देशग्रामयुता भ्रातृभार्याद्या एकशः शुभाः ॥००६॥

अ, भ, कृ, रो, मृ, आ, पु, पु, अ, म, पू, उ, ह, चि, स्वा, वि, अ, ज्ये, मू, पू, उ,
अ, ध, श, पू, उ, रे । अत्र सप्तविंशतिनक्षत्राणि ज्ञेयानि

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे नक्षत्रचक्रं नाम षट्त्रिंशदधिकशततमो ऽध्यायः ॥ }


  1. मुष्टिमुद्गरसंयुक्तौ इति ज॥ । ऋष्टिमुद्गरयुक्तौ चेति ञ॥ ↩︎ ↩︎