{अथ चतुस्त्रिंशदधिकशततमो ऽध्यायः}
त्रैलोक्यविजयविद्या
ईश्वर उवाच
त्रैलोक्यविजयां वक्ष्ये सर्वयन्त्रविमर्दनीं1 ।
ॐ हूं क्षूं ह्रूं ॐ नमो भगवति दंष्ट्रिणि
भीमवक्त्रे महोग्ररूपे हिलि हिलि रक्तनेत्रे किलि किलि महानिस्वने कुलु ॐ
विद्युज्जिह्वे कुलु ॐ निर्मांसे कट कट गोनसाभरणे चिलि चिलि
शवमालाधारिणि द्रावय ॐ महारौद्रि सार्द्रचर्मकृताच्छदे2
विजृम्भ ॐ नृत्य असिलताधारिणि भृकुटीकृतापाङ्गे
विषमनेत्रकृतानने वसामेदोविलिप्तगात्रे कह २ ॐ हस २ क्रुद्ध २
ॐ नीलजीमूतवर्णे ॐ ह्राम् ह्रीं ह्रूं रौद्ररूपे हूं
ह्रीं क्लीं ॐ ह्रीं हूं ॐ आकर्ष ॐ धून २ ॐ हे
हः खः वज्रिणि हूं क्षूं क्षां क्रोधरूपिणि प्रज्वल २
ॐ भीमभीषणे भिन्द ॐ महाकाये च्छिन्द ॐ करालिनि किटि
:न्
[[७७]]
नीलवर्णां प्रेतसंस्थां विंशहस्तां यजेज्जये ॥००१॥
न्यासं कृत्वा तु पञ्चाङ्गं रक्तपुष्पाणि होमयेत् ।
सङ्ग्रामे सैन्यभङ्गः स्यात् त्रैलोक्यत्रिजयापाठात् ॥००२॥
ॐ बहुरूपाय स्तम्भय स्तम्भय ॐ मोहय ॐ सर्वशत्रून्
द्रावय ॐ ब्रह्माणमाकर्षय विष्णुमाकर्षय ॐ
माहेश्वरमाकर्षय ॐ इन्द्रं टालय ॐ पर्वतान् चालय ॐ
सप्तसागरान् शोषय ॐ छिन्द छिन्द बहुरूपाय नमः
भुजङ्गन्नाममृन्मूर्तिसंस्थं विद्यादरिन्ततः ॥३॥
{इत्य् आग्नेये महापुराणे युद्धजयार्णवे त्रैलोक्यविजयविद्या नाम चतुर्त्रिंशदधिकशततमो ऽध्यायः ॥ }