१३३ युद्धजयार्णवीयनानाबलानि

{अथ त्रयस्त्रिंशदधिकशततमो ऽध्यायः}

नानाबलानि

ईश्वर उवाच
गर्भजातस्य वक्ष्यामि क्षेत्राधिपस्वरूपकं ।
नातिदीर्घः कृशः स्थूलः समाङ्गो गौरपैतिकः ॥००१॥

[[७१]]

रक्ताक्षो गुणवान् शूरो गृहे सूर्यस्य जायते ।
सौभाग्यो मृदुसारश् च जातश् चन्द्रगृहोदये ॥००२॥
वाताधिको ऽतिलुब्धादिर्जातो भूमिभुवो गृहे ।
बुद्धिमान् सुभगो मानी जातः सौम्यगृहोदये ॥००३॥
वृहत्क्रोधश् च शुभगो जातो गुरुगृहे नरः ।
त्यागो भोगो च सुभगो जातो भृगुगृहोदये ॥००४॥
बुद्धिमाञ्छुभगो मानी जातश्चार्किगृहे नरः ।
सौम्यलग्ने तु सौम्यः स्यात् क्रूरः स्यात् क्रूरलग्नके ॥००५॥
दशाफलङ्गौरि वक्ष्ये नामराशौ तु संस्थितं ।
गजाश्वधनधान्यानि राज्यश्रीर्विपुला भवेत् ॥००६॥
पुनर्धनागमश्चापि दशायां भास्करस्य तु ।
दिव्यस्त्रीदा चन्द्रदशा भूमिलाभः सुखं कुजे ॥००७॥
भूमिर्धान्यं धनं बौधे गजाश्वादिधनं गुरौ ।
खाद्यपानधनं द्शुक्रे शनौ व्याध्यादिसंयुतः ॥००८॥
स्नानसेवादिनाध्वानं वाणिज्यं राहुर्दर्शने ।
वामनाडीप्रवाहे स्यान्नाम चेद्विषमाक्षरं ॥००९॥
तदा जयति सङ्ग्रामे शनिभौमससैंहिकाः ।
दक्षनाडीप्रवाहेर्के वाणिज्ये चैव निष्फला ॥०१०॥
सङ्ग्रामे जयमाप्नोति समनामा नरो ध्रुवं ।
अधश्चारे जयं विद्यादूर्ध्वचारे रणे मृतिं ॥०११॥

ॐ हूं ॐ ह्रूं ॐ स्फें अस्त्रं मोटय1 ॐ चूर्णय २
ॐ सर्वशत्रुं मर्दय २ ॐ ह्रूं ॐ ह्रः फट्

:न्

१ मोचयेति ख॥ , छ॥ च

[[७२]]

सप्तवारन्न्यसेन्मन्त्रं ध्यात्वात्मानन्तु भैर् अवं ।
चतुर्भुजन्दशभुजं विंशद्बाह्वात्मकं शुभं ॥०१२॥
शूलखट्वाङ्गहस्तन्तु खड्गकट्टारिकोद्यतं ।
भक्षणं परसैन्यानामात्मसैन्यपराङ्मुखं ॥०१३॥
सम्मुखं शत्रसैन्यस्य शतमष्टोत्तरं जपेत् ।
जपाड्डमरुकाच्छब्दाच्छस्त्रं त्यक्त्वा पलायते ॥०१४॥
परसैन्यं शृणु भङ्गं प्रयोगेन पुनर्वदे ।
श्मशानाङ्गारमादाय विष्टाञ्चोलूककाकयोः ॥०१५॥
कर्पटे प्रतिमां लिख्य साध्यस्तैवाक्षरं यथा ।
नामाथ नवधा लिख्य रिपोश् चैव यथाक्रमं ॥०१६॥
मूर्ध्नि वक्त्रे ललाटे च हृदये गुह्यपादयोः ।
पृष्ठे तु बाहुमध्ये तु1 नाम वै नवधा लिखेत् ॥०१७॥
मोटयेद्युद्धकाले तु2 उच्चरित्वा तु विद्यय ।
तार्क्ष्यचक्रं प्रवक्ष्यामि जयार्थं त्रिमुखाक्षरं3 ॥०१८॥
क्षिप ॐ स्वाहा तार्क्षात्मा शत्रुरोगविषादिनुत् ।
दुष्टभूतग्रहार्तस्य व्याधितस्यातुरस्य च ॥०१९॥
करोति यादृशङ्कर्म तादृशं सिद्ध्यते खगात् ।
स्थावरं जङ्गमञ्चैव लूताश् च कृत्रिमं विषं ॥०२०॥
तत्सर्वं नाशमायाति4 साधकस्यावलोकनात् ।

:न्

[[७३]]

पुनर्ध्यायेन्महातार्क्ष्यं द्विपक्षं मानुषाकृतिं ॥०२१॥
द्विभुजं वक्रचञ्चुं च1 गजकूर्मधरं प्रभुं ।
असङ्ख्योरगपादस्थमागच्छन्तं खमध्यतः ॥०२२॥
ग्रसन्तञ्चैव खादन्तं तुदन्तं चाहवे रिपून् ।
चञ्च्वाहताश् च द्रष्टव्याः केचित्पादैश् च चूर्णिताः ॥०२३॥
पक्षपातैश्चूर्णिताश् च केचिन्नष्टा दिशो दश ।
तार्क्ष्यध्यानान्वितो यश् च त्रिलोक्ये ह्य् अजयो भवेत्2 ॥०२४॥
पिच्छिकान्तु प्रवक्ष्यामि मन्त्रसाधनजां क्रियां ।

ॐ ह्रूं पक्षिन् क्षिप ॐ हूं सः महाबलपराक्रम
सर्वसैन्यं भक्षय २ ॐ मर्दय २ ॐ चूर्णय २ ॐ विद्रावय २
ॐ हूं खः ॐ भैरवो ज्ञापयति स्वाहा
अमुञ्चन्द्रग्रहणे तु जपङ्कृत्वा तु पिच्छिकां ॥०२५॥
मन्त्रयेद् भ्रामयेत्सैन्यं सम्मुखं गजसिंहयोः ।
ध्यानाद्रवान् मर्दयेच्च सिंहारूढो मृगाविकान् ॥०२६॥
शब्दाद्भङ्गं प्रवक्ष्यामि दूरं मन्त्रेण3 बोधयेत् ।
मातॄणां चरुकं दद्यात् कालरात्र्या विशेषतः ॥०२७॥
श्मशानभस्मसंयुक्तं मालती चामरी तथा4
कार्पासमूलमात्रन्तु तेन दूरन्तु बोधयेत् ॥०२८॥

ॐ अहे हे महेन्द्रि अहे महेन्द्रि भञ्ज हि ॐ जहि मसानंहि खाहि
खाहि किलि किलि किलि ॐ हुं फट्

:न्

[[७४]]

अरेर् नाशं दूरशब्दाज्जप्तया भङ्गविद्यया ।
अपराजिता च धुस्तूरस्ताभ्यान्तु तिलकेन हि ॥०२९॥

ॐ किलि किलि विकिलि इच्छाकिलि भूतहनि शङ्खिनि उभे दण्दहस्ते रौद्रि
माहेश्वरि उल्कामुखि ज्वालामुखि शङ्कुकर्णे शुष्कजङ्घे
अलम्बुषे हर ॐ सर्वदुष्टान् खन ॐ यन्मन्निरीक्षयेद्देवि
तांस्तान् मोहय ॐ रुद्रस्य हृदये स्थिता रौद्रि सौम्येन भावेन
आत्मरक्षान्ततः कुरु स्वाहा
वाह्यतो मातॄः संलिख्य सकलाकृतिवेष्टिताः ।
नागपत्रे1 लिखेद्विद्यां सर्वकामार्थसाधनीं ॥०३०॥
हस्ताद्यैर् धारिता पूर्वं ब्रह्मरुद्रेन्द्रविष्णुभिः ।
गुरुसङ्ग्रामकाले तु विद्यया रक्षिताः सुराः ॥०३१॥
रक्षया नारसिंह्या च भैरव्या शक्तिरूपया ।
सर्वे त्रैलोक्यमोहिन्या गौर्या देवासुरे रणे ॥०३२॥
वीजसम्पुटितं नाम कर्णिकायां दलेषु च ।
पूजाक्रमेण चाङ्गानि रक्षायन्त्रं2 स्मृतं शुभे ॥०३३॥
मृत्युञ्जयं प्रवक्ष्यामि नामसंस्कारमध्यग ।
कलाभिवेष्टितं पश्चात् सकारेण निबोधितं ॥०३४॥
जकारं विन्दुसंयुक्तं ओङ्कारेण समन्वितं ।
धकारोदरमध्यस्थं वकारेण निबोधितं3 ॥०३५॥

:न्

[[७५]]

चन्द्रसम्पुटमध्यस्थं सर्वदुष्टविमर्दकम्1
अथवा कर्णिकायाञ्च लिखेन्नाम च कारणम् ॥०३६॥
पूर्वे दले तथोङ्कारं स्वदक्षे चोत्तरे लिखेत् ।
आग्नेय्यादौ च हूङ्कारन्दले षोडशके स्वरान् ॥०३७॥
चतुस्त्रिंशद्दले काद्यान् वाह्ये मन्त्रञ्च मृत्युजित् ।
लिखेद्वैभूर्जपत्रे तु रोचनाकुङ्ग्कुमेन च ॥०३८॥
कर्पूरचन्दनाभ्याञ्च श्वेतसूतेण वेष्टयेत् ।
सिक्थकेन परिच्छाद्य कलशोपरि पूजयेत् ॥०३९॥
यन्त्रस्य2 धारणाद्रागाः शाम्यन्ति रिपवो मृतिः ।
विद्यान्तु भेलखीं वक्ष्ये विप्रयोगमृतेर्हरीं3 ॥०४०॥

ॐ वातले वितले विडालमुखि इन्द्रपुत्रि उद्भवो वायुदेवेन खीलि आजी
हाजा मयि वाह इहादि दुःखनित्यकण्ठोच्चैर् मुहूर्तान्वया अह
मां यस्महं उपाडि ॐ भेलखि ॐ स्वाहा
नवदुर्गासप्तजप्तान्मुखस्तम्भो मुखस्थितात् ।

ॐ चण्डि ॐ हूं फट् स्वाहा
गृहीत्वा सप्तजप्तं तु खद्गयुद्धे ऽपराजितः ॥०४१॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम त्रयस्त्रिंशदधिकशततमो ऽध्यायः ॥ }

:न्

[[७६]]


  1. बाहुमूले तु इति ग॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. मोचयेद्युद्धकाले तु इति ज॥ , झ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  3. जयार्थं भूमुखाक्षरमिति ख॥ , ग॥ , घ॥ , ङ॥ , छ॥ , ज॥
    च ↩︎ ↩︎ ↩︎ ↩︎

  4. नाशमाप्नोतीति ज॥ ↩︎ ↩︎