{अथ द्वात्रिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
सेवाचक्रं
ईश्वर उवाच
सेवाचक्रं प्रवक्ष्यामि लाभालाभानुसूचकं1 ।
पिता माता तथा भ्राता दम्पती च विशेषतः ॥००१॥
मूलम्

:न्
[[६८]]
विश्वास-प्रस्तुतिः
तस्मिंश् चक्रे तु विज्ञेयं यो यस्माल्लभते फलं ।
षडूर्ध्वाः स्थापयेद्रेखा भिन्नाश्चाष्तौ तु तिर्यगाः ॥००२॥

कोष्ठकाः पञ्चत्रिंशच्च तेषु वर्णान् समालिखेत् ।
स्वरान् पञ्च समुद्धृत्य स्पर्शान् पश्चात् समालिखेत् ॥००३॥

ककारादिहकारान्तान् हीनाङ्गांस्त्रीन्विवर्जयेत् ।
सिद्धः साध्यः सुसिद्धश् च अरिर्मृत्युश् च नामतः ॥००४॥

अरिर्मृत्युअश् च द्वावेतौ वर्जयेत् सर्वकर्मसु ।
एषां मध्ये यदा नाम लक्षयेत्तु प्रयत्नतः ॥००५॥

आत्मपक्षे2 स्थिताः सत्त्वाः सर्वे ते शुभदायकाः ।
द्वितीयः पोषकाश् चैव तृतीयश्चार्थदायकः ॥००६॥

आत्मनाशश् चतुर्थस्तु1 पञ्चमो मृत्युदायकः ।
स्थानमेवार्थलाभाय मित्रभृत्यादिवान्धवाः ॥००७॥

सिद्धः साध्यः सुसिद्धश् च सर्वे ते फलदायकाः ।
अरिर्भृत्यश् च द्वावेतौ वर्जयेत् सर्वकर्मसु3 ॥००८॥

अकारान्तं यथा प्रोक्तं अ+इ+उ+ए+ओ विदुस् तथा ।
पुनश् चैवांशकान् वक्ष्ये वर्गाष्टकसुसंस्कृतान् ॥००९॥

देवा अकारवर्गे दैत्याः कवर्गमाश्रिताः ।
नागाश् चैव चवर्गाः स्युर्गन्धवाश् च टवर्गजाः ॥०१०॥

[[६९]]
विश्वास-प्रस्तुतिः
तवर्गे ऋषयः प्रोक्ताः पवर्गे राक्षसाः स्मृताः ।
पिशाचाश् च यवर्गे च शवर्गे मानुषाः स्मृताः ॥०११॥

देवेभ्यो बलिनो दैत्या दैत्येभ्यः पन्नगास् तथा2 ।
पन्नगेभ्यश् च गन्धर्वा गन्धर्वादृषयो वराः ॥०१२॥

ऋषिभ्यो राक्षसाः शूरा राक्षसेभ्यः पिशाचकाः ।
पिशाचेभ्यो मानुषाः स्युर्दुर्बलं वर्जयेद्बली ॥०१३॥

पुनर्मित्रविभागन्तु ताराचक्रं क्रमाच्छृणु ।
नामाद्यक्षरमृक्षन्तु स्फुटं कृत्वा तु पर्वतः ॥०१४॥

ऋक्षे तु संस्थितास्तारा नवत्रिका यथाक्रमात् ।
जन्म सम्पद्विपत् क्षेमं नामर्क्षात्तारका इमाः ॥०१५॥

प्रत्यरा धनदा षष्ठी नैधनामैत्रके परे ।
परमैत्रान्तिमा तारा जन्मतारा त्वशोभना ॥०१६॥

सम्पत्तारा महाश्रेष्ठा विपत्तारा तु निष्फला ।
क्षेमतारा सर्वकार्ये प्रत्परा अर्थनाशिनी1 ॥०१७॥

धनदा राज्यलाभादि नैधना कार्यनाशिनी ।
मैत्रतारा च मित्राय परमित्रा हितावहा3 ॥०१८॥

ताराचक्रं ।
मात्रा वै स्वरसञ्ज्ञा स्यान्नाममध्ये क्षिपेत् प्रिये ।
विंशत्या च हरेद्भागं यच्छेषं तत् फलं भवेत् ॥०१९॥

उभयोर्त्रासमध्ये तु लक्षयेच्च धनं ह्य् ऋणं ।
हीनमात्रा ह्य् ऋणं ज्ञेयन्धनं मात्राधिकं पुनः ॥०२०॥

[[७०]]
विश्वास-प्रस्तुतिः
धनेन मित्रता नॄणां ऋणेनैव ह्य् उदासता ।
सेवाचक्रमिदं प्रोक्तं लाभालाभादिदर्शकं ॥०२१॥

मेषमिथुनयोः प्रीतिर्मैत्री मिथुनसिंहयोः ।
तुलासिंहौ महामैत्री एवं धनुर्घटे पुनः ॥०२२॥

मित्रसेवां न कुर्वीत मित्रौ मीनवृषौ मतौ ।
वृषकर्कटयोर्मैत्री कुलीरघटयोस् तथा ॥०२३॥

कन्यावृश्चिकयोरेवन्तथा मकरकीटयोः ।
मीनमकरयोर्मैत्री तृतीयैकादशे स्थिता ॥०२४॥

तुलामेषौ महामैत्री विद्विष्टो वृषवृश्चिकौ ।
मिथुनधनुषोः प्रीतिः कर्कटमकरयोस् तथा ॥०२५॥

मृगकुम्भकयोः प्रीतिः कनामीनौ तथैव च ॥२६॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे सेवाचक्रं नाम द्वात्रिंशदधिकशततमो ऽध्यायः ॥ }