{अथैकत्रिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
घातचक्रादिः
ईश्वर उवाच
प्रदक्षिणमकारादीन् स्वरान् पूर्वादितो लिखेत् ।
चैत्राद्यं भ्रमणाच्चक्रं प्रतिपत् पूर्णिमा तिथिः ॥००१॥
मूलम्

त्रयोदशी चतुर्दशी अष्टम्येका च सप्तमी ।
प्रतिपत्त्रयोदश्यन्तास्तिथयो द्वादश स्मृताः ॥००२॥

चैत्रचक्रे तु संस्पर्शाज्जयलाभादिकं विदुः ।
चिषमे तु शुभं ज्ञेयं समे चाशुभमीरितम् ॥००३॥

युद्धकाले समुत्पत्रे यस्य नम ह्य् उदाहृतम् ।
मात्रारूढन्तु यन्नाम आदित्यो गुरुरेव च ॥००४॥

:न्
[[६६]]
विश्वास-प्रस्तुतिः
जयस्तस्य सदाकालं सङ्ग्रामे चैव भीषणे ।
ह्रस्वनाम यदा योधो म्रियते ह्य् अनिवारितः1 ॥००५॥

प्रथमो दीर्घ आदिस्थो द्वितीयो मध्ये अन्तकः ।
द्वौ मध्येन प्रथमान्तौ जायेते नात्र संशयः ॥००६॥

पुनश्चान्ते यदा चादौ2 स्वरारूढन्तु दृश्यते ।
ह्रस्वस्य मरणं विद्याद् दीर्घस्यैव जयो भवेत् ॥००७॥

नरचक्रं प्रवक्ष्यामि ह्य् ऋक्षपिण्डात्मकं यथा ।
प्रतिमामालिखेत् पूर्वं पद्यादृक्षाणि विन्यसेत् ॥००८॥

शीर्षे त्रीणि मुखे चैकं द्वे ऋक्षे नेत्रयोर्न्यसेत् ।
वेदसङ्ख्यानि हस्ताभ्यां कर्णे ऋक्षद्वयं पुनः ॥००९॥

हृदये भूतसङ्ख्यानि षडृक्षाणि तु पादयोः ।
नाम ह्य् ऋक्षं स्फुटं कृट्वा चक्रमध्ये तु विन्यसेत् ॥०१०॥

नेत्रे शिरोदक्षकर्णे याम्यहस्ते च पादयोः ।
हृद्ग्रीवावामहस्ते तु पुनर्गुह्ये तु पादयोः ॥०११॥

यस्मिन्नृक्षे स्थितः सूर्यः सौरिर्भौमस्तु सैंहिकः ।
तस्मिन् स्थाने स्थिते विद्याद् घातमेव न संशयः ॥०१२॥

जयचक्रं प्रवक्ष्यामि आदिहान्तांश् च वै लिखेत् ।
रेखास्त्रयोदशालिख्य षड्रेखास्तिर्यगालिखेत् ॥०१३॥

दिग् ग्रहा मुनयः सूर्या ऋत्विग्रुद्रस्तिथिः क्रमात् ।
मूर्छनास्मृतिवेदर्क्षजिना3 अकडमा ह्य् अधः ॥०१४॥

[[६७]]
विश्वास-प्रस्तुतिः
आदित्याद्याः सप्तहृते नामान्ते बलिनो ग्रहाः ।
आदित्यसौरिभौमाख्या जये सौम्याश् च सन्धये ॥०१५॥

रेखा द्वादश चोद्धृत्य षट् च यास्यास्तथोत्तराः ।
मनुश् चैव तु1 ऋक्षाणि नेत्रे च रविमण्डलं ॥०१६॥

तिथयश् च रसा वेदा अग्निः सप्तदशाथवा ।
वसुरन्ध्राः समाख्याता अकटपानधो न्यसेत् ॥०१७॥

एकैकमक्षरन्न्यस्त्वा शेषाण्येवङ्क्रमान् न्यसेत् ।
नामाक्षरकृतं पिण्डं वसुभिर्भाजयेत्ततः ॥०१८॥

वायसान्मण्डलो ऽत्यग्रो मण्डलाद्रासभो वरः ।
रासभाद्वृषभः श्रेष्ठा वृषभात् कुञ्जरो वरः ॥०१९॥

कुञ्जराच्चैव पुनः सिंहः सिंहाश् चैव खरुर्वरः ।
खरोश् चैव बली धूम्रः एवमादि बलाबलं ॥०२०॥

{इत्य् आग्नेये महापुराणे घातचक्रादिर्नामैकत्रिंशदधिकशततमो ऽध्यायः ॥ }