{अथ त्रिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
घातचक्रं
ईश्वर उवाच
मण्डलानि प्रवक्ष्यामि चतुर्धा विजयाय हि ।
कृत्तिका च मघा पुष्पं पूर्वा चैव तु फल्गुनी ॥००१॥
मूलम्

विशाखा भरणी चैव पूर्वभाद्रपदा तथा ।
आग्नेयमण्डलं भद्रे तस्य वक्ष्यामि लक्षणं ॥००२॥

यद्यत्र चलते वायुर्वेष्टनं शशिसूर्ययोः ।
भूमिकम्पो ऽथ निर्घातो ग्रहणं चन्द्रसूर्ययोः ॥००३॥

धूमज्वाला दिशां दाहः केतोश् चैव प्रदर्शनं ।
रक्तवृष्टिश्चोपतापः पाषाणपतनन्तथा ॥००४॥

नेत्ररोगो ऽतिसारश् च अग्निश् च प्रबलो भवेत् ।
स्वल्पक्षीरास् तथा गावः स्वल्पपुष्पफला द्रुमाः ॥००५॥

विनाशश् चैव शस्यानां स्वल्पवृष्टिं विनिर्दिशेत् ।
चातुर्वर्णाः प्रपीड्यन्ते क्षुधार्ता अखिला नराः ॥००६॥

सैन्धवा यामुनाश् चैव गुर्जका भोजवाह्णिकाः ।
जालन्धरं च काश्मीरं सप्तमञ्चोत्तरापथम् ॥००७॥

देशाश् चैते विनश्यन्ति तस्मिन्नुत्पातदर्शने ।
हस्ता चित्रा मघा स्वाती मृगो वाथ पुनर्वसुः ॥००८॥

[[६४]]
विश्वास-प्रस्तुतिः
यदात्र भवते1 किञ्चिद्वायव्यन्तं विनिर्दिशेत् ॥००९॥

नष्टधर्माः प्रजाः सर्वा हाहाभूता विचेतसः ।
डाहलः कामरूपञ्च कलिङ्गः कोशलस् तथा ॥०१०॥

अयोध्या च अवन्ती च नश्यन्ते कोङ्कणान्ध्रकाः ।
अश्लेषा चैव मूलन्तु पूर्वाषाढा तथैव च ॥०११॥

रेवती वारुणं ह्य् ऋक्षन्तथा भाद्रपदोत्तरा ।
यदात्र चलते[^२] किञ्चिद्वारुणं तं विनिर्दिशेत् ॥०१२॥

बहुक्षीरघृता गावो बहुपुष्पफला द्रुमाः ।
आरोग्यं तत्र जायेत बहुशस्या च मेदिनी ॥०१३॥

धान्यानि च समर्घानि सुखिक्षं पार्थिव भवेत् ।
प्परस्परं नरेन्द्राणां सङ्ग्रामो दारुणो भवेत् ॥०१४॥

ज्येष्ठा च रोहिणी चैव अनुराधा च वैष्णवम् ।
धनिष्ठा चोत्तराषाढा अभिजित् सप्तमन्तथा ॥०१५॥

यदात्र शलते[^३] किञ्चिन् माहेन्द्रं तं विनिर्दिशेत् ।
प्रजाः समुदितास्तस्मिन् सर्वरोगविवर्जिताः ॥०१६॥

सन्धिं कुर्वन्ति राजानः सुभिक्षं पार्थिवं शुभम् ।
ग्रामस्तु द्विविधो ज्ञेयो मुखपुच्छकरो महान् ॥०१७॥

चन्द्रो राहुस् तथादित्य एकराशौ यदि स्थितः2 ।
मुखग्रामस्तु विज्ञेयो यामित्रे पुच्छ उच्यते ॥०१८॥

:न्
२,३ यदात्र लभते इति छ॥
[[६५]]
विश्वास-प्रस्तुतिः
भानोः पञ्चदशे ह्य् ऋक्षे यदा चरति चन्द्रमाः ।
तिथिच्छेदे1 तु सम्प्राप्ते सोमग्रामं विनिर्दिशेत् ॥०१९॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे मण्डलं नाम त्रिंशदधिकशततमो ऽध्यायः ॥ }