{अथोनत्रिंशदधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
अर्घकाण्डम्
ईश्वर उवाच
अर्घमानं प्रवक्ष्यामि उल्कापातो ऽथ भूश् चला ।
निर्घातो ग्रहणं वेशो दिशां दाहो भवेद्यदा ॥००१॥
मूलम्

लक्षयेन्मासि मास्येवं यद्येते स्युश् च चैत्रके ।
अलङ्कारादि सङ्गृह्य षड्भिर्मासैश् चतुर्गुणम् ॥००२॥

वैशाखे चाष्टमे मासि षड्गुणं सर्वसङ्ग्रहं ।
ज्यैष्ठे मासि तथाषाढे यवगोधूमधान्यकैः ॥००३॥

श्रावणे घृततैलाद्यैर् आश्विने वस्त्रधान्यकैः ।
कार्त्तिके धान्यकैः क्रीतैर् मासे स्यान्मार्गशीर्षके ॥००४॥

पुष्ये कुङ्कुमगन्धाद्यैर् लाभो धान्यैश् च माघके ।
गन्धाद्यैः फाल्गुने क्रीतैर् अर्घकाण्डमुदाहृतम् ॥००५॥

{इत्य् आग्नेये महापुराणे अर्घकाण्डं नाम ऊनत्रिंशदधिकशततमो ऽध्यायः ॥ }
[[६३]]