{अथ अष्टाविंशत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
कोटचक्रम्
ईअवर उवाच
कोटचक्रं प्रवक्ष्यामि चतुरस्रं पुरं लिखेत् ।
चतुरस्रं पुनर्मध्ये तन्मध्ये चतुरस्रकम् ॥००१॥
मूलम्

[[६१]]
विश्वास-प्रस्तुतिः
नाडीत्रितयचिह्नाढ्यं मेषाद्याः पूर्वदिङ्मुखाः ।
कृत्तिका पूर्वभागे तु अश्लेषाग्नेयगोचरे ॥००२॥

भरणी दक्षिणे देया विशाखां नैरृते न्यसेत् ।
अनुराधां पश्चिमे च श्रवणं वायुगोचरे ॥००३॥

धन्बिष्ठाञ्चोत्तरे न्यस्य ऐशान्यां रेवतीं तथा ।
वाह्यनाड्यां स्थितान्येव अष्टौ ह्य् ऋक्षाणि यत्नतः ॥००४॥

रोहिणीपुष्यफल्गुण्यः स्वाती ज्येष्ठा क्रमेण तु ।
अभिजिच्छततारा तु अश्विनी मध्यनाडिका ॥००५॥

कोटमध्ये तु या नाडी कथयामि प्रयत्नतः ।
मृगश्चाभ्यन्तरे पूर्वं तस्याग्नेये पुनर्वसुः ॥००६॥

उत्तराफल्गुनी याम्ये चित्रा नैरृतसंस्थिता ।
मूलन्तु पश्चिमे न्यस्योत्तराषाढान्तु वायवे ॥००७॥

पूर्वभाद्रपदा सौम्ये रेवती ईशगोचरे ।
कोटस्याभ्यन्तरे नाडी ह्य् ऋक्षाष्टकसमन्विता ॥००८॥

आर्द्रा हस्ता तथाषाढा चतुष्कञ्चोत्तरात्रिकम् ।
मध्ये स्तम्भचतुष्कन्तु दद्यात् कोटस्य कोटरे ॥००९॥

एवं दुर्गस्य विन्यासं वाह्ये स्थानं दिशाधिपात् ।
आगन्तुको यदा योद्धा ऋक्षवान् स्यात्फलान्वितः ॥०१०॥

कोटमध्ये ग्रहाः सौम्या यदा ऋक्षान्विताः पुनः ।
जयं मध्यस्थितानान्तु भङ्गमागामिनो विदुः ॥०११॥

प्रवेशभे प्रवेष्टव्यं निर्गमभे च निर्गमेत् ।
भृगुः सौम्यस् तथा भौम ऋक्षान्तं सकलं यदा ॥०१२॥

[[६२]]
विश्वास-प्रस्तुतिः
प्रवेशर्क्षचतुष्के तु सङ्ग्रामञ्चारभेद् यदा ॥०१३॥

तदा सिद्ध्यति तद्दुर्गं न कुर्यात्तत्र विस्मयम् ॥१४॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे कोटचक्रं नामाष्टाविंशत्यधिकशततमो ऽध्यायः ॥ }