१२७ युद्धजयार्णवीयनानाबलानि

{अथ सप्तविंशत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नानाबलानि

ईश्वर उवाच1
विष्कुम्भे घटिकास्तिस्रः शूले पञ्च विवर्जयेत्2
षट् षट्3 गण्डे ऽनिगण्डे च नव व्याद्यातवज्रयोः ॥००१॥

मूलम्

परिघे च व्यतीपाते उभयोरपि तद्दिनम् ।
वैधृते तद्दिनञ्चैव यात्रायुद्धादिकन्त्यजेत् ॥००२॥

ग्रहैः शुभाशुभं वक्ष्ये देवि मेषादिराशितः4
चन्द्रशुक्रौ च जन्मस्थ्यौ वर्जितौ शुभदायकौ ॥००३॥

:न्

[[५९]]

विश्वास-प्रस्तुतिः

द्वितीयो मङ्गलो ऽथार्कः सौरिश् चैव तु सैंहिकः ।
द्रव्यनाशमलाभञ्च आहवे भङ्गमादिशेत् ॥००४॥

सोमो बुधो भृगुर्जीमो द्वितीयस्थाः शुभावहाः ।
तृतीयस्थो यदा भानुः शनिर्भौमो भृगुस् तथा ॥००५॥

बुधश् चैवेन्दू राहुश् च सर्वे ते फलदा ग्रहाः ।
बुधशुक्रौ चतुर्थौ तु शेषाश् चैव भयावहाः ॥००६॥

पञ्चमस्थो यदा जीवः शुक्रः सौम्यश् च चन्द्रमाः ।
ददेत5 चेप्सितं लाभं षष्ठे स्थाने शुभो रविः ॥००७॥

चन्द्रः सौरिर्मङ्गलश् च ग्रहा देवि स्वराशितः ।
बुधश् च शुभदः षष्ठे त्यजेत् षष्ठं गुरुं
भृगुं ॥००८॥

सप्तमो ऽर्कः शनिर्भौमो राहुर्हान्यै सुखाय च ।
जीवो भृगुश् च सौम्यश् च ज्ञशुक्रो चाष्टमौ शुभौ ॥००९॥

शेषा ग्रहास् तथा हान्यै ज्ञभृगू नवमौ शुभौ ।
शेषा हान्यै च लाभाय दशमौ भृगुभास्करौ ॥०१०॥

शनिर्भौमश् च राहुश् च चन्द्रः सौम्यः शुभावहः ।
शुभाश् चैकादशे सर्वे वर्जयेद्दशमे1 गुरुम् ॥०११॥

बुधशुक्रौ द्वादशस्थौ शेषान् द्वादशगांस्त्यजेत् ।
अहोरात्रे द्वादश स्यू राशयस्तान् वदाम्यहम् ॥०१२॥

मीनो मेषो ऽथ मिथुनञ्चतस्रो नाडयो वृषः ।
षट् कर्कसिंहकन्याश् च तुला पञ्च च वृश्चिकः ॥०१३॥

धनुर्नक्रो घटश् चैव सूर्यगो राशिराद्यकः ।

:न्

[[६०]]

विश्वास-प्रस्तुतिः

चरस्थिरद्विःस्वभावा मेषाद्याः स्युर्यथाक्रमम् ॥०१४॥

कुलीरो मकरश् चैव तुलामेषादयश् चराः ।
चरकार्यं जयं काममाचरेच्च शुभशुभम् ॥०१५॥

मूलम्

कुलीरो मकरश् चैव तुलामेषादयश् चराः ।
चरकार्यं जयं काममाचरेच्च शुभशुभम् ॥०१५॥

विश्वास-प्रस्तुतिः

स्थिरो वृषो हरिः कुम्भो वृश्चिकः स्थिरकार्यके ।
शीघ्रः समागमो नास्ति रोगार्तो नौव मुच्यते ॥०१६॥

मिथुनं कन्यका मौनी धनुश् च द्विःस्वभावकः ।
द्विःस्वभावाः शुभाश् चैते सर्वकार्येषु नित्यशः ॥०१७॥

यात्रावाणिज्यसङ्ग्रामे विवाहे राजदर्शने ।
वृद्धिं जयन्तथा लाभं युद्धे जयमवाप्नुयात् ॥०१८॥

अश्विनी विंशताराश् च तुरगस्याकृतिर्यथा ।
यद्यत्र कुरुते वृष्टिमेकरात्रं प्रवर्षति ॥०१९॥

यमभे तु यदा वृष्टिः पक्षमेकन्तु वर्षति ॥२०॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाबलानि नाम सप्तविंशत्यधिकशततमो ऽध्यायः ॥ }

  1. अग्निरुवाचेति छ॥ ↩︎ ↩︎ ↩︎ ↩︎

  2. पञ्च च वर्जयेदिति ख॥ , ग॥ , घ॥ , ङ॥ च ↩︎ ↩︎

  3. षट् च गण्डे ऽतिगण्डे चेति ख॥ , घ॥ , छ॥ च । सप्त
    गण्डेतिगण्डे चेति ग॥ , ङ॥ च ↩︎ ↩︎

  4. मेषादिराशिभिरिति ज॥ ↩︎ ↩︎

  5. जातके चापीति ख॥ ↩︎ ↩︎