१२६ युद्धजयार्णवीयनक्षत्रनिर्णयः

{अथ षड्विंशत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

नक्षत्रनिर्णयः

ईश्वर उवाच
वक्ष्याम्यृक्षात्मकं पिण्डं शुभाशुभविबुद्धये ।
यस्मिन्नृक्षे भवेत् सूर्यस्तदादौ त्रीणि मूर्धनि1 ॥००१॥

मूलम्

एकम्मुखे द्वयन्नेत्रे हस्तपादे चतुष्टयं ।
हृदि पञ्च सुते जानौ आयुर्बुद्धिं विचिन्तयेत् ॥००२॥

शिरस्थे तु भवेद्राज्यं पिण्डतो वक्त्रयोगतः ।
नेत्रयोः कान्तसौभाग्यं हृदये द्रव्यसङ्ग्रहः ॥००३॥

हस्ते धृतं तस्करत्वङ्गतासुरध्वगः2 पदे ।
कुम्भाष्तके भानि लिख्य3 सूर्यकुम्भस्तु रिक्तकः ॥००४॥

अशुभः सूर्यकुम्भः स्याच्छुभः पूर्वादिसंस्थितः ।
फणिराहुं4 प्रवक्ष्यामि जयाजयविवेकदं ॥००५॥

अष्टाविंशांल्लिखेद्विन्दून् पुनर्भाज्यस्त्रिभ्स्त्रिभिः ।
अथ ऋक्षाणि चत्वारि रेखास्तत्रैव दापयेत् ॥००६॥

यस्मिन्नृक्षे स्थितो राहुस्तदृक्षं फणिमूर्धनि5
तदादि विन्यसेद् भानि सप्तविंशक्रमेण तु ॥००७॥

वक्त्रे सप्तगते ऋक्षे म्रियते सर्व आहवे ।

:न्

[[५५]]

विश्वास-प्रस्तुतिः

स्कन्धे भङ्गं विजानीयात्सप्तमेषु च मध्यतः ॥००८॥

उदरस्थेन1 पूजा च जयश् चैवात्मनस् तथा ।
कटिदेशे स्थिते योधे आहवे हरते परान् ॥००९॥

पुच्छस्थितेन कीर्तिः स्याद्राहुदृष्टे च भे मृतिः ।
पुनरन्यं प्रवक्ष्यामि रविराहुबलन्तव ॥०१०॥

रविः शुक्रो बुधश् चैव सोमः सौरिर्गुरुस् तथा2
लोहितः संहिकश् चैव एते यामार्धभागिनः ॥०११॥

सौरिं रविञ्च राहुञ्च कृत्वा यत्नेन पृष्ठतः ।
स जयेत् सैन्यसङ्घातं द्यूतमध्वानमाहवं ॥०१२॥

रोहिणी चोत्तरास्तिस्रो मृगः पञ्च स्थिराणि हि ।
अश्विनी रेवती स्वाती धनिष्ठा शततारका ॥०१३॥

क्षिप्राणि पञ्चभान्येव यात्रार्थी चैव3 योजयेत् ।
अनुराधाहस्तमूलं मृगः पुष्यं पुनर्वसुः ॥०१४॥

सर्वकार्येषु चैतानि ज्येष्ठा चित्रा विशाखया ।
पुर्वास्तिस्रो ऽग्निर्भरणी मघार्द्राश्लेषादारुणाः ॥०१५॥

स्थावरेषु स्थिरं ह्य् ऋक्षं यात्रायां क्षिप्रमुत्तमं ।
सौभाग्यार्थे मृदून्येव उग्रेषूग्रन्तु कारयेत् ॥०१६॥

दारुणे दारुणं कुर्याद्वक्ष्ये चाधोमुखादिकं ।
कृत्रिका भरण्यश्लेषा विशाखा पितृनैरृतम् ॥०१७॥

[[५६]]

विश्वास-प्रस्तुतिः

पूर्वात्रयमधोवक्त्रं कर्म चाधोमुखञ्चरेत्1
एषु कूपतडागादि विद्याकर्म भिषक्क्रिया ॥०१८॥

स्थापनन्नौकाभूपादिविधानं2 खननन्तथा ।
रेवती चाश्विनी चित्रा हस्ता स्वाती पुनर्वसुः ॥०१९॥

अनुराधा मृगो ज्येष्ठा नव वै पार्श्वतोमुखाः ।
एषु राज्याभिषेकञ्च पट्टबन्धङ्गजाश्वयोः ॥०२०॥

आरामगृहप्रासादं प्राकारं क्षेत्रतोरणं ।
ध्वजचिह्नपताकाश् च3 सर्वानेतांश् च कारयेत् ॥०२१॥

द्वादशी सूर्यदग्धा तु चन्द्रेणैकदशी तथा ।
भौमेन दशमी दग्धा तृतीया वै बुधेन च ॥०२२॥

षष्टी च गुरुणा दग्धा द्वितीया भृगुणा तथा ।
सप्तमी सूर्यपुत्रेण त्रिपुष्करमथो वदे ॥०२३॥

द्वितीया द्वादशी चैव सप्तमी वै तृतीयया4
रविर्भौमस् तथा5 शौरिः षडेतास्तु त्रिपुष्कराः6 ॥०२४॥

विशाखा कृत्तिका चैव उत्तरे द्वे पुनर्वसुः ।
पूर्वभाद्रपदा चैव षडेते तु त्रिपुष्कराः ॥०२५॥

लाभो हानिर्जयो वृद्धिः पुत्रजन्म तथैव च ।
नष्टं भ्रष्टं विनष्टं वा तत्सर्वन्त्रिगुणं7 भवेत् ॥०२६॥

[[५७]]

विश्वास-प्रस्तुतिः

अश्विनी भरणी चैव अश्लेषा पुष्यमेव च ।
खातिश् चैव विशाखा च श्रवणं सप्तमं पुनः ॥०२७॥

एतानि दृढचक्षूंषि पश्यनति च दिशो दश ।
यात्रासु दूरगस्यापि आगमः पुण्यगोचरे ॥०२८॥

आषाढे रेवती चित्रा केकराणि पुनर्वसुः ।
एषु पञ्चसु ऋक्षेषु1 निर्गतस्यागमो भवेत् ॥०२९॥

कृत्तिका रोहिणी सौम्यं फल्गुनी च मघा तथा ।
मूलं ज्येष्ठानुराधा च धनिष्ठा शततारकाः ॥०३०॥

पूर्वभाद्रपदा चैव चिपिटानि च तानि हि2
अध्वानं व्रजमानस्य पुनरेवागमो भवेत् ॥०३१॥

हस्त उत्तरभाद्रश् च आर्द्राषाढा तथैव च ।
नष्टार्थाश् चैव दृश्यन्ते सङ्ग्रामो नैव विद्यते ॥०३२॥

पुनर्वक्ष्यामि गण्डान्तमृक्षमध्ये यथा स्थितम् ।
रेवत्यन्ते चतुर्नाडी3 अश्विन्यादिचतुष्टयम् ॥०३३॥

उभयोर्याममात्रन्तु वर्जयेत्तत् प्रयत्नतः ।
अश्लेषान्ते मघादौ तु घटिकानां चतुष्टयम् ॥०३४॥

द्वितीयं गण्डमाख्यातं तृतीयं भैरवि शृणु ।
ज्येष्ठाभमूलयोर्मध्ये उग्ररूपन्तु यामकम् ॥०३५॥

[[५८]]

विश्वास-प्रस्तुतिः

न कुर्याच्छुभकर्माणि यदीच्छेदात्मजीवितं ।
दारके जातकाले च1 म्रियेते पितृमातरो ॥०३६॥

{इत्य् आग्नेये महापुराणे नक्षत्रनिर्णयो नाम षड्विंशत्यधिकशततमो ऽध्यायः ॥ }

  1. त्रीणि मस्तके इति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. गतायुरध्वगः पदे इति ख॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. भानि लिखेदिति घ॥ , ज॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  4. कालराहुमिति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎

  5. कालमूर्धनीति ङ॥ , ज, च ↩︎ ↩︎ ↩︎ ↩︎

  6. षडेतास्त्रिषु पुष्करा इति क॥ , ख॥ , ङ॥ , छ॥ च ↩︎ ↩︎

  7. तत्सर्वं द्विगुणमिति ख॥ , छ॥ च ↩︎ ↩︎