{अथ पञ्चविंशत्यधिकशततमो ऽध्यायः}
युद्धजयार्णवीयनानाचक्राणि
ईश्वर उवाच
ॐ ह्रीं कर्णमोटानि बहुरूपे बहुदंष्ट्रे ह्रूं
:न्
[[४८]]
विश्वास-प्रस्तुतिः
फट्1 ॐ हः ॐ ग्रस ग्रस कृन्त कृन्त छक छक छक
ह्रूं फट्2 नमः
पठ्यमानो ह्य् अयं मन्त्रः क्रुद्धः संरक्तलोचनः ।
मारणे पातने वापि मोहनोच्चाटने भवेत् ॥००१॥
मूलम्

कर्णमोटी महाविद्या सर्ववर्णेषु रक्षिका ।
नानाविद्या
पञ्चोदयं प्रवक्ष्यामि स्वरोदयसमश्रितं ॥००२॥

नाभिहृद्यन्तरं यावत्तावच्चरति मारुतः ।
उच्चाटयेद्रणादौ तु कर्णाक्षीणि प्रभेदयेत् ॥००३॥

करोति साधकः क्रुद्धो जपहोमपरायणः ।
हृदयात्पायुकं कण्ठं ज्वरदाहारिमारणे3 ॥००४॥

कण्ठोद्भवो रसो वायुः शान्तिकं पौष्टिकं रसं ।
दिव्यं स्तम्भं समाकर्षं गन्धो नासान्तिको भ्रुवः ॥००५॥

गन्धलीनं मनः कृत्वा स्तम्भयेन्नात्र संशयः ।
स्तम्भनं कीलनाद्यञ्च करोत्येव हि साधकः ॥००६॥

चण्डघण्टा कराली च सुमुखी दुर्मुखी तथा ।
रेवती प्रथमा घोरा वायुचक्रेषु ता यजेत् ॥००७॥

उच्चाटकारिका देव्यः स्थितास्तेजसि संस्थिताः ।
सौम्या च भीषणी देवी जया च विजया तथा ॥००८॥

अजिता चापराजिता महाकोटी च रौद्रया ।
शुष्ककाया प्राणहरा रसचक्रे स्थिता अमूः ॥००९॥

१,२ ॐ हुं फडिति ख॥
[[४९]]
विश्वास-प्रस्तुतिः
विरूपाक्षी परा दिव्यास् तथा चाकाशमातरः ।
संहारी जातहारी च दंष्ट्राला शुष्करेवती ॥०१०॥

पिपीलिका पुष्टिहरा महापुष्टिप्रवर्धना ।
भद्रकाली सुभद्रा च हद्रभीमा सुभद्रिका ॥०११॥

स्थिरा च निष्ठुरा दिव्या निष्कम्पा गदिनी तथा ।
द्वात्रिंशन्मातरश् चक्रे अष्टाष्टक्रमशः स्थिताः ॥०१२॥

एक एव रविश् चन्द्र एकश् चैकैकशक्तिका ।
भूतभेदेन तीर्थानि1 यथा तोयं महीतले ॥०१३॥

प्राण एको मण्डलैश् च भिद्यते भूतपञ्जरे ।
वामदक्षिणयोगेन दशधा सम्प्रवर्तते ॥०१४॥

विन्दुमुण्डविचित्रञ्च तत्त्ववस्त्रेण वेष्टितं ।
ब्रह्माण्डेन2 कपालेन पिवेत परमामृतं ॥०१५॥

पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।
अ+आकचटतपयाः श आस्यो वर्ग ईरितः ॥०१६॥
मूलम्
पञ्चवर्गबलाद्युद्धे जयो भवति तच्छृणु ।
अ+आकचटतपयाः श आस्यो वर्ग ईरितः ॥०१६॥
विश्वास-प्रस्तुतिः
इ+ईखछठथफराः षो वर्गश् च द्वितीयकः ।
उ+ऊगजडदबलाः सो वर्गश् च तृतीयकः ॥०१७॥
मूलम्
इ+ईखछठथफराः षो वर्गश् च द्वितीयकः ।
उ+ऊगजडदबलाः सो वर्गश् च तृतीयकः ॥०१७॥
विश्वास-प्रस्तुतिः
ए+ऐघझढधभवाः सो वर्गश् च चतुर्थकः ।
ओ औ अं अः ङञणना मो वर्गः पञ्चमो भवेत् ॥०१८॥

वर्णाश्चाभ्युदये नॄणां चत्वारिंशच्च पञ्च च ।
बालः कुमारो युवा स्याद्वृद्धो मृत्युश् च नामतः ॥०२०॥

[[५०]]
विश्वास-प्रस्तुतिः
आत्मपीदा शोषकः स्यादुदासीनश् च कालकः ।
कृत्तिका प्रतिपद्भौम आत्मनो लाभदः स्मृतः ॥०२०॥

षष्ठी भौमो मघा पीडा आर्द्रा चैकादशी कुजः ।
मृत्युर्मघा द्वितीया ज्ञो लाभश्चार्द्रा च सप्तमी ॥०२१॥

बुधे हानिर्भरणी ज्ञः श्रवणं काल ईदृशः ।
जीवो लाभाय च भवेत्तृतीया पूर्वफल्गुनी ॥०२२॥

जीवो ऽष्टमी1 धनिष्ठार्द्रा जीवो ऽश्लेषा त्रयोदशी ।
मृत्यौ शुक्रश् चतुर्थी स्यात् पूर्वभाद्रपदा श्रिये ॥०२३॥

पूर्वाषाढा च नवमी शुक्रः पीडाकरो भवेत् ।
भरणी भूतजा शुक्रो यमदण्डो हि हानिकृत् ॥०२४॥

कृत्तिकां पञ्चमी मन्दो लाभाय तिथिरीरिता ।
अश्लेषा दशमी मन्दो योगः पीडाकरो भवेत्2 ॥०२५॥

मघा शनिः पूर्णिमा च योगो भृत्युकरः स्मृतः ।
तिथियोगः
पूर्वोत्तराग्निनैरृत्यदक्षिणानिलचन्द्रमाः3 ॥०२६॥

ब्रह्माद्याः स्युर्दृष्टयः स्युः4
प्रतिपन्नवमीमुखाः ।
राशिभिः सहिता दृष्टा ग्रहाद्याः सिद्धये स्मृताः ॥०२७॥

मेषाद्याश् चतुरः कुम्भा जयः पूर्णे ऽन्यथा मृतिः ।
सूर्यादिरिक्ता पूर्णा च क्रमादेवम्प्रदापयेत् ॥०२८॥

[[५१]]
विश्वास-प्रस्तुतिः
रणे सूर्ये फलं नास्ति सोमे भङ्गः प्रशाम्यति ।
कुजेन कलहं विद्याद्बुधः कामाय वै गुरुः ॥०२९॥

जयाय मनसे1 शुक्रो मन्दे भङ्गो रणे भवेत् ।
देयानि पिङ्गलाचक्रे सूर्यगानि च भानि हि ॥०३०॥

मुखे नेत्रे ललाटे ऽथ शिरोहस्तोरुपादके ।
पादे मृतिस्त्रिऋक्षे स्यान्त्रीणि पक्षे ऽर्थनाशनम् ॥०३१॥

मुखस्थे च भवेत्यौडा शिरस्थे कार्यनाशनम् ।
कुक्षिस्थिते फलं स्याच्च राहुचक्रं वदाम्यहम् ॥०३२॥

इन्द्राच्च नैरृतङ्गच्छेत्रैरृतात्सोममेव च ।
सोमाद्धुताशनं वह्नेराप्यमाप्याच्छिवालयं ॥०३३॥

रुद्राद्यमं यमाद्वायुं वायोश् चन्द्रं व्रजेत् पुनः ।
भुङ्क्ते चतस्रो नाड्यस्तु राहुपृष्टे जयो रणे ॥०३४॥

अग्रतो मृत्युमाप्नोति तिथिराहुं वदामि ते ।
आग्नेयादिशिवान्तं च पूर्णिमामादितः प्रिये ॥०३५॥

पूर्वे कृष्णाष्टमीं यावत् राहुदृष्टौ भयो भवेत् ।
ऐशान्याग्नेयनैरृत्यवायव्ये फणिराहुकः ॥०३६॥

मेषाद्या दिशि पूर्वादौ यत्रादित्यो ऽग्रतो मृतिः ।
तृतीया कृष्णपक्षे तु सप्तमी दशमी तथा ॥०३७॥

चतुर्दशी तथा शुक्रे चतुर्थ्येकादशी तिथिः ।
पञ्चदशी विष्टयस्युः पूर्णिमाग्नेयवायवे ॥०३८॥

[[५२]]
विश्वास-प्रस्तुतिः
गृध्रोलुकश्येनकाश् च पिङ्गलः कौशिकः क्रमात् ॥०३९॥

साससश् च मयूरश् च गोरङ्कुः पक्षिणः स्मृताः ।
आदौ साध्यो हुतो मन्त्र1 उच्चाटे पल्लवः स्मृतः ॥०४०॥

वश्ये ज्वरे तथाकर्षे प्रयोगः सिद्धिकारकः ।
शान्तो प्रीतो नमस्कारो वौषट् पुष्टो वशादिषु ॥०४१॥

हुं मृत्यौ2 प्रीतिसन्नाशे विद्वेषोच्चाटने च फट् ।
वषट् सुते च दीप्त्यादौ3 मन्त्राणां जातयश् च षट् ॥०४२॥

ओषधीः सम्प्रवक्ष्यामि महारक्षाविधायिनीः ।
महाकाली तथा चण्डी वाराही चेश्वरी तथा ॥०४३॥

सुदर्शना तथेन्द्राणी गात्रस्था रक्षयन्ति तम् ।
बला चातिबला भीरुर्मुसली सहदेव्यपि ॥०४४॥

जाती च मल्लिका यूथौ गारुडी भृङ्गराजकः ।
चक्ररूपा महोषध्यो धारिता विजयादिदाः ॥०४५॥

ग्रहणे च महादेवि उद्धृताः शुभदायिकाः ।
मृदा तु कुञ्जरङ्कृत्वा सर्वलक्षणलक्षितम् ॥०४६॥

तस्य पादतले कृत्वा स्तम्भयेच्छत्रुमात्मनः ।
नगाग्रे चैकवृक्षे च वज्राहतप्रदेशके ॥०४७॥

ॐ नमो महाभैरवाय विकृतदंष्ट्रोग्ररूपाय
पिङ्गलाक्षाय त्रिशूलखड्गधराय4 वौषट्
:न्
[[५३]]
विश्वास-प्रस्तुतिः
पूजयेत् कर्दमं देवि स्तम्भयेच्छस्त्रजालकम् ॥०४८॥

अग्निकार्यं प्रवक्ष्यामि रणादौ जयवर्धनम् ।
श्मशाने निशि काष्ठाग्नौ नग्नी मुक्तशिखो नरः ॥०४९॥

दक्षिणास्यस्तु जुहुयान्नृमांसं रुन्धिरं विषं ।
तुषास्थिखण्डमिश्रन्तु शत्रुनाम्ना शताष्टकम् ॥०५०॥

ॐ नमो भगवति कौमारि लल लल लालय लालय घण्टादेवि अमुकं
मारय सहसा नमो ऽस्तु ते भगवति विद्ये स्वाहा
अनया विद्यया होमाद्बन्धत्वञ्जायते रिपोः1 ।
ॐ वज्रकाय वज्रतुण्ड कपिलपिङ्गल करालवदन ऊर्ध्वकेश
महाबल रक्तमुख2 तडिज्जिह्व महारौद्र दंष्ट्रोत्कट कह
करालिन महादृढप्रहार लङ्गेश्वरसेतुबन्ध शैलप्रवाह
विश्वास-प्रस्तुतिः
गगनचर एह्येहि भवगन्महाबलपराक्रम भैरवो ज्ञापयति एह्येहि
महारौद्र दीर्घलाङ्गूलेन अमुकं वेष्टय वेष्टय जम्भय
जम्भय खन खन वैते ह्रूं फट्3
अष्टत्रिंशच्छतन्देवि हनुमान् सर्वकुम्भकृत् ॥०५१॥

पटे हनूमत्सन्दर्शनाद्भङ्गमायान्ति शत्रवः ॥५२॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे नानाचक्राणि नाम पञ्चविंशत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[५४]]