१२४ युद्धजयार्णवीयज्योतिःशास्त्रसारः

{अथ चतुर्विंशत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

युद्धजयार्णवीयज्योतिःशास्त्रसारः
अग्निर् उवाच
ज्योतिःशास्त्रादिसारञ्च वक्ष्ये युद्धजयार्णवे ।
विना मन्त्रोषधाद्यञ्च यथ्योमामीश्वरो ऽब्रवीत्1 ॥००१॥

मूलम्

देव्युवाच
देवैर् जिता दानवाश् च2 येनोपायेन तद्वद ।
शुभाशुभविवेकाद्यं ज्ञानं युद्धजयार्णवं ॥००२॥

ईश्वर उवाच
मूलदेवेच्चया जाता शक्तिः पञ्चादशाक्षरा ।
चराचरं ततो जातं यामाराध्याखिलार्थवित्3 ॥००३॥

मन्त्रपीठं प्रवक्ष्यामि पञ्चमन्त्रसमुद्भवं ।
ते मन्त्राः सर्वमन्त्राणां जीविते मरणे स्थिताः ॥००४॥

ऋग्यजुःसामाथर्वाख्यदेवमन्त्राः क्रमेण ते ।
सद्योजातादयो मन्त्रा ब्रह्मा विष्णुश् च रुद्रकः ॥००५॥

ईशः सप्तशिखा देवाः शक्राद्याः पञ्च च स्वराः ।
अ+इ+उ+ए+ओ कलाश् च मूलं ब्रह्मेति कीर्तितं ॥००६॥

काष्ठमध्ये तथा वह्निरप्रवृद्धो न दृश्यते ।
विद्यमाना तथा देहे शिवशक्तिर्न दृश्यते ॥००७॥

आदौ शक्तिः समुत्पन्ना ओङ्कारस्वरभूषिता ।
ततो विन्दुर्महादेवि एकारेण व्यवस्थितः ॥००८॥

:न्

[[४६]]

विश्वास-प्रस्तुतिः

जातो नाद उकारस्तु नदते हृदि संस्थितः ।
अर्धचन्द्र इकारस्तु मोक्षमार्गस्य बोधकः ॥००९॥

अकारो व्यक्त उत्पन्नो भोगमोक्षप्रदः परः1
अकार ऐश्वरे भूमिर्निवृत्तिश् च कला स्मृता ॥०१०॥

गन्धोनवीजः प्राणाख्य इडाशक्तिः स्थिरा स्मृता ।
इकारश् च प्रतिष्ठाख्यो रसो पालश् च पिङ्गला ॥०११॥

क्रूरा शक्तिरीवीजः स्याद्धरवीजो ऽग्निरूपवान् ।
विद्या समाना गान्धारी शक्तिश् च दहनी स्मृता ॥०१२॥

प्रशान्तिर्वार्युपस्पृशो यश्चोदानश् चला क्रिया ।
ओङ्कारः शान्त्यतीताख्यः खशब्दयूथपाणिनः ॥०१३॥

पञ्च वर्गाः स्वरा जाताः कुजज्ञगुरुभार्गवाः ।
शनिः क्रमादकाराद्याः ककाराद्यास्त्वधः स्थिताः ॥०१४॥

एतन्मूलमतः सर्वं ज्ञायते सचराचरं ।
विद्यापीठं प्रवक्ष्यामि प्रणवः शिव ईरितः ॥०१५॥

उमा सोमः स्वयं शक्तिर्वामा ज्येष्ठा च रौद्रापि ।
ब्रह्मा विष्णुः क्रमाद्रुद्रो गुणाः सर्गादयस्त्रयः ॥०१६॥

रत्ननाडीत्रयञ्चैव2 स्थूलः सूक्ष्मः परो ऽपरः ।
चिन्तयेच्छ्वेतवर्णन्तं मुञ्चमानं परामृतं ॥०१७॥

प्लव्यमानं यथात्मानं चिन्तयेत्तं दिवानिशं ।
अजरत्वं भवेद्देवि शिवत्वमुपगच्छति3 ॥०१८॥

[[४७]]

विश्वास-प्रस्तुतिः

अङ्गुष्ठादौ न्यसेदङ्गान्नेत्रं मध्ये ऽथ देहके ।
मृत्युञयं ततः प्रार्च्य रणादौ विजयी भवेत् ॥०१९॥

शून्यो निरालयः शब्दः स्पर्शं तिर्यङ्नतं स्पृशेत् ।
रूपस्योर्ध्वगतिः प्रोक्ता जलस्याधः समाश्रिता ॥०२०॥

सर्वस्थानविनिर्मुक्तो गन्धो मध्ये च मूलकं ।
नाभिमूले1 स्थितं कन्दं शिवरूपन्तु मण्डितं ॥०२१॥

शक्तिव्यूहेन सोमो ऽर्को हरिस्तत्र व्यवस्थितः ।
दशवायुसमोपेतं पञ्चतन्मात्रमण्डितं ॥०२२॥

कालानलसमाकारं प्रस्फुरन्तं शिवात्मकं ।
तज्जीवं जीवलोकस्य2 स्थावरस्य चरस्य च ॥०२३॥

तस्मिन्नष्टे3 मृतं मन्ये मन्त्रपीठे ऽनिलात्मकं ॥२४॥

{इत्य् आग्नेये महापुराणे युद्धजयार्णवे ज्योतिःशास्त्रसारो नाम चतुर्विंशत्यधिकशततमो ऽध्यायः ॥ }

  1. ईश्वरो ऽवदत् इति घ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. दानवाद्या इति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. यामाराध्याखिलात्मविदिति ख॥ , ग॥ च ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎