विश्वास-प्रस्तुतिः
{अथ त्रयोविंशत्यधिकशततमो ऽध्यायः}
युद्धजयार्णवीयनानायोगाः
वक्ष्ये जयशुभाद्यर्थं सारं युद्धजयार्णवे ।
अ+इ+उ+ए+ओ स्वराः स्युः क्रमान्नन्दादिका तिथिः ॥००१॥
मूलम्

कादिहान्ता भौमरवी ज्ञसोमौ गुरुभार्गवौ ।
शनिर्दक्षिणनाड्यान्तु भौमार्कशनयः परे ॥००२॥

खार्णवः खससैर् गुण्यो रुद्रैर् भागं समाहरेत् ।
रसाहतन्तु तत् कृत्वा पूर्वभागेन भाजयेत् ॥००३॥

वह्निभिश्चाहतं कृत्वा1 रूपन्तत्रैव निक्षिपेत् ।
स्पन्दनं नाड्याः फलानि सप्राणस्पन्दनं पुनः ॥००४॥

अनेनैव तु मानेन उदयन्ति दिने दिने ।
स्फुरणैस्रिभिरुच्छ्वास उच्छ्वासैस्तु पलं स्मृतम् ॥००५॥

:न्
[[४२]]
विश्वास-प्रस्तुतिः
षष्टिभिश् च पलैर् लिप्ता लिप्ताषष्टिस्त्वहर्निशं ।
पञ्चमार्धोदये बालकुमारयुववृद्धकाः ॥००६॥

मृत्युर्येनोदयस्तेन चास्तमेकादशांशकैः ।
कुलागमे भवेद्भङ्गः समृत्युः पञ्चमो ऽपिवा ॥००७॥

स्वरोदयञ्चक्रं
शनिचक्रे चार्धमासङ्ग्रहाणामुदयः क्रमात् ।
विभागैः पञ्चदशभिः शनिभागस्तु मृत्युदः ॥००८॥

शनिचक्रं
दशकोतिसहस्राणि अर्वुदान्यर्वुदं हरेत्1 ।
त्रयोदशे च लक्षाणि प्रमाणं कूर्मरूपिणः ॥००९॥

मघादौ कृत्तिकाद्यन्तस्तद्देशान्तः शनिस्थितौ ।
कूर्मचक्रं
राहुचक्रे च सप्तोर्धमधः सप्त च संलिखेत्2 ॥०१०॥

वाय्वग्न्योश् चैव नैरृत्ये पूर्णिमाग्नेयभागतः ।
अभावास्यां वायवे च राहुर्वै तिथिरूपकः ॥०११॥

रकारं दक्षभागे तु हकारं वायवे लिखेत् ।
प्रतिपदादौ ककारादीन् सकारं नैरृते पुनः ॥०१२॥

राहोएमुखे तु भङ्गः स्यादिति राहुरुदाहृतः ।
विष्टिरग्नौ3 पौर्णमास्यां कराणीन्द्रे तृतीयकं ॥०१३॥

घोरा याम्यान्तु सप्तम्यां दशम्यां रौद्रसौम्यगा ।
चतुर्दश्यान्तु वायव्ये चतुर्थ्यां वरुणाश्रये ॥०१४॥

[[४३]]
विश्वास-प्रस्तुतिः
शुक्लाष्टभ्यां दक्षिणे च एकादश्यां भृशन्त्यजेत् ।
रौद्रश् चैव तथा श्वेतो मैत्रः सारभटस् तथा ॥०१५॥

सावित्री विरोचनश् च जयदेवो ऽभिजित्तथा1 ।
रावणो विजयश् चैव नन्दी वरुण एव च ॥०१६॥

यमसौम्यौ भवश्चान्ते दशपञ्चमुहूर्तकाः ।
रौद्रे रौद्राणि कुर्वीत श्वेते स्नानादिकं चरेत् ॥०१७॥

मैत्रे कन्याविवाहादि शुभं सारभटे चरेत् ।
सावित्रे स्थापनाद्यं वा विरोचने नृपक्रिया ॥०१८॥

जयदेवे जयं कुर्याद् रावणे रणकर्म च2 ।
विजये कृषिवाणिज्यं पटबन्धं च नन्दिनि ॥०१९॥

वरुणे च तडागादि नाशकर्म यमे चरेत् ।
सौम्ये सौम्यादि कुर्वीत भवेल्लग्नमहर्दिवा ॥०२०॥

योगा नाम्ना विरुद्धाः स्युर्योगा नाम्नैव शोभनाः ।
राहुरिन्द्रात्समीरञ्च वायोर्दक्षं यमाच्छिवम्3 ॥०२१॥

शिवादाप्यञ्जलादग्निरग्नेः सौम्यन्ततस्त्रयम् ।
ततश् च सङ्क्रमं हन्ति चतस्रो घटिकाभ्रमन् ॥०२२॥

राहुचक्रं
चण्डीन्द्राणी वाराही च मुशली गिरिकर्णिका ।
बला चातिबला क्षीरी मल्लिकाजातियूथिकाः ॥०२३॥

यथालाभं धारयेत्ताः श्वेतार्कश् च शतावरी ।
गुडूची वागुरी दिव्या ओषध्यो धारिता जये ॥०२४॥

[[४४]]
विश्वास-प्रस्तुतिः
ॐ नमो भैरवाय1 खड्गपरशुहस्ताय ॐ ह्रूं2
विघ्नविनाशाय ॐ ह्रूं3 फट्
अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये ।
तिलकञ्चाञ्जनञ्चैव धूपलेपनमेव च ॥०२५॥
मूलम्
ॐ नमो भैरवाय1 खड्गपरशुहस्ताय ॐ ह्रूं2
विघ्नविनाशाय ॐ ह्रूं3 फट्
अनेनैव तु मन्त्रेण शिखाबन्धादिकृज्जये ।
तिलकञ्चाञ्जनञ्चैव धूपलेपनमेव च ॥०२५॥
विश्वास-प्रस्तुतिः
स्नानपानानि तैलानि योगधूलिमतः शृणु ।
शुभगा मनःशिला तालं लाक्षारससमन्वितं ॥०२६॥

तरुणीक्षीरसंयुक्तो ललाटे तिलको वशे ।
विष्णुक्रान्ता च सर्पाक्षी सहदेवञ्च4 रोचना ॥०२७॥

अजादुग्धेन सम्पिष्टं तिलकोवश्यकारकः ।
प्रियङ्गुकुङ्कुमं कुष्ठं मोहनी तगरं घृतं ॥०२८॥

तिलको वश्यकृत्तच्च रोचना रक्तचन्दनं ।
निशा मनःशिला तालं प्रियङ्गुसर्षपास् तथा ॥०२९॥

मोहनी हरिता क्रान्ता सहदेवी शिखा तथा ।
मातुलङ्गरसैः पिष्टं ललाटे तिलको वशे ॥०३०॥

सेन्द्राः सुरा वशं यान्ति किं पुनः क्षुद्रमानुषाः ।
मञ्जिष्ठा चन्दनं रक्तं कट्कन्दा विलासिनी ॥०३१॥

पुनर्नवासमायुक्तो लेपो ऽयं भास्करो वशे ।
चन्दनं नागपुष्पञ्च मञ्जिष्ठा तगरं वचा5 ॥०३२॥

{इत्य् आग्नेये महापुराणे नानायोगा नाम त्रयोविंशत्यधिकशततमो ऽध्यायः ॥ }
:न्
२,३ ॐ हूमिति ख॥ , ज॥ च
[[४५]]