{अथ द्वाविंशत्यधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
कालगणनं
अग्निर् उवाच
कालः समागणो वक्ष्ये गणितं कालबुद्धये ।
कालः समागणो ऽर्कघ्नो1 मासैश् चैत्रादिभिर्युतः ॥००१॥
मूलम्

द्विघ्नो द्विस्ट्ःअः सवेदः स्यात् पञ्चाङ्गष्टयुतो
गुणः2 ।
त्रिष्ठो मध्यो वसुगुणः पुनर्वेदगुणश् च सः ॥००२॥

अष्टरन्ध्राग्निहीनः3 स्यादधः सैकरसाष्टकैः ।
मध्यो हीनः षष्टिहतो4 लब्धयुक्तस्तथोपरि ॥००३॥
विश्वास-प्रस्तुतिः
न्यूनः सप्तकृतो वारस्तदधस्तिथिनाडयः ।
सगुणो द्विगुणश्चोरोद्ध्वं त्रिभिरूनो गुणः पुनः ॥००४॥

अधः स्वरामसंयुक्तो रसार्काष्टफलैर् युतः ।
अष्टाविंशच्छेषपिण्डस्तिथिनाड्या अधः स्थितः ॥००५॥

:न्
[[३९]]
विश्वास-प्रस्तुतिः
गुणस्तिसृभिरूनोर्धं द्वाभ्यां च गुणयेत् पुनः ।
मध्ये रुद्रगुणः कार्यो ह्य् अधः सैको नवाग्निभिः1 ॥००६॥

लब्धहीनो2 भवेन्मध्यो द्वाविंशतिविवर्जितः ।
षष्टिशेषे ऋणं ज्ञेयं लब्धमूर्ध्वं विनिक्षिपेत् ॥००७॥

सप्तविंशतिशेषस्तु ध्रुवो नक्षत्रयोगयोः ।
मासि मासि क्षिपेद् वारन्द्वात्रिंशद्घटिकास्तिथौ ॥००८॥

द्वे पिण्डे द्वे च नक्षत्रे नाड्य एकादश ह्य् ऋणे ।
वारस्थाने तिथिन्दद्यात् सप्तभिर्भार्गवमाहरेत् ॥००९॥

शेषवाराश् च सूर्याद्या घटिकासु च पातयेत् ।
पिण्डिकेषु तिथिन्दद्याद्धरेच्चैव चतुर्दश ॥०१०॥

ऋणं धनं धनमृणं क्रमाज् ज्ञेयं चतुर्दशे ।
प्रथमे त्रयोदशे पञ्च द्वितीयद्वादशे दश ॥०११॥

पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां ।
चतुर्थे दशमे चैव भवेदेकोनविंशतिः ॥०१२॥
मूलम्
पञ्चदशस्तृतीये च तथाचैकादशे स्मृतां ।
चतुर्थे दशमे चैव भवेदेकोनविंशतिः ॥०१२॥
विश्वास-प्रस्तुतिः
पञ्चमे नवमे चैव द्वाविंशतिरुदाहृताः ।
षष्ठाष्टमे त्वखण्डाः स्युश् चतुर्विंशतिरेव च ॥०१३॥

सप्तमे पञ्चविंशः स्यात् खण्डशः पिण्डिकाद् भवेत्3 ।
कर्कटादौ हरेद्राशिमृतुवेदत्रयैः क्रमात् ॥०१४॥

[[४०]]
विश्वास-प्रस्तुतिः
मकरादौ दीयते च रसवेदत्रयः क्रमात् ।
मेषादौ प्रातिलोम्येन त्रयो वेदरसाः क्रमात्1 ।
खेषवः खयुगा मैत्रं मेषादौ विकला धनम् ॥०१६॥

कर्कटे प्रातिलोम्यं स्यादृणमेतत् तुलादिके ।
चतुर्गुणा तिथिर्ज्ञेया विकलाश्चेह सर्वदा ॥०१७॥

हन्याल्लिप्तागतागामिपिण्डसङ्ख्याफलन्तरैः ।
षष्ट्याप्तं प्रथमोच्चार्ये हानौ देयन्धने धनम् ॥०१८॥

द्वितीयोच्चरिते वर्गे वैपरीत्यमिति स्थितिः ।
तिथिर्द्विगुणिता कार्या षड्भागपरिवर्जिता ॥०१९॥

रविकर्मविपरीता तिथिनाडीसमायुता ।
ऋणे शुद्धे तु नाड्यः स्युरृणं शुध्येत नो यदा ॥०२०॥

सषष्टिकं प्रदेयन्तत् षष्ट्याधिक्ये च तत्त्यजेत्2 ।
नक्षत्रं तिथिमिश्रं स्याच्चतुर्भिर्गुणिता तिथिः ॥०२१॥

तिथिस्त्रिभागसंयुक्ता ऋणेन च तथान्विता ।
तिथिरत्र चिता कार्या तद्वेदाद्योगशोधनं ॥०२२॥

रविचन्द्रौ समौ कृत्वा योगो भवति निश् चलः ।
एकोना तिथिर्द्विगुणा सप्तभिन्ना कृतिर्द्विधा3 ॥०२३॥

[[४१]]
विश्वास-प्रस्तुतिः
कृष्णचतुर्दश्यन्ते शकुनिः पर्वणीह चतुष्पदं ॥०२४॥

प्रथमे तिथ्यर्धतो हि किन्तुघ्नं प्रतिपन्मुखे ॥२५॥

{इत्य् आग्नेये महापुराणे कालगणनं नाम द्वाविंशत्यधिकशततमो ऽध्यायः ॥ }