{अथैकविंशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
ज्योतिःशास्त्रं
अग्निर् उवाच
ज्योतिःशास्त्रं प्रवक्ष्यामि शुभाशुभविवेकदं ।
चातुर्लक्षस्य सारं यत् तज् ज्ञात्वा सर्वविद्भवेत् ॥००१॥
मूलम्

षडष्टके1 विवाहो न न च द्विद्वादशे स्त्रियाः ।
न त्रिकोणे ह्य् अथ प्रीतिः2 शेषे च समसप्तके ॥००२॥

:न्
[[३०]]
विश्वास-प्रस्तुतिः
द्विद्वादशे त्रिकोणे च मैत्रीक्षेत्रपयोर्यदि ।
भवेदेकाधिपत्यञ्च ताराप्रीतिरथापि वा ॥००३॥

तथापि कार्यः संयोगो न तु षट्काष्टके पुनः ।
जीवे भृगौ चास्तमिते म्रियते च पुमान् स्त्रिया ॥००४॥

गुरुक्षेत्रगते सूर्ये सूर्यक्षेत्रगते गुरौ ।
विवाहं न प्रशंसन्ति कन्यावैधव्यकृद्भवेत् ॥००५॥

अतिचारे त्रिपक्षं स्याद्वक्रे मासचतुष्टयं ।
व्रतोद्वाहौ न कुर्वीत गुरोर्वक्रातिचारयोः ॥००६॥

चैत्रे पौषे न रिक्तासु हरौ सुप्ते कुजे रवौ ।
चन्द्रक्षये चाशुभं स्यात् सन्ध्याकालः शुभावहः ॥००७॥

रोहिणी चोत्तरा मूलं स्वाती हस्तो ऽथ रेवती ।
तुले न मिथुने शस्तो विवाहः परिकीर्तितः ॥००८॥

विवाहे कर्णबेधे च व्रते पुंसवने तथा ।
प्राशने चाद्यचूडायां बिद्धर्क्षञ्च विवर्जयेत्3 ॥००९॥

श्रवणे मूलपुष्ये च सूर्यमङ्गलजीवके ।
कुम्भे सिंहे च मिथुने कर्म पुंसवनं स्मृतं ॥०१०॥

हस्ते मूले मृगे पौष्णे बुधे शुक्रे च निष्कृतिः ।
अर्केन्दुजीवभृगुजे मूले ताम्बूलभक्षणं ॥०११॥

अन्नस्य प्राशनं शुक्रे जीवे मृगे च मौनके4 ।
हस्तादिपञ्चके पुष्पे कृत्तिकादित्रये तथा ॥०१२॥

[[३१]]
विश्वास-प्रस्तुतिः
अश्विन्यामथ रेवत्यां नवान्नफलभक्षणं ।
पुष्पा हस्ता तथा ज्येष्ठा रोहिणी श्रवणाश्विनौ ॥०१३॥

स्वातिसौम्ये च भैषज्यं कुर्यादन्यत्र वर्जयेत् ।
पूर्वात्रयं3 मघा याम्यं पावनं4 श्रवणत्रयं ॥०१४॥

भौमादित्यशनेर्वारे स्नातव्यं रोगमुक्तितः ।
पार्थिवे चाष्टह्रीङ्कारं मध्ये नाम च दिक्षु च ॥०१५॥

ह्रीं पुटं पार्थिवे दिक्षु ह्रीं विदिक्षु लिखेद्वसून् ।
गोरोचनाकुङ्कुमेन भूर्जे वस्त्रे गले धृतं ॥०१६॥

शत्रवो वशमायान्ति मन्त्रेणानेन निश्चितं ।
श्रीं ह्रीं सम्पुटं नाम श्रीं ह्रीं पत्राष्टके
क्रमात् ॥०१७॥

गोरोचनाकुङ्कुमेन भुर्जे ऽथ सुभगावृते ।
गोमध्यवागमः पत्रे हरिद्राया रसेन च ॥०१८॥

शिलापट्टे ऽरीन् स्तम्भयति भूमावधोमुखीकृटं ।
ॐ हूं सः1 सम्पुटन्नाम ॐ हूं सः2 पत्राष्टके
क्रमात् ॥०१९॥

गोरोचनाकुङ्कुमेन भूर्जे मृत्युनिवारणं ।
एकपञ्चनवप्रीत्यै5 द्विषत्द्वादशयोगकाः ॥०२०॥

त्रिसप्तैकादशे लाभो वेदाष्टद्वादशे रिपुः ।
तनुर्धनञ्च सहजः सुहृत् सुतो रिपुस् तथा ॥०२१॥

[[३२]]
विश्वास-प्रस्तुतिः
स्फुटं मेसादिलग्नेषु नवताराबलं वदेत् ॥०२२॥

जन्म सम्पद्विपत् क्षेमं प्रत्यरिः साधकः क्रमात् ।
निधनं मित्रप्रममित्रं ताराबलं विदुः ॥०२३॥

धारे ज्ञगुरुशुक्राणां सूर्याचन्द्रमसोस् तथा ।
माघादिमसाषट्के तु क्षीरमाद्यं प्रशस्यते ॥०२४॥

कर्णबेधो बुधे जीवे पुष्ये श्रवणचित्रयोः ।
पञ्चमे ऽब्दे चाध्ययनं षष्ठीं प्रतिपदन्त्यजेत् ॥०२५॥

रिक्तां पञ्चदशीं भौमं प्रार्च्य वाणीं हरिं श्रियं ।
माघादिमासषत्के तु3 मखलाबन्धनं शुभं ॥०२६॥

चूडाकरणकाद्यञ्च श्रवणादौ न शस्यते ।
अस्तं याते गुरो शुक्रे क्षीणे च शशलाञ्छने ॥०२७॥

उपनीतस्य विप्रस्य मृत्युं जाड्यं विनिर्दिशेत् ।
क्षौरर्क्षे शुभवारे च समावर्तनमिष्यते ॥०२८॥

शुभक्षेत्रे विलग्नेषु शुभयुक्तेक्षितेषु च ।
अश्विनीमघाचित्रासु स्वातीयाम्योत्तरासु च ॥०२९॥

पुनर्वसौ तथा पुष्ये धनुर्वेदः प्रशस्यते ।
भरण्यार्द्रा मघाश्लेषा वह्निभगर्क्षयोस् तथा ॥०३०॥

जिजीविषुर् न कुर्वीत वस्त्रप्रावरणं नरः ।
गुरौ शुक्रे बुधे वस्त्रं विवाहादौ न भादिकं ॥०३१॥

रेवत्यश्विधनिष्ठासु हस्तादिषु च पञ्चसु ।
शङ्खविद्रुमरत्नानां परिधानं प्रशस्यते ॥०३२॥

[[३३]]
विश्वास-प्रस्तुतिः
याम्यसर्पधनिष्ठासु3 त्रिषु पूर्वेषु वारुणे4 ।
क्रीतं हानिकरं द्रव्यं विक्रीतं लाभकृद्भवेत् ॥०३३॥

अश्विनीस्वातिचित्रासु रेवत्यां वारुणे हरौ ।
क्रीतं लाभकरं द्रवयं विक्रीतं हानिकृद्भवेत् ॥०३४॥

भरणी त्रीणि पूर्वाणि आर्द्राश्लेषा मघानिलाः ।
वह्निज्येष्टाविशाखासु स्वामिनो नोपतिष्ठते ॥०३५॥

द्रव्यं दत्तं प्रयुक्तं वा यत्र निक्षिप्यते धनं ।
उत्तरे श्रवणे शाक्रे कुर्याद्राजाभिषेचनं ॥०३६॥

चैत्रं ज्येष्ठं तथा भाद्रमाश्विनं पौषमेव च ।
माघं चैव परित्यज्य शेषमासे गृहं शुभं ॥०३७॥

अश्विनी रोहिणी मूलमुत्तरात्रयमैन्दवं ।
स्वाती हस्तानुराधा च गृहारम्भे प्रशस्यते ॥०३८॥

आदित्यभौमवर्जन्तु वापीप्रासादके तथा ।
सिंहराशिगते जीवे गुर्वादित्ये मलिम्लुचे ॥०३९॥

बाले वृद्धे ऽस्तगे शुक्रे गृहकर्म विवर्जयेत् ।
अग्निदाहो भयं रोगो राजपीडा धनक्षतिः ॥०४०॥

सङ्ग्रहे तृणकाष्ठानां कृते श्रवणपञ्चके ।
गृहप्रवेशनं कुर्याद्धनिष्ठोत्तरवारुणे ॥०४१॥

नौकाया घटने द्वित्रिपञ्चसप्तत्रयोदशी ।
नृपदर्शी धनिष्ठासु हस्तापौष्णाश्विनीषु च ॥०४२॥

[[३४]]
विश्वास-प्रस्तुतिः
अश्लेषा चाश्विनी चैव यात्रासिद्धिस्तु सम्पदा3 ॥०४३॥

त्रिषूत्तरेषु रोहिण्यां सिनीबाली चतुर्दशी ।
श्रवणा चैव हस्ता च चित्रा च वैष्णवी तथा ॥०४४॥

गोष्ठयात्रां न कुर्वीत प्रवेशं नैव कारयेत् ।
अनिलोत्तररोहिण्यां मृगमूलपुनर्वसौ ॥०४५॥

पुष्यश्रवणहस्तेषु कृषिकर्म समाचरेत्4 ।
पुनर्वसूत्तरास्वातीभगमूलेन्द्रवारुणे1 ॥०४६॥
विश्वास-प्रस्तुतिः
गुरोः शुक्रस्य वारे वा वारे च2 सोमभास्वतोः ।
वृषलग्ने च कर्तव्यङ्कन्यायां मिथुने तथा ॥०४७॥

द्विपञ्च5 दशमी सप्त तृतीया च त्रयोदशी ।
रेवतीरोहिणीन्द्राग्निहस्तमैत्रोत्तरेषु6 च ॥०४८॥
विश्वास-प्रस्तुतिः
मन्दारवर्जं वीजानि वापयेत् सम्पदर्थ्यपि7 ।
रेवतीहस्तमूलेषु श्रवणे भगमैत्रयोः ॥०४९॥

पितृदैवे तथा सौम्ये धान्यच्छेदं मृगोदये ।
हस्तचित्रादितिस्वातौ रेवत्यां श्रवणत्रये ॥०५०॥

स्थिरे लग्ने8 गुरोर्वारे अथ9 भार्गवसौम्ययोः ।
याम्यादितिमघाज्येष्ठासूतरेषु प्रवेशयेत् ॥०५१॥
:न्
[[३५]]
विश्वास-प्रस्तुतिः
ॐ धनदाय3 सर्वधनेशाय देहि मे धनं स्वाहा4 । ॐ नवे
वर्षे इलादेवि लोकसंवर्धनि कामरूपिणि देहि मे धनं स्वाहा ॥
पत्रस्थं लिखितं धान्यराशिस्थं धान्यवर्धनं ।
त्रिपूर्वासु विशाखायां धनिष्ठावारुणे ऽपि च ॥०५२॥

एतेषु षट्सु विज्ञेयं धान्यनिष्क्रमणं बुधैः ।
देवतारामवाप्यादिप्रतिष्ठोदङ्मुखे रवौ ॥०५३॥

मिथुनस्थे रवौ दर्शाद्यादि स्याद् द्वादशी तिथिः ।
सदा तत्रैव कर्तव्यं शयनं चक्रपाणिनः ॥०५४॥

सिंहतौलिङ्गते1 चार्के दर्शाद्यद्वादशीद्वयं ।
आदाविन्द्रसमुप्त्यानं प्रबोधश् च हरेः क्रमात् ॥०५५॥

तथा कन्यागते भानौ2 दुर्गोप्त्याने तथाष्टमी ।
त्रिपादेषु च ऋक्षेषु यदा भद्रा तिथिर्भवेत् ॥०५६॥

भौमादित्यशनैश्चारि विज्ञेयं तत् त्रिपुष्करं ।
सर्वकर्मण्युपादेया विशुद्धिश् चन्द्रतरयोः5 ॥०५७॥

जन्माश्रितस्त्रिषष्ठश् च सप्तमो दशमस् तथा ।
एकादशः शशी येषान्तेषामेव शुभं वदेत् ॥०५८॥

शुक्लपक्षे द्वीतीयश् च पञ्चमो नवमः शुभः ।
मित्रातिमित्रसाधकसपत्क्षेमादितारकाः ॥०५९॥

[[३६]]
विश्वास-प्रस्तुतिः
जन्मना मृत्युमाप्नोति विपदा धनसङ्क्षयं ।
प्रत्यरौ मरणं विद्यान्निधने याति पञ्चतां ॥०६०॥

कृष्णाष्टमीदिनादूर्ध्वं
यावच्छुक्लाष्टमीदिनं3 ।
तावत् कालं शशी क्षीणः पूर्णस्तत्रोपरि स्मृतः ॥०६१॥

वृषे च मिथुने भानौ जीवे चन्द्रेन्द्रदैवते4 ।
पौर्णमासी गुरोर्वारे महाज्यौष्ठी प्रकीर्तिता ॥०६२॥

ऐन्द्रे गुरुः शशी चैव प्राजापत्ये रविस् तथा ।
पूर्णिमा ज्येष्ठमासस्य महाज्यौष्ठी प्रकीर्तिता ॥०६३॥

स्वात्यन्तरे यन्त्रनिष्ठे शक्रस्योत्थापयेद् ध्वजं ।
हर्यृक्षपादे1 चाश्विन्यां सप्ताहान्ते विसर्जयेत् ॥०६४॥

सर्वं हेमसमन्दानं सर्वे ब्रह्मसमा द्विजाः ।
सर्वं गङ्गासमन्तोयं राहुग्रस्ते दिवाकरे ॥०६५॥

ध्वाङ्क्षी महोदरी घोरा मन्दा मन्दाकिनी द्विजाः2 ।
राक्षसी च क्रमेणार्कात्सङ्क्रान्तिर्नामभिः स्मृता ॥०६६॥

बालवे कौलवे नागे तैतिले करणे यदि ।
उत्तिष्ठन् सङ्क्रमत्यर्क्रस्तदा लोकः5 सुखी भवेत् ॥०६७॥

गरे ववे वणिग्विष्टौ किन्तुघ्ने शकुनौ व्रजेत् ।
राज्ञो दोषेण लोको ऽयम्पीड्यते सम्पदा समं ॥०६८॥

[[३७]]
विश्वास-प्रस्तुतिः
दुर्भिक्षं राजसङ्ग्रामो दम्पत्योः संशयो भवेत् ॥०६९॥

आधाने जन्मनक्षत्रे व्याधौ क्लेशादिकं भवेत् ।
कृत्तिकायान्नवदिनन्त्रिरात्रं रोहिणीषु च ॥०७०॥

मृगशिरःपञ्चरात्रं आर्द्रासु3 प्राणनाशनं ।
पुनर्वसौ च पुष्ये च सप्तरात्रं विधीयते ॥०७१॥

नवरात्रं तथाश्लेषा श्मशानान्तं मघासु च ।
द्वौ मासौ पूर्वफाल्गुन्यामुत्तरासु त्रिपञ्चकम्4 ॥०७२॥

हस्ते तु दृश्यते चित्रा अर्धमासन्तु पीडनम् ।
मासद्वयन्तथा स्वातिर्विशाखा विंशतिर्दिनं ॥०७३॥

मैत्रे चैव दशाहानि ज्येष्ठास्वेवार्धमासकम् ।
मूले न जायते मोक्षः पूर्वाषाढा त्रिपञ्चकम्1 ॥०७४॥

उत्तरा दिनविंशत्या द्वौ मासौ श्रवणेन च ।
धनिष्ठा चार्धमासञ्च वारुणे च दशाहकम् ॥०७५॥

न च भाद्रपदे मोक्ष उत्तरासु त्रिपञ्चकम् ।
रेवती दशरात्रञ्च अहोरात्रन्तथाश्विनी ॥०७६॥

भरण्यां प्राणहानिः स्याद् गायत्रीहोमतः शुभं ।
पञ्चधान्यतिलाज्याद्यैर् धेनुदानन्द्विजे शमं ॥०७७॥

दशा सूर्यस्य षष्ठाब्दा इन्दोः पञ्चदशैव तु ।
अष्टौ वर्षाणि भौमस्य दशसप्तदशा बुधे ॥०७८॥

[[३८]]
विश्वास-प्रस्तुतिः
दशाब्दानि दशा पङ्गोरूनविंशद्गुरोर्दृशा ।
राहोर्द्वादशवर्षाणि भार्गवस्यैकविंशतिः ॥०७६॥

{इत्य् आग्नेये महापुराणे ज्योतिःशस्त्रसारो नाम एकविंशत्यधिकशततमो ऽध्यायः ॥ }