१२० भुवनकोषवर्णनं

{अथ विंशत्यधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

भुवनकोषः

अग्निर् उवाच
विस्तारस्तु स्मृतो भूमेः सहस्राणि च सप्ततिः ।
उच्छ्रायो दशसाहस्रं पातालञ्चैकमेककं ॥००१॥

मूलम्

अतलं वितलञ्चैव नितलञ्च गभस्तिमत् ।
महाख्यं सुतलञ्चाग्र्यं पातालञ्चापि सप्तमं ॥००२॥

कृष्णपीतारुणाः शुक्लशर्कराशैलकाञ्चनाः ।
भूमयस्तेषु रम्येषु सन्ति दैत्यादयः सुखं ॥००३॥

पातालानामधश्चास्ते शेषो विष्णुश् च तामसः ।
गुणानन्त्यात्स चानन्ततः शिरसा धारयन्महीं ॥००४॥

भुवो ऽधो नरका नैके न पतेत्तत्र वैष्णवः ।
रविणा भासिता पृथ्वी यावत्तायन्नभो मतं ॥००५॥

भूमेर्योजनलक्षन्तु विशिष्ठरविमण्डलं ।
रवेर् लक्षेण चन्द्रश् च लक्षान्नाक्षत्रमिन्दुतः ॥००६॥

द्विलक्षाद्भाद्बुधश्चास्ते बुधाच्छुक्रो द्विलक्षतः ।
द्विलक्षेण कुजः शुक्राद्भौमाद् द्विलक्षतो गुरुः ॥००७॥

गुरोर्द्विलक्षतः सौरित्ल्लक्षात्सप्तर्षयः शनेः ।
लक्षाद् ध्रुवो ह्य् ऋषिभ्यस्तु त्रैलोक्यञ्चोच्छ्रयेण च ॥००८॥

ध्रुवात् कोट्या महर्लोको यत्र ते कल्पवासिनः ।

[[२६]]

विश्वास-प्रस्तुतिः

जनो द्विकोटितस्तस्माद्यत्रासन्1 सनकादयः ॥००९॥

जनात्तपश्चाष्तकोट्या वैराजा यत्र देवताः ।
षणवत्या तु कोटीनान्तपसः सत्यलोककः ॥०१०॥

अपुनर्मारका यत्र ब्रह्मलोको हि स स्मृतः ।
पादगम्यस्तु भूल्लोको भुवः सूर्यान्तरः स्मृतः ॥०११॥

स्वर्गलोको ध्रुवान्तस्तु नियुतानि2 चतुर्दश ।
एतदण्डकटाहेन वृतो ब्रह्माण्डविस्तरः ॥०१२॥

वारिवह्न्यनिलाकाशैस्ततो भूतादिना वहिः ।
वृतं दशगुणैर् अण्डं भूतादिर्महता तथा ॥०१३॥

दशोत्तराणि शेषाणि एकैकस्मान्मामुने ।
महान्तञ्च समावृत्य प्रधानं समवस्थितं ॥०१४॥

अनन्तस्य न तस्यान्तः सङ्ख्यानं नापि विद्यते3
हेतुभूतमशेषस्य प्रकृतिः सा परा मुने ॥०१५॥

असङ्ख्यातानि शाण्डानि तत्र जातानि चेदृशां ।
दारुण्यग्निर्यथा तैलं तिले तद्वत् पुमानिति4 ॥०१६॥

प्रधाने च स्थितो5 व्यापी चेतनात्मात्मवेदनः ।
प्रधानञ्च पुमांश् चैव सर्वभूतात्मभृतया6 ॥०१७॥

विष्णुशक्त्या महाप्राज्ञ वृतौ संश्रयधर्मिणौ ।
तयोः7 सैव पृथग्भावे कारणं संश्रयस्य च ॥०१८॥

:न्

[[२७]]

विश्वास-प्रस्तुतिः

क्षोभकारणभूतश् च सर्गकाले महामुने ।
यथा शैत्यं जले वातो विभर्ति कणिकागतं ॥०१९॥

जगच्छक्तिस् तथा विष्णोः प्रधानप्रतिपादिकां ।
विष्णुशक्तिं समासाद्य देवाद्याः सम्भवन्ति हि ॥०२०॥

स च विष्णुः स्वयं ब्रह्म यतः सर्वमिदं जगत् ।
योजनानां सहस्राणि भास्करस्य रथो नव ॥०२१॥

ईशादण्डस्तथैवास्य द्विगुणो मुनिसत्तम ।
सार्धकोटिस् तथा सप्तनियुतान्यधिकानि वै ॥०२२चे
योजनानान्तु तस्याक्षस्तत्र चक्रं प्रतिष्ठितं ।
त्रिनाभिमतिपञ्चारं षण्णेमि द्व्ययनात्मकं ॥०२३॥

संवत्सरमयं कृत्स्नं कालचक्रं प्रतिष्ठितं ।
चत्वारिंशत्सहस्राणि द्वितीयक्षो विवस्वतः ॥०२४॥

पञ्चान्यानि तु सार्धानि स्यन्दनस्य महामते ।
अक्षप्रमाणमुभयोः प्रमाणन्तदद्युगार्धयोः ॥०२५॥

ह्रस्वो ऽक्षस्तद्युगार्धञ्च ध्रुवाधारं रथस्य वै ।
हयाश् च सप्त छन्दांसि गायत्र्यादीनि सुव्रत ॥०२६॥

उदयास्तमनं ज्ञेयं दर्शनादर्शनं रवेः ।
यावन्मात्रप्रदेशे तु वशिष्ठो ऽवस्थितो ध्रुवः ॥०२७॥

स्वयमायाति तावत्तु भूमेराभूतसम्प्लवे1
ऊर्धोत्तरमृषिभ्यस्तु ध्रुवो यत्र व्यवस्थितः ॥०२८॥

एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरं ।
निर्धूतदोषपङ्कानां यतीनां स्थानमुत्तमं ॥०२९॥

[[२८]]

विश्वास-प्रस्तुतिः

ततो गङ्गा प्रभवति स्मरणात् पाशनाशनी1
दिवि रूपं हरेर्ज्ञेयं शिशुमाराकृति प्रभो ॥०३०॥

स्थितः पुच्छे ध्रुवस्तत्र भ्रमन् भ्रामयति ग्रहान् ।
स रथो ऽधिष्ठिता देवैर् आदित्यैर् ऋषिभिर्वरैः2 ॥०३१॥

गन्धर्वैर् अप्सरोभिश् च ग्रामणीसर्पराक्षसैः3
हिमोष्णवारिवर्षाणां कारणं भगवान् रविः ॥०३२॥

ऋग्वेदादिमयो विष्णुः स शुभाशुभकारणं ।
रथस्त्रिचक्रः सोमस्य कुन्दाभास्तस्य वाजिनः4 ॥०३३॥

वामदक्षिणतो युक्ता दश तेन चरत्यसौ ।
त्रयस्त्रिंशत्सहस्राणि त्रयस्त्रिंशच्छतानि च ॥०३४॥

त्रयस्त्रिंशत्तथा देवाः पिवन्ति क्षणदाकरं5
एकां कलाञ्च पितर एकामारश्मिसंस्थिताः ॥०३५॥

वाय्वग्निद्रव्यसम्भूतो रथश् चन्द्रसुतस्य च ।
अष्टाभिस्तुरगैर् युक्तो बुधस्तेन चरत्यपि ॥०३६॥

शुक्रस्यापि रथो ऽष्टाश्वो भौमस्यापि रथस् तथा ।
वृहस्पते रथो ऽष्टाश्वः शनेरष्टाश्वको रथः ॥०३७॥

स्वर्भानोश् च रथो ऽष्टाश्वः केतोश्चाष्टाश्वको रथः ।
यदद्य वैष्णवः कायस्ततो विप्र वसुन्धरा ॥०३८॥

[[२९]]

विश्वास-प्रस्तुतिः

पद्माकरा समुद्भूता पर्वताद्यादिसंयुता ।
ज्योतिर्भुवननद्यद्रिसमुद्रवनकं हरिः ॥०३९॥

यदस्ति नास्ति तद्विष्णुर्विष्णुज्ञानविजृम्भितं1
न विज्ञानमृते किञ्चिज् ज्ञानं विष्णुः परम्पदं ॥०४०॥

तत् कुर्याद् येन विष्णुः स्यात् सत्यं ज्ञानमनन्तकं ।
पठेद् भुवनकोषं हि यः सो ऽवाप्तसुखात्मभाक् ॥०४१॥

ज्योतिःशास्त्रादिविध्याश् च शुभाशुभाधिपो हरिः2 ॥२४॥

{इत्य् आग्नेये महापुराणे भुवनकोषो नाम विंशत्यधिकशततमो ऽध्यायः ॥ }

  1. यत्र वै इति ङ॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  2. अयुतानि इति ज॥ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎ ↩︎

  3. सङ्ख्यानं नैव विद्यते इति घ॥ , झ॥ च । सङ्ख्यानं न च विद्यते इति
    ग। ↩︎ ↩︎ ↩︎ ↩︎

  4. पुमानपि इति घ॥ , झ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  5. प्रधाने ऽवस्थितं इति ख॥ , ग॥ , ङ॥ च ↩︎ ↩︎ ↩︎ ↩︎

  6. सर्वभूतानुभूतया इति ङ॥ ↩︎ ↩︎

  7. द्वयोरिति झ॥ ↩︎ ↩︎