{अथैकोनविंशत्यधिकशततमो ऽध्यायः}
महाद्वीपादि
अग्निर् उवाच
लक्षयोजनविस्तारं जम्बूद्वीपं समावृतम् ।
:न्
[[२२]]
विश्वास-प्रस्तुतिः
लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः ॥००१॥
मूलम्
लक्ष्ययोजनमनेन क्षीरोदेन समन्ततः ॥००१॥
विश्वास-प्रस्तुतिः
संवेष्ट्य क्षारमुदधिं प्लक्षद्वीपस् तथा स्थितः1 ।
सप्त मेधातिथेः पुत्राः प्लक्षद्वीपेश्वरास् तथा ॥००२॥

स्याच्छान्तभयः शिशिरः सुखोदय इतः परः ।
आनन्दश् च शिवः क्षेमो ध्रुवस्तन्नामवर्षकं ॥००३॥

मर्यादाशैलो गोमेधश् चन्द्रो नारददुन्द्भी ।
सोमकः सुमनाः शैलो वैभ्राजास्तज्जनाः शुभाः ॥००४॥

नद्यः प्रधानाः सप्तात्र प्लक्षाच्छाकान्तिकेषु च ।
जीवनं पञ्चसास्रं धर्मो वर्णाश्रमात्मकः2 ॥००५॥

आर्यकाः कुरवश् चैव विविंशा भाविनश् च ते ।
विप्राद्यास्तैश् च सोमो ऽर्च्यो द्विलक्षश्चाब्धिलक्षकः ॥००६॥

मानेनेक्षुरसोदेन वृतो द्विगुणशाल्मलः ।
वपुष्मतः सप्त पुत्राः शाल्मलेशास् तथाभवन् ॥००७॥

श्वेतो ऽथ हरितश् चैव जीमूतो लोहितः क्रमात् ।
वैद्युतो मानसश् चैव सुप्रभो नाम वर्षकः ॥००८॥

द्विगुणो द्विगुणेनैव सुरोदेन समावृतः ।
कुमुदश्चानलश् चैव3 तृतीयस्तु वलाहकः ॥००९॥

द्रोणः कङ्को ऽथ4 महिषः ककुद्मान् सप्त निम्नगाः ।
कपिलाश्चारुणाः पीताः कृष्णाः
स्युर्ब्राह्मणादयः ॥०१०॥

[[२३]]
विश्वास-प्रस्तुतिः
ज्योतिष्मतः कुशेशाः स्युरुद्गिजो धेनुमान् सुतः ॥०११॥

द्वैरथो लंवनो धैर्यः कपिलश् च प्रभाकरः ।
विप्राद्या दधिमुख्यास्तु ब्रह्मरूपं यजन्ति ते ॥०१२॥

विद्रुमो1 हेमशैलश् च द्युतिमान् पुष्पवांस् तथा ।
कुशेशयो हरिः शैलो वर्षार्थं मन्दराचलः ॥०१३॥

वेष्टितो ऽयं घृतोदेन क्रौञ्चद्वीपेन सो ऽप्यथ ।
क्रौञ्चेश्वराः द्युतिमतः पुत्रास्तन्नामवर्षकाः ॥०१४॥

कुशलो मनोनुगश्चोष्णः प्रधानो ऽथान्धकारकः ।
मुनिश् च दुन्दुभिः सप्त सप्त शैलाश् च निम्नगाः2 ॥०१५॥

क्रौञ्चश् च वाम्नश् चैव तृतीयश्चान्धकारकः3 ।
देववृत् पुण्डरीकश् च दुन्दुभिर्द्विगुणो मिथः ॥०१६॥

द्वीपा द्वीपेषु ये शैला यथा द्वीपानि ते तथा ।
पुष्कराः पुष्कला धन्यास्तीर्था4 विप्रादयो हरिम् ॥०१७॥

यजन्ति क्रौञ्चद्वीपस्तु दधिमण्डोदकावृतः ।
संवृतः शाकद्वीपेन हव्याच्छाकेश्वराः सुताः ॥०१८॥

जलदश् च कुमारश् च सुकुमारो मणीवकः ।
कुशोत्तरथो मोदाकी द्रुमस्तन्नामवर्षकाः ॥०१९॥

उदयाख्यो जलधरो रैवतः श्यामकोद्रकौ ।
आम्विकेयस् तथा रम्यः केशरी सप्त निम्नगाः ॥०२०॥

[[२४]]
विश्वास-प्रस्तुतिः
मगा मगधमनस्या1 मन्दगाश् च द्विजातयः2 ।
यजन्ति सूर्यरूपं तु3 शाकः क्षीराब्धिना वृतः ॥०२१॥
विश्वास-प्रस्तुतिः
पुष्करेणावृतः सो ऽपि द्वौ पुत्रौ सवनस्य च ।
मसावीतो धातकिश् च वर्षे द्वे नामचिह्निते4 ॥०२२॥

एको ऽद्रिर्मानसाख्यो ऽत्र मध्यतो वलयाकृतिः ।
योजनानां सहस्राणि विस्तारोच्छ्रायतः समः ॥०२३॥

जीवनं दशसाहस्रं सुरैर् ब्रह्मात्र पूज्यते ।
स्वादूदकेनोदधिना वेष्टितो द्वीपमानतः ॥०२४॥

ऊनातिरिक्तता चापां समुद्रेषु न जायते ।
उदयास्तमनेष्विन्दोः पक्षयोः शुक्लकृष्णयोः ॥०२५॥

दशोत्तराणि पञ्चैव5 अङ्गुलानां शतानि वै ।
अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां6 महामुने ॥०२६॥
विश्वास-प्रस्तुतिः
स्वादूदका बहुगुणा7 भूर्हैमी जन्तुवर्जिता ।
लोकालोकस्ततः शैलो योजनायुतविस्तृतः ॥०२७॥

लोकालोकस्तु तमसावृतो ऽथाण्डकटाहतः ।
भूमिः साण्डकटाहेन पञ्चाशत्कोटिविस्तरा8 ॥०२८॥

{इत्य् आग्नेये महपुराणे द्वीपादिवर्णनं नामैकोनविंशत्यधिकशततमो ऽध्यायः ॥ }
:न्
[[२५]]