११८ भारतवर्षवर्णनं

{अथाष्टादशाधिकशततमो ऽध्यायः}

विश्वास-प्रस्तुतिः

भारतवर्षं

अग्निर् उवाच
उत्तरं यत् समुद्रस्य हिमाद्रेश् चैव दक्षिणं ।
वर्षं तद् भारतं नाम नवसाहस्रविस्तृतं ॥००१॥

मूलम्

कर्मभूमिरियं स्वर्गमपवर्गं च गच्छतां ।

:न्

[[२१]]

विश्वास-प्रस्तुतिः

महेन्द्रो मलयः सह्यः शुक्तिमान् हेमपर्वतः1 ॥००२॥

विन्ध्यश् च पारिपात्रश् च सप्तात्र कुलपर्वताः ।
इन्द्रद्वीपः कसेरुश् च ताम्रवर्णो गभस्तिमान् ॥००३॥

नागद्वीपस् तथा सौम्यो गान्धर्वस्त्वथ वारुणः ।
अयं तु नवमस्तेषु द्वीपः सागरसंवृतः ॥००४॥

योजनानां सहस्राणि द्वीपोयं दक्षिणोत्तरात् ।
नव भेदा भारतस्य2 मध्यभेदे ऽथ पूर्वतः ॥००५॥

किराता यवनाश्चापि ब्राह्मणाद्याश् च मध्यतः ।
वेदस्मृतिमुखा नद्यः पारिपात्रोद्भवास् तथा ॥००६॥

विन्ध्याच्च नर्मदाद्याः स्युः सह्यात्तापी पयोष्णिका ।
गोदावरीभीमरथीकृष्णवेणादिकास् तथा ॥००७॥

मलयात् कृतमालाद्यास्त्रिसामाद्या महेन्द्रजाः ।
कुमाराद्याः शुक्तिमतो[^३] हिमाद्रेश् चन्द्रभागका ॥००८॥

पश्चिमे कुरुपाञ्चालमध्यदेशादयःस्थिताः ॥९॥

{इत्य् आग्नेये महापुराणे भारतवर्षं नामाष्टादशाधिकशततमो ऽध्यायः ॥ }

  1. यस्तु लभेच्छ्राद्धकृतं फलमिति ख॥ , छ॥ , ज॥ च ↩︎ ↩︎

  2. वाराणसी इति ख॥ , ङ॥ , छ॥ , ज॥ च ↩︎ ↩︎