{अथ सप्तदशाधिकशततमो ऽध्यायः}
विश्वास-प्रस्तुतिः
श्राद्धकल्पः
अग्निर् उवाच
कात्यायनी मुनीनाह यथा श्राद्धं तथा वदे ।
गयादौ श्राद्धं कुर्वीत सङ्क्रान्त्यादौ विशेषतः ॥००१॥
मूलम्

काले वापरपक्षे च चतुर्थ्या ऊर्ध्वमेव व ।
सम्याद्य च पदर्क्षे च1 पूर्वेद्युश् च निमन्त्रयेत् ॥००२॥

यतीन् गृहस्थसाधून् वा स्नातकाञ्छ्रोत्रियान् द्विजान् ।
अनवद्यान् कर्मनिष्ठान् शिष्टानाचारसंयुतान्2 ॥००३॥

:न्
[[१४]]
विश्वास-प्रस्तुतिः
वर्जयेच्छित्रिकुष्ठ्यादीन्न गृह्णीयान्निमन्त्रितान् ।
स्नाताञ्छुचींस् तथा दान्तान् प्राङ्मुखान् देवकर्मणि ॥००४॥

उपवेशयेत्त्रीन् पित्र्यादीनेकैकमुभयत्र वा ।
एवं मातामहादेश् च शाकैर् अपि च कारयेत् ॥००५॥

तदह्नि ब्रह्मचारी स्यादकोपो ऽत्वरितो मृदुः1 ।
सत्यो ऽप्रमत्तो ऽनध्वन्यो अस्वाध्यायश् च2 वाग्यतः ॥००६॥

सर्वांश् च पङ्क्तिमूर्धन्यान् पृच्छेत् प्रश्ने तथासने ।
दर्भानास्तीर्य द्विगुणान् पित्रे देवादिकञ्चरेत् ॥००७॥

विश्वान्देवानावाहयिष्ये पृच्छेदावाहयेति च ।
विश्वेदेवास आवाह्य विकीर्याथ यवान् जपेत् ॥००८॥

विश्वे देवाः शृणुतेमं पितॄनावाहयिष्ये च ।
पृच्छेदावाहयेत्युक्ते उशन्तस्त्वा समाह्वयेत् ॥००९॥

तिलान् विकीर्याथ जपेदायान्त्वित्यादि पित्रके ।
सपित्रित्रे निषिञ्चेद्वा शन्नो देवीरभि तृचा ॥०१०॥

तिलो ऽसि सोमदेवत्यो गोसवो देवनिर्मितः ।०११।
प्रत्नमद्भिः पृक्तः स्वधया पितॄन् लोकान् प्रीणाहि नः
स्वधा । इति
श्रीश् च तेति ददेत्पुष्पं पात्रे हैमे ऽथ राजते ॥०११॥

औदुम्वरे वा खड्गे वा पर्णपात्रे प्रदक्षिणम् ।
देवानामपसव्यं तु पितॄणां सव्यमाचरेत् ॥०१२॥

[[१५]]
एकैकस्य एकैकेन सपवित्रकरेषु च ।
या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा
विश्वास-प्रस्तुतिः
उतपार्थिवीर्याः
हिरण्यवर्णा यज्ञियास्ता न आपः शिवाः संश्योनाः
सुहवा भवन्तु ॥
विश्वे देवा एष वो ऽर्घः स्वाहा च पितरेष ते ॥०१३॥

अवधैवं पितामहदेः संस्रवात् प्रथमे चरेत्1 ।
पितृभ्यः स्थानमसीति न्युब्जं पात्रं करोत्यधः ॥०१४॥

अत्र गन्धपुष्पधूपदीपाच्छादनदानकं ।
घृताक्तमन्नमुद्धृत्य पृच्छत्यग्नौ करिष्ये च ॥०१५॥

कुरुष्वेत्यभ्यनुज्ञातो जुहुयात्साग्निको ऽनले ।
अनग्निकः पितृहस्ते2 सपवित्रे तु मन्त्रतः ॥०१६॥

अग्नये कव्यवाहनाय स्वाहेति3 प्रथमाहुतिः ।
सोमाय पितृमते ऽथ यमायाङ्गिरसे परे ॥०१७॥

हुतशेषं चान्नपात्रे दत्वा पात्रं समालभेत् ।
पृथिवी ते पात्रन्द्यौः पिधानं ब्राह्मणस्य मुखे अमृते
अमृतं जुहोमि स्वाहेति
जप्त्वेदं विष्णुरित्यन्ने द्विजाङ्गुष्ठन्निवेशयेत् ॥०१८॥

अपहतेति च तिलान् विकीर्यान्नं प्रदाययेत् ।
जुषध्वमिति चोक्त्वाथ गायत्र्यादि ततो जपेत् ॥०१९॥

[[१६]]
विश्वास-प्रस्तुतिः
देवताभ्यः पितृभ्यश् च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहयै नित्यमेव नमो नमः1 ॥०२०॥

तृप्तान् ज्ञात्वान्नं विकिरेदपो दद्यात् सकृत् सकृत् ।
गायत्रीं पूर्ववज्जप्त्वा मधु मध्विति वै जपेत् ॥०२१॥

तृप्ताः स्थ इति सम्पृच्छेत्तृप्ताः स्म इति वै वदेत् ।
शेषमन्नमनुज्ञाप्य सर्वमन्नमथैकतः ॥०२२॥

उद्धृत्योच्छिष्टपार्श्वे तु कृत्वा चैवावनेजनं ।
दद्यात्कुशेषु त्रीन् पिण्डानाचान्तेषु परे जगुः ॥०२३॥

आचान्तेषूदकं पुष्पाण्यक्षतानि प्रदापयेत् ।
अक्षय्योदकमेवाथ आशिषः प्रार्थयेन्नरः2 ॥०२४॥

अघोराः पितरः सन्तु गोत्रन्नो वर्धतां सदा ।
दातारो नो ऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥०२५॥

श्रद्धा च नो माव्यगमद्बहुदेयं च नो ऽस्त्विति ।
अन्नञ्च नो बहु भवेदतिथींश् च लभेमहि ॥०२६॥

याचितारश् च नः सन्तु मा च याचिस्म कञ्चन ।
स्वधावाचनीयान् कुशानास्तीर्य सपवित्रकान्3 ॥०२७॥

स्वधां वाचयिष्ये पृच्छेदनुज्ञातश् च वाच्यतां ।
पितृभ्यः पितामहेभ्यः प्रपितामहमुख्यके ॥०२८॥

स्वधोच्यतामस्तु स्वधा उच्यमानस्तथैव च ।
अपो निषिञ्चेदुत्तानं पात्रं कृत्वाथ दक्षिणां ॥०२९॥

[[१७]]
विश्वास-प्रस्तुतिः
यथाशक्ति प्रदद्याच्च दैवे पैत्रे ऽथ वाचयेत् ।
विश्वे देवाः प्रीयन्ताञ्च वाजे विसर्जयेत् ॥०३०॥

आमावाजस्येत्यनुव्रज्य कृत्वा विप्रान् प्रदक्षिणं ।
गृहे विशेदमावास्यां मासि मासि चरेत्तथा ॥०३१॥

एकोद्दिष्टं प्रवक्ष्यामि श्राद्धं पूर्ववदाचरेत् ।
एकं पवित्रमेकार्धं एकं पिण्डम्प्रदापयेत् ॥०३२॥

नावाहनाग्नौकरणं विश्वे देवा न चात्र हि ।
तृप्तिप्रश्ने स्वदितमिति वदेत्सुखदितं द्विजः ॥०३३॥

उपतिष्ठतामित्यक्षय्ये विसर्गे चाभिरम्यतां ।
अभिरताः स्म इत्य् अपरे शेषं पूर्ववदाचरेत् ॥०३४॥

सपिण्ठीकरणं वक्ष्ये अब्दान्ते मध्यतो ऽपि वा ।
पितॄणां त्रीणि पात्राणि एकम्प्रेतस्य पात्रकं ॥०३५॥

सपवित्राणि चत्वारि तिलपुष्पयुतानि च ।
गन्धोदकेन युक्तानि1 पूरयित्वाभिषिञ्चति ॥०३६॥

प्रेतपात्रं पितृपात्रे ये समना इति द्वयात् ।
पूर्ववत् पिण्डदानादि प्रेतानां पितृता भवेत् ॥०३७॥

अथाभ्युदयिकं श्राद्धं वक्ष्ये सर्वं तु पूर्ववत् ।
जपेत् पितृमन्त्रवर्जं पूर्वाह्णे तत् प्रदक्षिणं ॥०३८॥

उपचारा ऋजुकुशास्तिलार्थैश् च यवैर् इह2 ।
तृप्तिप्रश्नस्तु सम्पन्नं सुसम्पन्नं वदेद्द्विजः ॥०३९॥

[[१८]]
विश्वास-प्रस्तुतिः
दध्यक्षतवदराद्याः1 पिण्डा नान्दीमुखान् पितॄन् ।
आवाहयिष्ये पृच्छेच्च प्रीयन्तामिति चाक्षये ॥०४०॥

नान्दीमुखाश् च पितरो वाचयिष्ये ऽथ पृच्छति ।
नान्दीमुखान् पितृगणान् प्रीयन्तामित्यथो वदेत् ॥०४१॥

नान्दीमुखाश् च पितरस्तत्पिता प्रपितामहः ।
मातामहः प्रमातामहो वृद्धप्रमातृकामहः ॥०४२॥

स्वधाकारन्न युञ्जीत युग्मान् विप्रांश् च भोजयेत् ।
तृप्तिं वक्ष्ये पितॄणां च ग्राम्यैर् ओषधिभिस् तथा ॥०४३॥

मासन्तृप्तिस् तथारण्यैः2 कन्दमूलफलादिभिः ।
मत्स्यैर् मासद्वयं मार्गैस्त्रयं वै शाकुनेन च ॥०४४॥

चतुरो रौरवेणाथ3 पञ्च षट् छागलेन तु4 ।
कूर्मेण सप्त चाष्टौ च वाराहेण नवैव तु ॥०४५॥
विश्वास-प्रस्तुतिः
मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ।
संवत्सरन्तु गव्येन पयसा पायसेन वा ॥०४६॥
मूलम्
मेषमांसेन दश च माहिषैः पार्षतैः शिवैः ।
संवत्सरन्तु गव्येन पयसा पायसेन वा ॥०४६॥
विश्वास-प्रस्तुतिः
वार्धीनसस्य मांसेन तृप्तिर्द्वादशवार्षिकी ।
खड्गमांसं कालशाकं लोहितच्छागलो5 मधु ॥०४७॥

महाशल्काश् च वर्षासु मघाश्राद्धमथाक्षयं6 ।
मन्त्राध्याय्यग्निहोत्री च शाखाध्यायी षडङ्गवित् ॥०४८॥

तृणाचिकेतः त्रिमधुर्धर्मद्रोणस्य7 पाठकः ।
त्रिषुपर्णज्येष्ठसामज्ञानी स्युः पङ्क्तिपावनाः ॥०४९॥

[[१९]]
विश्वास-प्रस्तुतिः
कम्यानां कल्पमाख्यास्ये1 प्रतिपत्सु धनं बहु ।
स्त्रियः परा द्वितीयायाञ्चतुर्थ्यां धर्मकामदः ॥०५०॥

पञ्चम्यां पुत्रकामस्तु षष्ठ्याञ्च श्रैष्ठ्यभागपि2 ।
कृषिभागी च सप्तम्यामष्टम्यामर्थलाभकः ॥०५१॥

नवम्याञ्च एकशफा3 दशम्याङ्गोगणो भवेत् ।
एकदश्यां परीवारो द्वादश्यान्धनधान्यकं ॥०५२॥

ज्ञातिश्रेष्ठ्यं त्रयोदश्यां चतुर्दश्याञ्च शस्त्रतः4 ।
मृतानां श्राद्धं सर्वाप्तममावास्यां समीरितं5 ॥०५३॥

सप्त व्याधा दशारण्ये6 मृगाः कालञ्जरे गिरौ ।
चक्रवाकाः शरद्वीपे हंसाः सरसि मान्से ॥०५४॥

ते ऽपि जाताः7 कुरुक्षेत्रे ब्राह्मणा वेदपारगाः ।
प्रस्थिता दूरमध्वानं यूयन्तेभ्यो ऽवसीदत ॥०५५॥

श्राद्धादौ पठिते श्राद्धं पूर्णं स्याद्ब्रह्मलोकदं ।
श्राद्धं कुर्याच्च पुत्रादिः8 पितुर्जीवति तत्पितुः ॥०५६॥

तत्पितुस्तत्पितुः कुर्याज्जीवति प्रपितामहे ।
पितुः पितामस्हस्याथ परस्य प्रपितामात्9 ॥०५७॥

[[२०]]
विश्वास-प्रस्तुतिः
एवं मात्रादिकस्यापि तथा मातामहादिके ।
श्राद्धकल्पं पठेद्यस्तु स लभेत् श्राद्धकृत्फलं1 ॥०५८॥

तीर्थे युगादौ मन्वादौ श्राद्धं दत्तमथाक्षयं ।
अश्वयुच्छुक्लनवमी द्वादशी कर्तिके तथा ॥०५९॥

तृतीया चैव माघस्य तथा भाद्रपदस्य च ।
फाल्गुनस्याप्यमावास्या पौषयैकादशी तथा ॥०६०॥

आषाढस्यापि दशमी माघमासस्य सप्तमी ।
श्रावणे चाष्टमी कृष्णा तथाषाढे च पूर्णिमा ॥०६१॥

कर्तिकी फाल्गुनी तद्वज् ज्यैष्ठे पञ्चदशी सिता ।
स्वायम्भुवाद्या मनवस्तेषामाद्याः किलाक्षयाः ॥०६२॥

गया प्रयागो गङ्गा च कुरुक्षेत्रं च नर्मदा ।
श्रीपर्वतः प्रभासश् च शालग्रामो वराणसी2 ॥०६३॥

गोदावरी तेषु श्राद्धं स्त्रीपुरुषोत्तमादिषु ॥६४॥

{इत्य् आग्नेये महापुराणे श्राद्धकल्पो नाम सप्तदशाधिकशततमो ऽध्यायः ॥ }